संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथवैकुण्ठचतुर्दशी

धर्मसिंधु - अथवैकुण्ठचतुर्दशी

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवैकुण्ठचतुर्दशी पूर्वेद्युरुपवासंकृत्वारुणोदयव्यापिन्यांचतुर्दश्यांशिवंसंपूज्यप्रातःपारणंकर्यम्

तथाचचतुर्दशीयुक्तारुणोदयवतिअहोरात्रेउपवासः फलितः उभयत्रारुनोदयव्याप्तौपरत्रारुनोदयेपूजापूर्वत्रोपवासः

उभयत्राव्याप्तौ चतुर्दशीयुक्ताहोरात्रेएवारुणोदयेपूजापूर्वत्रोपवासश्च केचित्तुविष्णुपूजायामियं निशीथव्यापिनीग्राह्या

दिनद्वयेतद्व्याप्तौनिशीथप्रदोषोभयव्यापिनीग्राह्येत्याहुः अस्यामेवचतुर्दश्यांपरविद्धायांकार्तिकमासव्रतोद्यापनाङ्गत्वेनोपवासं

कृत्वाधिवासनंविधाय रात्रौजागरणंकुर्याद्गीतवाद्यादिमंगलैः । नराणांजागरेविष्णोर्गीतंनृत्यंचकुर्वताम् १

गोसहस्त्रंचददतांफलंसममुदाह्रतम् इत्यादिवाक्यैर्विहितं

गीतनृत्यवाद्यविष्णुचरितपठनस्वेच्छालापलीलानुकारैर्हरिजागरंकृत्वापरविद्धापौर्णमास्यांसप्तनीकाचार्यंवृत्वाअतादेवेतिद्वाभ्यां

तिलपायसंहुत्वागोदानंकार्यमितिमासव्रतोद्यापनम् कार्तिकशुक्लद्वादशीपौर्णमासीचमन्वादिः सापौर्वाह्निकीग्राह्या अन्यत्पूर्वमुक्तम् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP