निर्वेदपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
प्रपद्ये पादुकां देवी परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः ॥१॥ ९५१॥
अपि जन्मनि पादुके परस्मि-
न्ननघैः कर्मभिरीदृशो भवेयम् ।
य इमे विनयेन रङ्गभर्तुः
समये त्वां पदयोः समर्पयन्ति ॥२॥ ९५२॥
परिवर्तयिता पितामहादीन् ।
त्वमिवानन्तमसौ वहत्यनेहा ।
अधुनाऽपि न शौरिपादुके त्वा-
मनघालम्बनमभ्युपैति चित्तम् ॥३॥ ९५३॥
कमलाध्युषिते निधौ निरीहे
सुलभे तिष्ठति रङ्गकोशमध्ये ।
त्वयि तत्प्रतिलम्भने स्थितायां
परमन्विच्छति पादुके मनो मे ॥४॥ ९५४॥
यद्यप्यहं तरलधीस्तव न स्मरेयं
न स्मर्तुमर्हसि कथं भवती स्वयं मे ।
वत्से विहारकुतुकं कलयत्यवस्था
का नाम केशवपदावनि वत्सलायाः ॥५॥ ९५५॥
मातर्मुकुन्दकरुणामपि निह्नुवाना-
त्किं वा परं किमपि किल्बिषतो मदीयात् ।
गाढं गृहीतचरणा गमनापदेशा-
त्तत्प्रेरणप्रणयिनी तव चेन्न लीला ॥६॥ ९५६॥
क्षीबाऽसि काञ्चनपदावनि कैटभारेः
पादारविन्दमकरन्दनिषेवणेन ।
देवि त्वदन्तिकजुषः कथमन्यथा मे
दीनाक्षराणि न शृणोषि दयाधिका त्वम् ॥७॥ ९५७॥
मातस्त्वदर्पितभरस्य मुकुन्दपादे
भद्रेतराणि यदि नाम भवन्ति भूयः ।
कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः
किं न त्रपेत तव काञ्चनपादरक्षे ॥८॥ ९५८॥
दौवारिकद्विरसनप्रबलान्तरायै-
र्दूये पदावनि दुराढ्यबिलप्रवेशैः ।
तद्रङ्गधामनिरपायधनोत्तरायां
त्वय्येव विश्रमय मङ्क्षु मनोरथं मे ॥९॥ ९५९॥
व्यामुह्यतां त्रिविधतापमये निदाघे
मायाविशेषजनितासु मरीचिकासु ।
संस्पृष्टशौरिचरणा चरणावनि त्वं
स्थेया स्वयं भवसि नश्चरमे पुमर्थे ॥१०॥ ९६०॥
अच्छेद्यया विषयवागुरया निबद्धान्
दीनान् जनार्दनपदावनि सत्पथस्था ।
प्रायः क्रमेण भवती परिगृह्य मौलौ
कालेन मोचयति नः कृपया सनाथा ॥११॥ ९६१॥
संवाहिका चरणयोर्मणिपादरक्षे
देवस्य रङ्गवसतेर्दयिता ननु त्वम् ।
कस्त्वां निवारयितुमर्हति योजयन्तीं
मातः स्वयं गुणगणेषु ममापराधान् ॥१२॥ ९६२॥
किं वा भविष्यति परं कलुशैकवृत्ते-
रेतावताऽप्यनुपजातमनेहसा मे ।
एकं तदस्ति यदि पश्यसि पादुके ते
पद्मासहायपदपङ्कजभोगसाम्यम् ॥१३॥ ९६३॥
विविधविषयचिन्तासन्तताभिश्चिरं मां
जनितकलुषमित्थं देवि दुर्वासनाभिः ।
पदसरसिजयोत्स्वं पादुके रङ्गभर्तुः
परिमलपरिवाहैः पावनैर्वासयेथाः ॥१४॥ ९६४॥
शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे
सकृदपि विनियुक्तं त्वत्सपर्याधिकारे ।
पुनरपि कथमेनं हस्तमुत्तानयेयं
धनमदमुदितानां मानवानां समाजे ॥१५॥ ९६५॥
यदि किमपि समीहे कर्म कर्तुं यथाव-
त्प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः ।
अवधिरसि यदि त्वं तत्र नैमित्तिकानां
शरणमिह न किं मे शौरिपादावनि स्याः ॥१६॥ ९६६॥
अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः
शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि ।
विष्णोः पादप्रणयिनि चिरादस्य मे दुःखसिन्धोः
पारं प्रप्यं भवति परया विद्यया वा त्वया वा ॥१७॥ ९६७॥
गोमायूनां मलयपवने तस्कराणां हिमांशौ
दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे ।
तत्त्वज्ञाने तरलमनसां शार्ङ्गिणः पादरक्षे
नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः ॥१८॥ ९६८॥
काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्या
घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् ।
श्रीमद्रङ्गेश्वरचरणयोरन्तरङ्गैः प्रयुक्तं
सेवाह्वानं सपदि शृणुयां पादुकासेवकेति ॥१९॥ ९६९॥
पाषाणकल्पमन्ते परिचितगौतमपरिग्रहन्यायात् ।
पतिपदपरिचरणार्हं परिणमय मुकुन्दपादरक्षिणि माम् ॥२०॥ ९७०॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
निर्वेदपद्धतिरेकत्रिंशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP