कर्माश्रिते मेषसुनामराशौ करोत्यधर्म प्रवरं सुदुष्टम् ।
पैशुन्यरुपं विनयातिरक्तं सुनिन्दितं साधुजनस्य लोके ॥१॥
वृषेऽम्बरस्थे प्रकरोति कर्म व्ययात्मजं साधुजनानुकम्पम् ।
द्विजेन्द्रदेवातिथिभिर्विभाजकं ज्ञानात्मकं प्रीतिकरं सतां च ॥२॥
युग्मेऽम्बरस्थे प्रकरोति मर्त्य कर्मप्रधानं गुरुभिः प्रदिष्टम् ।
कीर्त्यान्वितं प्रीतिकरं जनानां प्रभासमेतं कृपिजं सदैव ॥३॥
कर्केऽम्बरस्थे प्रकरोति मर्त्यः कर्म प्रपारामतडागसंज्ञम् ।
विचित्रवापीतटवृन्दजं च कृपापरं नित्यमकल्पकं च ॥४॥
सिंहेऽम्बरस्थे कुरुते मनुष्यो रौद्रं सपापं विकृतं च कर्म ।
सपौरुषं प्राणसमं च नित्यं वधात्मकं निन्दनमेव नित्यम् ॥५॥
नभःस्थलस्थे त्वथ षष्ठराशौ करोति कर्माज्ञमितो मनुष्यः ।
स्त्रीराजमानौ भजते विरुद्धं कामाल्पकं निर्धनमंत्रिलोके ॥६॥
तुलाधरे व्योमगते मनुष्यो वाणिज्यकर्म प्रचुरं करोति ।
धर्मात्मकं चापि नयेन युक्तं सतामभीष्टं परसंपदं च ॥७॥
कीटेऽम्बरस्थे प्रकरोति कर्म पुंसामदुष्टं जनसंमतं च ।
व्ययंकरं देवगुरुद्विजानां सुनिर्दयं नीतिविवर्जितं च ॥८॥
चापेऽम्बरस्थे च करोति कर्म सर्वात्मजं चौर्ययुतं मनुष्यः ।
परोपकारात्मकभोजनाद्यं नृपात्मकं भूमियशःसमेतम् ॥९॥
मृगेऽम्बरस्थे प्रखरप्रतापं कर्मप्रधानं कुरुते मनुष्यम् ।
सुनिर्दयं बन्धुजनैः समेतं धर्मेण हीनं खलसंमतं च ॥१०॥
घटेऽम्बरस्थे च करोति कर्म प्रयाणमर्त्य परवञ्चनार्थम् ।
पाखण्डधर्मान्वितमिष्टलोभाद्विश्वासहीनं जनताविरुद्धम् ॥११॥
मीनेऽम्बरस्थे प्रकरोति कर्म मर्ये कुले धर्मगुरुप्रदिष्टम् ।
कीर्त्यान्वितं सुस्थिरमादरेण नानाद्विजाराधनसंस्थिरं च ॥१२॥