संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्रेष्काणफलम्

मानसागरी - अध्याय ३ - द्रेष्काणफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


यादृग्द्रेष्काणगाः सौम्या उच्चस्था वा स्ववर्गगाः । नित्यं भुञ्जयते लक्ष्मीर्वरदा सत्यवादिनी ॥१॥

द्रेष्काणमात्म प्रकरोति सौम्यः केन्द्रत्रिकोणे सुगते बलिष्ठः । द्रव्याधिकं मानगुणैः समेतं विद्यान्वितं सर्वकलासु दक्षम् ॥२॥

द्रेष्काणपे सौम्यगते निरीक्षिते शुक्रेक्षिते स्याद्विविधं च सौख्यम् । आरोग्यतां मानयशोभिवृद्धिस्वदेशकर्मप्रकटं विरुद्धम् ॥३॥

द्रेष्काणे शशिसंयुतेक्षिते वा भौमेक्षितेस्याद्भगुनन्दने वा । वयः प्रमाणेन फलन्ति कर्म धर्मे धनं स्याद्विविधप्रकारैः ॥४॥

द्रेष्काणः केन्द्रगः कुर्यादुच्चस्थो भूपतिगृहे । स्वक्षेत्रस्य स्वभूतार्थ मित्रे सन्मानयागमम् ॥५॥

तथा पणफरस्थाने स्वमित्रोच्चगृहाश्रयः । सन्मित्रं पार्थिवं तद्वद्धनिनं चक्रता नरम् ॥६॥

आपोक्लिमे च व्युत्पन्नो मित्रस्वगृहदा च भूः । अपत्यं हि सदाचारं कृषितः प्राप्तवित्तकम् ॥७॥

शत्रुनीचाश्रिता ये च तेषां तत्तुल्यके तनौ । व्रणे घातादिकं चापि वदेत्तदनुपूर्वकम् ॥८॥

N/A

References : N/A
Last Updated : March 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP