संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
लक्ष्मीपूजनोत्सव

धर्मसिंधु - लक्ष्मीपूजनोत्सव

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाश्विनामावास्यायांप्रातरभ्यङ्गःप्रदोषेदीपदानलक्ष्मीपूजनादिविहितम्

तत्रसूर्योदयंव्याप्यास्तोत्तरंघटिकाधिकरात्रिव्यापिनिदर्शेसतिनसंदेहः

अत्रप्रातरभ्यङ्गदेवपूजादिकंकृत्वापराह्णेपार्वणश्राद्धंकृत्वाप्रदोषसमयेदीपदानोल्काप्रदर्शनलक्ष्मीपूजनानिकृत्वाभोजनंकार्यम्

अत्रदर्शेबालवृद्धादिभिन्नैर्दिवानभोक्तव्यंरात्रौभोक्तव्यमितिविशषोवाचनिकः तथाचपरदिने एवदिनद्वये

वाप्रदोषव्याप्तौपरा पूर्वत्रैवप्रदोषव्याप्तौलक्ष्मीपूजादौपूर्वा अभ्यङ्गस्नानादौ

पराएवमुभयत्रप्रदोषव्याप्त्यभावेपिपुरुषार्थचिन्तामणौतुपूर्वत्रैवव्याप्तिरितिपक्षेपरत्रयामत्रयाधिकव्यापिदर्शेदर्शापेक्षया

प्रतिपद्‌वृद्धिसत्वेलक्ष्मीपूजादिकमपिपरत्रैवेत्युक्तम्

एतन्मतेउभयत्रप्रदोषाव्याप्तिपक्षेपिपरत्रदर्शस्यसार्धयामत्रयाधिकव्यापित्वात्परैवयुक्तेतिभातिचतुर्दश्यादिदिनत्रयोपिदीपावलिसंज्ञके

यत्रयत्राह्निस्वातीनक्षत्रयोगस्तस्यप्राशस्त्यातिशयःअस्यामेवनिशीथोत्तरं नगरस्त्रीभिःस्वगृहाङ्गणादलक्ष्मीनिःसारणंकार्यम्

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेद्वितीयपरिच्छेदे आश्विनमासकृत्यनिर्णयोद्देशः समाप्तः ॥

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP