संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - गुरुफलम्

मानसागरी - अध्याय ३ - गुरुफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


बहुतरां कुरुते समुदारतां सुचरितानि च वैरिसमुन्नतिम् ।

विभवता च मरुत्पतिपूजितः क्रियगतोयगतोऽनुमतिप्रदः ॥१॥

द्विजसुरार्चनभक्तिविभूतया द्रविणवाहनगौरवलब्धयः ।

सुरगुरौ वृषभे बहुवैरिणश्चरणगा रणगाढपराक्रमः ॥२॥

कवितया सहितः प्रियवाकशुचिर्विमलशीलरुचिर्निपुणः पुमान् ।

मिथुनगे सति देवपुरोहिते सहितताहिततासहितैर्भवेत् ॥३॥

बहुधनागमनो मदनोन्नतिर्विविधशास्त्रकलाकुशलो नरः ।

प्रियवचाश्च कुलीरगते गुरौ चतुरगैस्तुरगैः करिभिर्युतः ॥४॥

अचलदुर्गवनप्रभुतोर्जितो दृढतनुर्ननु दानपरो भवेत् ।

अरिविभूतिहरो हि नरो युतः सुवचसा वचसामधिपे गुरौ ॥५॥

कुसुमगन्धसदंबरशालिताविमलता धनदानमतिर्भृशम् ।

सुरगुरौ सुतया सति संयुते रुचिरता चिरतापितशत्रुता ॥६॥

सुतनयो जपहोममहोत्सवो द्विजसुरार्चनदानमतिर्भवेत् ।

वणिजजन्मपवित्रशिखंडिजे चतुरतातुरतासहितारिणा ॥७॥

धनविनाशनदोषसमुद्भवैः कृशतनुर्बहुदंभपरो नरः ।

अलिगते सति देवपुरोहिते भवनतो वनतोऽपि च दुःखभाक् ॥८॥

वितरणप्रणयो बहुवैभवं ननु धनान्यपि वाहनसञ्चयः ।

धनुषि देवगुरौ हिमतिर्भवेत्सुरुचिरारुचिराभरणानि च ॥९॥

हतमतिः परकर्मकरो नरः स्वमरविहीनतरो भयरोषभाक् ।

सुरगुरौ मकरे विदधाति नो जनमनोनमनोरथसाधनम् ॥१०॥

गदयुतः कुमतिर्द्रविणोज्झितः कृपणतानिरतः कृतकिल्विषः ।

घटगते सति देवपुरोहिते कदशनो दशनोदरपीडितः ॥११॥

नृपकृपाप्तधनो वदनोन्नतिः सदनसाधनदानपरो नरः ।

सुरगुरौ तिमिना सहिते सतामनुमतोऽनुमतोत्सवदो भवेत् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP