संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
भीष्माष्टमी

धर्मसिंधु - भीष्माष्टमी

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघशुक्लाष्टमीभीष्माष्टमी अस्यांभीष्मोद्देशेनयेश्राद्धंकुर्वन्तितेसन्ततिमन्तोभवन्ति

तत्रश्राद्धंकाम्यंतर्पणंतुनित्यम् तर्पणेकृतेसंवत्सरोपात्तुदुरितनाशः अकृतेपुण्यनाशइत्युक्तेः

तत्रतर्पणमन्त्रः वैयाघ्रपद्यगोत्रायासांकृत्यप्रवरायच । गङ्गापुत्रायभीष्माय आजन्मब्रह्मचारिणे १

अपुत्रायजलंदद्मिनमोभीष्मायवर्मणे । भीष्मः शान्तनवोवीरः सत्यवादीजिएंद्रियः २

आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितांक्रियाम् ।

इति एवमपसव्येनतर्पणंकृत्वाचम्यसव्येनार्घ्यंदद्यात् वसूनामवतारायशन्तनोरात्मजायच ।

अर्घ्यददामिभीष्मायआबाल्यब्रह्मचारिणे १ इति अत्रजीवत्पितृकस्यानाधिकारइतिकौस्तुभः

जीवत्पितृकस्याप्यधिकारइति बहवः अत्रमध्याह्नव्यापिनीअष्टमीग्राह्या श्राद्धादेरेकोद्दिष्टत्वादिति ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP