तुर्यपतिर्लग्नगतः पितृपुत्रयोः स्नेहं मिथः कुरुते ।
उत्तमे पितृपक्षे वैरीकलितं पितृनाम्रा सुप्रसिद्धं च ॥१॥
पातालपे धनस्थे क्रूरखगे पितृविरोधकृच्छुभं कुरुते ।
पितृपालकः प्रसिद्धः पिता भुनक्ति तल्लक्ष्मीम् ॥२॥
तुर्येशे सहजस्थे पितृमातृवेदकं नरं कुरुते ।
पित्रा सह कलहकरं पितृबान्धवघातकं कुरुते ॥३॥
तुर्यगते तुर्यपतौ पितरि क्षितिपाधिपनाथमानकरः ।
विदितः पितृलाभकरो भवति सुधर्मा सुखी धनपः ॥४॥
सुतगे तुर्यगृहेशे पितृसंलाभवांश्च दीर्घायुः ।
भवति कृतिप्रसिद्धः ससुतः सुतपालकश्चैव ॥५॥
हिबुकपतौ रिपुसंस्थे मातुरर्थविनाशकः शिशुर्जातः ।
पितृदोषरतः क्रूरे सौम्ये धनसंचकस्तनयः ॥६॥
अम्बुपतौ सप्तमगे क्रूरे श्वशुरं स्त्रुषा न पालयति ।
सौम्यः पालयति पुनः कुलवर्ती कुजकवी कुरुतः ॥७॥
छिद्रगतस्तुर्यपतिः क्रूरं रोगान्वितं दरिद्रं वा ।
दुष्कर्मपरं मृत्युः प्रियमथवा मानवं कुरुते ॥८॥
सुकृते तुर्यपतौ पितर्यसङ्गी समस्तविद्यावान् ।
पितृधर्मसंग्रहपरः पितृनिरपेक्षो भवेन्मनुजः ॥९॥
पातालपेऽम्बरगते पापे सुतमातरं त्यजेज्जनकः ।
सृजते त्वन्यां दयितां सौम्ये पुनरन्यसेवाकृत्पुरुषः ॥१०॥
एकादशे तुर्यपतौ धर्मी पितृपालकः सुकर्मा च ।
पितृभक्तो भवति पुनः प्रचुरार्व्याधिरहितश्च ॥११॥
द्वादशगे तुर्यपतौ मृतपितृको वा विदेशगो वाच्यः ।
पुत्रस्य पापखेचरे अन्यपितुर्जन्मनि निर्देश्यः ॥१२॥