संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
चैत्रशुक्लत्रयोदश्यामनङ्गपूजनंव्रतं

धर्मसिंधु - चैत्रशुक्लत्रयोदश्यामनङ्गपूजनंव्रतं

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

तत्रत्रयोदशीपूर्वविद्धाग्राह्या अथचतुर्दश्यांनृसिंहस्यदोलोत्सवः

अत्रैवश्रीशिवस्यैकवीरायाभैरवस्यचदमनकैःपूजनम् अत्रचचतुर्दशीपूर्वविद्धापराह्नव्यापिनीग्राह्या

अपराह्णव्याप्त्यभावेऽपराह्णस्पर्शिन्यापिपूर्वाग्राह्या तदभावे पराग्राह्या चैत्रपौर्णमासीसामान्यनिर्णयात्पराग्राह्या

पूर्वोक्ततत्तत्तिथौदमनकपूजनाकरणेऽस्यामेवसर्वदेवानांदमनपूजनम् चैत्र्यांचित्रायुतायांचित्रवस्त्रदानंसौभाग्यदं

रविगुरुमन्दवारयुतचैत्र्यांस्नानश्राद्धादिभिरश्वमेधपुण्यम् चैत्रस्यशुक्लेकादश्यांपौर्णमास्यां

वामेषसंक्रान्तिमारभ्यवावैशास्वस्नानारभ्भः तत्रमन्त्रः वैशाखंसकलंमासंमेषसंक्रमणेरवेः ।

प्रातःसनियमःस्नास्येप्रीतयांमधुसूदनः १ मधुहन्तुःप्रसादेनब्राह्मणानामनुग्रहात् ।

निर्विघ्नमस्तु मेपुण्यंवैशाखस्नानमन्वहम् २ माधवेमेषगेभानौमुरारेमधुसूदन ।

प्रातःस्नानेनमे नाथ फलदोभवपाहन् ३ इति अत्र हविष्याशनब्रह्मचर्यादयोनियमाः

एवंसंपूर्णस्नानाशक्तौत्रयोदशयदिदिनत्रयमन्तेस्नायात् इयंपौर्णिमासीमन्वादिः पूर्वमुक्ता

चैत्रकृष्णत्रयोदशीशततारकानक्षत्रयुतावारुणिसंज्ञकास्नानादिनाग्रहणादि पूर्वतुल्यफलदा

शनिवारयुक्तामहावारुणीशुभयोगशनिवारशततारकायुक्ता महामहावारुणी वारुणीयोगेकृष्णादिःपौर्णमास्यन्तो

मासस्तेनामान्तमासेफाल्गुनकृष्णत्रयोदशीग्राह्येतिबोध्यम्

चैत्रकृष्णचतुर्दश्यांशिवसन्निधौस्नानेनभौमवारयुतायांगङ्गायांस्नानेनपिशाचत्वाभावःफलम्

इतिश्रीमदनन्तोपाध्याय्सूनिकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेचैत्रमासकृत्यनिर्णयोद्देशः समाप्तः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP