संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्थपंचमभावेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्थपंचमभावेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लग्नगते पञ्चमपे प्रसिद्धस्तोकतनयपरिकलितम् ।

शास्त्रविदं वेदविदं सुकर्मनिरतं तथा कुरुते ॥१॥

पञ्चमपतिर्धनस्थे क्रूरे खेचरे धनोञ्झितं कुरुते ।

गीतादिकलाकलितं कष्टभुजं स्थानकप्रचुरम् ॥२॥

तनयपतिः सहजगतः समधुरवाच्यं बन्धुजने सुविदितम् ।

कुरुते सुतास्तदीयाः परिपालयन्ति तद्वन्धून् ॥३॥

सुतपः पातालगतः पितृकर्मणि रतं प्रपालितं पित्रा ।

जननीभक्तिं कुरुते क्रूरैस्तु विरोधिनं पितृभिः ॥४॥

तनयगतस्तनयपतिर्मतिमन्तं मानितवचनं कुरुते ।

सुतकलितं प्रकटजनविख्यातं मानवं कुरुते ॥५॥

पञ्चमपतिश्च षष्ठे शत्रुयुतं मानवं मानहीनं च ।

रोगयुतं धनरहितं क्रूरः खचरः करोति नरम् ॥६॥

तनयपतौ सप्तमगे स्वसुताः सुभगाश्च देवगुरुभक्ताः ।

प्रियवादिनी सुशीला नरस्य ननु जायते दयिता ॥७॥

सुतपे निधनगृहस्थे कटुवाङ निःस्त्रियो यदा भवति ।

चण्डाः शब्दा व्यङ्गी सहजास्तनया भवन्ति तथा ॥८॥

सुकृतगतस्तनयपतिः सुबोधविद्याकविः सुगीतज्ञः ।

नृपपूजितं सुरुपं नाटकरसिकं नरं कुरुते ॥९॥

सुतपतिरम्बरलीनो नृपकर्मणां नृपात् कलितभावम् ।

सत्कर्मरतं प्रवरं जननीसुखकृत्सुतं कुरुते ॥१०॥

सुतनाथे लाभस्थे शूरः सुतवान् सत्यकृतासङ्गी ।

गीतादिसुकलाकलितो नृपभाजो जायते जातः ॥११॥

पञ्चमपे द्वादशगे क्रूरे सुतरहितः शुभैः सुसुतः ।

सुतसंतापपरः स्याद्विदेशगमनो भवेन्मनुजः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP