मेषे सुखस्थे लभते सुखं च चतुष्पदेभ्योऽथ विलासिनीभ्याम् ।
भोगैर्विचित्रैः प्रचुरान्नपानैः पराक्रमोपार्जितमर्दनैश्च ॥१॥
वृषे सुखस्थे लभते सुखानि नरोऽतिमान्यैर्विविधैश्च मान्यैः ।
शौर्येण भूपालनिषेवणेन प्रियोपचारैर्नियमैर्व्रतैश्च ॥२॥
तृतीयराशौ सुखगे सुखानि लभेन्मनुष्यः प्रमदाकृतानि ।
जलावगाहैर्वनसेवया च प्रभूतपुष्पाम्बरसेवनेन ॥३॥
कुलीरराशौ च यदा सुखस्थे नरं सुरुपं सुभगं सुशीलम् ।
स्त्रीसंमतं सर्वगुणैः समेतं विद्याविनीतं जनवल्लभं च ॥४॥
सिंहे सुखस्थे न सुखं मनुष्यः प्राप्नोति जातु प्रचुरप्रकोपात् ।
कन्याप्रसूतिं च दरिद्रसङ्गान्नरो भवेच्छीलविवर्जितश्च ॥५॥
कुमित्रसङ्गो धनसंश्रयाच्च कन्यागृहे बन्धुगृहे मनुष्यः ।
पैशुन्यसंघाल्लभतेऽसुखानि चौर्येण शुद्धेन विमोहनेन ॥६॥
तुले सुखस्थे च नरस्य करोति सौम्यं शुभकर्मदक्षम् ।
विद्याविनीतं सततं सुखाढ्यं प्रसन्नचित्तं विभवैः समेतम् ॥७॥
अलौ चतुर्थे च यदा समेतं नरं सुतीक्ष्णं परभीतचित्तम् ।
प्रभूतसेवं गतवीर्यदर्प वरैः सुदक्षं मतिभृद्विहीनम् ॥८॥
चापे सुखस्थे लभते मनुष्यः सुखं सदा सङ्गरसेवनेन ।
तत्कीर्तनेनैव हयैर्विचित्रैः सेवासुखं स्वेन निबन्धनेन ॥९॥
मृगे सुखस्थे सुखभाङमेन मित्रोपचारैः सुरतप्रधानैः ॥१०॥
घटे सुखस्थे प्रमदाभिधानात्प्राप्नोति सौख्यं विविधं मनुष्यः ।
मिष्टान्नपानैः फलशाकपत्रैर्विदग्धवाक्यैश्चोत्साहकारैः ॥११॥
मीने सुखस्थे तु सुखं मनुष्यः प्राप्नोति सौख्यं जलसंश्रयेण ।
शनैश्चरो देवसमुद्भवैश्च स्थाने सुवस्त्रैः सुधनैर्विचित्रैः ॥१२॥