तत्रादौ होराफलम् ।
होराङ्गतोऽर्कस्य करोति चन्द्रो नरं सकामं वनिता च कष्टम् । दोषात्मकं बन्धुजनैर्विमुक्तं सव्याधिदेहं रिपुवर्गगम्यम् ॥१॥
सूर्यस्य होरां प्रगतो हिमांशुर्नरं प्रतापं विविधं च सौख्यम् । स्वबाहुसंपादितवित्तपुष्टं जाया अभावस्य मर्ति करोति ॥२॥
धर्मिष्ठो सत्यदाता च गुरुदेवप्रपूजकः । उपार्जितवित्तभोगो होरायां सूर्यलक्षणम् ॥३॥
गन्धर्वसिद्धिराज्यं च लक्ष्मीभवसदा सुखी । पुत्रपौत्रं च कल्याणं शतवर्षाणि जीवति ॥४॥
क्रूराः सूर्यस्य होरायां धनधान्यविभूतिदाः । आचारसत्यशीलाढ्यो रोगाङ्गो नृपवल्लभः ॥५॥
होरायाश्चन्द्रमसः शुभग्रहाः कामिनीप्रियं कुर्युः । शीघ्रं मैथुनगामी च चिरं धत्ते कामिनीसङ्गम् ॥६॥
होरायां सूर्यस्य कठिनः प्रायश्च संभोगः । पापैः सर्वैर्बलवान् जितेन्द्रियो मानवो भवति ॥७॥
होरायां कर्कटे चन्द्रे मृत्युं सुन्दरमुत्तमम् । कामिनीनां प्रियं चैव जनयेत्पुत्रमीदृशम् ॥८॥
बुधः करोति विख्यातं सार्ध्वी पत्नीं पतिं शुभम् । जीवः करोति निधनं तेजस्विनमनिन्दितम् ॥९॥
भोग्यपत्नीपतिं शुक्रः क्षीणश्चन्द्रोऽपि शुक्रवत् । जनयति कर्कटे भौमे मृतस्त्रीकं नराधमम् ॥१०॥
रविर्दुःखितमत्यन्तं पीडितं गुह्यं पीडयेत् । शनिर्दासीपतिं कुर्यात्कर्कटस्थो न संशयः ॥११॥
स्वहोरायां रविः कुर्याद्विद्वांसं दृष्टपौरुषम् । जितेन्द्रियं च शूरं तमुद्यमे धृतमानसम् ॥१२॥
होरायां च यदा प्राप्ते धीरं सूतं सतां प्रियम् । शूरख्यातं धनाढ्यं च सन्मित्रं प्राप्तसंपदम् ॥१३॥
कण्ठीरवस्य होरायां चन्द्रे नीचमनारतम् । बुधे दारिद्यपिशुनं जीवेरोगमृतंतकम् । शुक्रेऽगम्यामतिं कुर्याद्वृषलीचार्यमाश्रितः ॥१४॥