विनापि मैत्री खलु खेचराणां न ज्ञायते ह्युत्तममध्यहीनाः ।
दिशादिकानां विदिशादिकाश्च तस्मात्प्रवक्ष्ये खलु मैत्रिचक्रम् ॥१॥
स्वाभाविकादिमैत्रीकथनम् ।
शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेस्तीक्ष्णांशुर्हिमरश्मिजश्च सुत्दृदौ शेषाः समाः शीतगोः ।
जीवेन्दूष्णकराः कुजस्य सुत्दृदो ज्ञोऽरिः सितार्की समौ मित्रौ सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥२॥
सूरेः सौम्यसितावरी रविसुतो मध्ये परे त्वन्यथा सौम्यार्की सुत्दृदौ समौ कुजगुरु शुक्रस्य शेषावरी ।
शुक्रज्ञौ सुत्दृदौ समः सुरुगुरुः सौरस्य चान्येऽरयस्तत्काले च दशायबन्धुसहजस्वान्त्येषु मित्रस्थितः ॥३॥
मित्रमुदासीनोऽरिर्व्याख्यायते निसर्गभावेन । तेऽतिसुत्दृन्मित्रसमास्तत्कालमुपस्थिताश्चिन्त्याः ॥४॥
मूलत्रिकोणषटत्रिकोणनिधनैकराशिसमसप्तमगाः । एकैकस्य यथाभविता तात्कालिका रिपवः ॥५॥
तत्कालमित्रं तु निसर्गमित्रं द्वयं भवेत्तत्वधिमित्रसंज्ञम् ।
अथ स्वाभाविक ( नैसर्गिक ) मैत्रीचक्रम् ।
तात्कालिकपंचधा मैत्री ।
तथैव शत्रोरधिशत्रुसंज्ञमेकत्र शत्रुः समतामुपैति ॥६॥