क्षितिपतेः क्षित्तिमानधनागमैः सुवचसा महसा बहुसाहसैः ।
अवनिजः कुरुते सततं शुभं त्वजगतो जगतोऽभिमतं नरम् ॥१॥
गृहधनाल्पसुखं च रिपूदयं परगृहस्थितिमादिशते नृणाम् ।
अवनिजोऽरिरुजो वृषभस्थितः क्षितिसुतोतिसुतोद्भवपीडनम् ॥२॥
बहुकलाकलनाकुलजोत्कलिं प्रचलनप्रियतां च निजस्थलात् ।
ननु नृणां कुरुते मिथुनस्थितः कुतनयस्तनयप्रमुखात्सुखम् ॥३॥
परगृहस्थिरतामतिदीनतां विमतितां शमितां च रिपूदयम् ।
हिमकरालयगे किल मङ्गले प्रबलयाऽबलया कलहं व्रजेत् ॥४॥
अतितरां सुतदारसुतान्वितो हतरिपुर्विततोद्यमसाहसः ।
अवनिजे मृगराजगते पुमान् सुनयतानयताभियुतो भवेत् ॥५॥
स्वजनपूजनताजनताधिको यजनयाजनकर्मरतो भवेत् ।
क्षितिसुते सति कन्यकयान्विते त्ववनितो वनितात्सवतेः सुखी ॥६॥
बहुधनव्ययताङ्गविहीनतागतगुरुप्रियतापरितापितः ।
वणिजि भूमिसुते विकलः पुमानवनितावनितोद्भवदुःखभाक् ॥७॥
विषहुताशनशस्त्रभयान्वितः सुतसुतावनितादिमहत्सुखः ।
वसुमतीतसुभाजिसरीसृपे नृपरतः परतश्च जयं व्रजेत् ॥८॥
रथतुरङ्गमगौरवसंयुतः परमरातिजनैः कृतदुःखितः ।
भवति नाऽवनिजे धनुषि स्थिते सुवनितावनिता भवति प्रिया ॥९॥
रणपराक्रमतावनितासुखं निजजनप्रतिकूलभयाश्रितः ।
विभवता मनुजस्य धरात्मजे मकरगे करगे चरमो भवेत् ॥१०॥
विनयितारहितं सहितं रुजा निजजनप्रतिकूलमलं खलम् ।
प्रकुरुते मनुजं कलशश्रयः क्षितिसुतोऽतिसुतोद्भवदुःखितम् ॥११॥
व्यसनतां खलतामदयालुतां विकलतां चलतां च निजालयात् ।
क्षितिसुतस्तिमिना सुसमन्वितो विमतिना मतिनाशनमादिशेत् ॥१२॥