व्ययपे लग्नगते विदेशगः सुवचनः सुरुपश्च ।
अपसङ्गवाददोषी भवति कुमारोऽथवा षण्ढः ॥१॥
द्वादशपे वित्तगते कृपणः कटुवाग्विनष्टलाभलयः ।
सौम्ये तु निर्धनं गच्छति नृपतस्करवह्नितोऽतिभयम् ॥२॥
सहजगते द्वादशपे क्रूरे गतबान्धवः शुभे च धनी ।
तनुसोदरः सुकृपणो बन्धुपु दूरे सदा भवति ॥३॥
तुर्यगते व्ययनाथे कृपणो रोगभीतः सुकर्मा च ।
मृतिमाप्नोति सुततः सततं मनुजो महादुःखी ॥४॥
द्वादशपतो सुतस्थे क्रूरे सुतविवर्जितः शुभे ससुतः ।
जनककमलाविलासी समर्थताविरहितः पुरुषः ॥५॥
षष्ठगते व्ययनाथे क्रूरे कृपणोऽक्षिदूषणः पुरुषः ।
लभते मृतिं नितान्तं भृगुतनये नेत्रहीनः स्यात् ॥६॥
द्वादशपे सप्तमगे दुष्टो दुश्चरितभृत्पटुवचनः ।
क्रूरे स्वस्त्रतिः स्यात्सौम्ये क्षयमेति गणिकातः ॥७॥
व्ययनाथे निधनगतेऽष्टकपाली कार्यसाधनरहितः ।
द्रोहमतिः सौम्यगते धनसंग्रहपरो भवति ॥८॥
व्ययनाथे सुकृतगते तीर्थालोक्यटनोऽचलवृत्तिः ।
क्रूरे खगे च पापी निरर्थकं याति तद्द्रव्यम् ॥९॥
व्ययपे गगनगृहस्थे पररमणीपराङमुखः पवित्राङ्गः ।
सुतधनसंग्रहनिरतो दुर्वचनपरा भवति माता ॥१०॥
द्वादशपे लाभस्थे द्रविणपतिर्दीर्घजीवितो भवति ।
स्थानप्रवरो दाता विख्यातः सत्यवचनपरः ॥११॥
विभूतिमान् ग्रामनिवासचित्तः कार्पण्यबुद्धिः पशुसंग्रही च ।
चेज्जीवति ग्रामयुतः सदा स्याव्द्ययादिनाथे व्ययर्गहलीने ॥१२॥