संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्थसहजभवनेशफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्थसहजभवनेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सहजपतिर्लग्नगते वाग्वादी लंपटः स्वजनभेदी ।

सेवापरः कुमित्रः कूटकरः प्रोच्यते पुरुषः ॥१॥

धनगृहगे सहजेशे भिक्षुर्निर्धनोऽल्पजीवनो मनुजः ।

बन्धुविरोधी क्रूरे सौम्ये पुनरीश्वरः खचरैः ॥२॥

सहजगतः सहजपतिः समसत्त्वं सुसुत्दृदं शुभस्वजनम् ।

देवगुरुपूजनरतं नृपलाभपरं नरं कुरुते ॥३॥

भ्रातृपतौ मातृगते पितृबन्धुसहोदरेषु सुखभोगी ।

मात्रा सह वैरकरः पितृवित्तस्य भक्षकः पुरुषः ॥४॥

दुश्चिक्यपतौ सुतगे सुतबान्धवसुतसहोदरैः पाल्यः ।

दीर्घायुर्भवति नरः परोपकारैकनिरतमतिः ॥५॥

षष्ठगते सहजपतौ बन्धुविरोधी च नयनरोगी च ।

भूलाभो भवति भृशं कदाचिदपि रोगसंकलितः ॥६॥

सप्तमगे सहजेशे नरस्य भार्या भवेत्सुशीला च ।

सौभाग्यवती युवतिः क्रूरे देवरगृहे याति ॥७॥

भ्रातृपतिरष्टमगः सहजं मृतसोदरं नरं कुरुते ।

क्रूरे बाहुव्यङ्गिनमपि जीवति यद्यष्टवर्षाणि ॥८॥

धर्मगते सहजपतौ क्रूरे बन्धूज्झितस्यथा सौम्यैः ।

सद्वान्धवश्च सुकृती सोदरभक्तो भवेन्मनुजः ॥९॥

दुश्चिक्येशे दशमगते नृपपूज्यो मातृबन्धुपितृभक्तः ।

उत्तमबोधो बन्धुषु विनिश्चितो जायते जातः ॥१०॥

लाभस्थः सहजेशः सुबान्धवं राजशालिनं कुरुते ।

कुरुते बन्धुषु सेवाविधायिनं भोगनिरतं च ॥११॥

व्ययगे दुश्चिक्येशे मित्रविरोधातिबन्धुसंतापी ।

दूरे वासितबन्धुर्विदेशगामी नरो भवेज्जातः ॥१२॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP