संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - सप्तमभावस्थराशिफलम्

मानसागरी - अध्याय ३ - सप्तमभावस्थराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषेऽस्तसंस्थे च भवेत्कलत्रं क्रूरं नराणां च खलस्वभावम् ।

पापानुरुक्तं कठिनं नृशंसं वित्तप्रियं साध्यपरं सदैव ॥१॥

वृषेऽस्तसंस्थे च भवेत्कलत्रं सुरुपकं वाक्प्रणतं प्रशान्तम् ।

पतिव्रताचारुगुणेन युक्तं फलाधिकं ब्राह्मणदेवभक्तिम् ॥२॥

तृतीयराशौ च भवेत्कलत्रे कलत्रयुक्तं सुधनं सुवृत्तम् ।

रुपान्वितं सर्वगुणोपपत्रं विनीतवेषं गुणवर्जितं च ॥३॥

कर्केण युक्ते च मनोहराणि सौभाग्ययुक्तानि गुणान्वितानि ।

भवन्ति सौम्यानि कलत्रकाणि कलङ्कहीनानि सुसंयुतानि ॥४॥

सिंहेऽस्तसंस्थे च भवेत्कलत्रं तीव्रस्वभावे च खलं च दुष्टम् ।

विहीनवेषं परसद्मयुक्तं वसुप्रियं स्वल्पकृतं कृशं च ॥५॥

कन्येऽस्तसंस्थे च भवेत्सुदाराः सुरुपदेहास्तनयैर्विहीनाः ।

सौभाग्यभोगार्थनयेन युक्ताः प्रियंवदाः सत्यधनाः प्रगल्भाः ॥६॥

तुलेऽस्तसंस्थे गुणगर्विताङ्ग्यो भवन्ति नार्यो विविधप्रकाराः ।

पुण्यप्रिया धर्मपराः सुदान्तप्रसूतपुत्राः पृथिवीविनीताः ॥७॥

कीटेऽस्तसंस्थे विकलासमेता भवेच्च भार्या कृपणा नराणाम् ।

सुशिक्षिता च प्रणयेन हीना दुर्भाग्यदोषैर्विविधैः समेता ॥८॥

चापेऽस्तसंथे च भवेत्कलत्रं नृणां सुदुष्टं विगतस्वभावम् ।

विस्त्रस्तलज्जं परदोषरक्षं युद्धप्रियं दम्भसमन्वितं च ॥९॥

मकरो यदिचेद् द्यूने भार्या दम्भान्विताऽधमा ।

निर्लज्जा लोलुपा क्रूरा दुःस्वभावा च क्लेशिता ॥१०॥

घटेऽस्तसंस्थे च भवेत्कलत्रं नृणां सुदुष्टं विसगतस्वभावम् ।

देवद्विजानां सततं प्रत्दृष्टं धर्मध्वजं सत्सु क्षमासमेतम् ॥११॥

मीनेऽस्तसंस्थे च विकारयुक्तं भवेत्कलत्रं कुमतिं कुपुत्रम् ।

स्वधर्मशीलं प्रणयेन हीनं सदा नराणां विकलप्रियं च ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP