संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - चन्द्रफलम्

मानसागरी - अध्याय ३ - चन्द्रफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्थिरधनो रहितः सुजनैर्नरः सुतयुतः प्रमदाविजितो भवेत् ।

अजगतो द्विजराज इतीरितं विभुतयाद्भुतया स्वसुकीर्तिभाक् ॥१॥

स्थिरगर्ति सुमति कमनीयतां कुशलतां हि नृणामुपभोगताम् ।

वृषगतो हिमगुर्भृशमादिशेत्सुकृतितः कृतितश्च सुखानि च ॥२॥

प्रियकरः सुरकर्मयुतो नरः सुरतसौख्यभरो युवतिप्रियः ।

मिथुनराशिगतो हिमगुर्भवेत्सुजनताजनताकृतगौरवः ॥३॥

श्रुतकलावलनिर्मलवृत्तयः कुसुमगन्धजलाशयकेलयः ।

किल नरास्तु कुलीरगते विधौ वसुमतीसुमतीप्सितलब्धयः ॥४॥

अचलकाननयानमनोरथं गृहकलिं विकलोदरपीडनम् ।

द्विजपतिर्मृगराजगतो नृणां वितनुते तनुते यशहीनताम् ॥५॥

युवतिगे शशिनि प्रमदाजनः प्रबलकेलिविलासकुतूहलैः ।

विमलशीलसुताजननोत्सवैः सुविधिना विधिना सहितः पुमान् ॥६॥

वृषतुरङ्गमविक्रयान्क्रये द्विजसुरार्चनदानमतिः पुमान् ।

शशिनि तौलिगते बहुदारभाग्विभवसंभवसंचितविक्रमः ॥७॥

शशधरे हि सरीसृपगे नरो नृपदुरोदरजातधनक्षयः ।

कलिरुचिर्विबलं खलमानसं कृशमनाः शमनापहतो भवेत् ॥८॥

बहुकलाकुशलः किल गीतवान्विमलताकलितः सरलोक्तिभाक् ।

शशिधरे हि धनुर्धरगे नरो धनकरो न करोति बहुव्ययम् ॥९॥

कलितशीतभयः किल गीतवित्तनुरुपा सहितो मदनातुरः ।

निजकुलोत्तमवित्तकरः परं हिमकरे मकरे पुरुषो भवेत् ॥१०॥

अलसतासहितोऽन्यसुतप्रियः कुशलताकलितोऽतिविचक्षणः ।

कलशगामिनि शीतकरे नरः प्रशमितोशमितोरुरिपुत्रजात् ॥११॥

शशिनि मीनगते विजितेन्दियो बहुगुणः कुशलोऽनिललालसः ।

विमलधीः किल शास्त्रकलादरान्नचलताचलताकलितो नरः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP