संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| चित्रपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः चित्रपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन चित्रपद्धतिः Translation - भाषांतर प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥१॥ ९११॥शृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोःयुगक्रमभुवो वर्णान् युगपद्वहसे स्वयम् ॥२॥ ९१२॥सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका ।चराचरार्चिता मान्या रङ्गपुङवपादुका ॥३॥ ९१३॥पद्मेव मङ्गलसरित्पारं संसारसन्ततेः ।दुरितक्षेपिका भूयात्पादुका रङ्गभूपतेः ॥४॥ ९१४॥अनन्यशरणः सीदुन्ननन्तक्लेशसागरे ।शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥५॥ ९१५॥प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् ।पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥६॥ ९१६॥यामः श्रयति यां धत्ते येन यात्याय याच्च या ।याऽस्य मानाय यैवान्या सा मामवतु पादुका ॥७॥ ९१७॥चर्या नः शौरिपादु त्वं प्रायश्चित्तेष्वनुत्तमा ।निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥८॥ ९१८॥रामपादगता भासा सा भातागदपामरा ।कादुपानञ्च कासह्या ह्यासकाञ्चनपादुका ॥९॥ ९१९॥बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे ।समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥१०॥ ९२०॥सा भूपा रामपारस्था विभूपास्तिसपारता ।तारपा सकृपा दुष्टिपूरपा रामपादुका ॥११॥ ९२१॥कारिका न न यात्राया यागेयास्यस्यभानुभा ।पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥१२॥ ९२२॥सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥१३॥ ९२३॥काव्यायास्थित मावर्गव्याजयातगमार्गकाकामदा जगतः स्थित्यै रङ्गपुङवपादुका ॥१४॥ ९२४॥सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥१५॥ ९२५॥भरताराधितां तारां वन्दे राघवपादुकाम् ।भवतापाधितान्तानां वन्द्यां राजीवमेदुराम् ॥१६॥ ९२६॥कादुपास्य सदालोका कालोदाहृतदामका ।कामदाध्वरिरंसाकाऽकासा रङ्गेशपादुका ॥१७॥ ९२७॥पापाकूपारपाळीपा त्रिपादीपादपादपा ।कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥१८॥ ९२८॥स्थिरागसां सदाराध्या विहताकततामता ।सत्पादुके सरासामा रङ्गराजपदं नय ॥१९॥ ९२९॥स्थिता समयराजत्पा गतरामादके गवि ।दुरंहसां सन्नतादा साध्या तापकरासरा ॥२०॥ ९३०॥लोकतारा कामचारा कविराजदुरावचा ।तारागते पादराम राजते रामपादुका ॥२१॥ ९३१॥जयामपापामयाजयामहे दुदुहे मया ।महेशकाकाशहेम पादुका मम कादुपा ॥२२॥ ९३२॥पापादपापादपापा पादपाददपादपा ।दपादपापादपाद पादपा ददपादपा ॥२३॥ ९३३॥कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।पूदपादोदकापादोद्दीपिका काऽपि पादुका ॥२४॥ ९३४॥ततातत्तातितत्तेता ताततीतेतितातितुत् ।तत्तत्तत्ताततितता ततेतातेततातुता ॥२५॥ ९३५॥यायायायायायायाया यायायायायायायायायायायायायायायाया यायायायायायायाया ॥२६॥ ९३६॥रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता ॥२७॥ ९३७॥दत्तकेलिं जगत्कल्पनानाटिका-रङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।तादृशे गाधिपुत्राध्वरे त्वां विनाऽ-पादुक अपादुका पादुका पादुका ॥२८॥ ९३८॥पादपापादपापादपापादपा पादपा पादपापादपापादपा ।पादपापादपापादपापादपापादपापादपापादपापादपा ॥२९॥ ९३९॥साकेतत्रानवेलाजनितततनिजप्राङ्कणश्रीप्रभासासाभाप्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा ।सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासा-सा रामस्याङ्घ्रिमभ्याजतिनननतिजस्थूलमुत्रातकेसा ॥३०॥ ९४०॥रम्ये वेश्मनि पापराक्षसभिदास्वासत्तधीनायिकानन्तुं कर्मजदुर्मदालसधियां सा हन्तनाथीकृता ।सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिकाकाचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥३१॥ ९४१॥श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटःश्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽ-ङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन ॥३२॥ ९४२॥कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता ।विधिशिवप्रमुखैरभिवन्दिता विजयते रघुपुङ्ग्वपादुका ॥३३॥ ९४३॥दीनगोपीजनि क्लिष्टभीनुत्सदारामपादावनि स्वानुभावस्थिता ।एधि मेऽवश्यमुत्तारभावश्रितातेजसा तेन घुष्टिं गता पालिका ॥३४॥ ९४४॥धामनिराकृत तामसलोका धातृमुखैर्विनता निजदासैः ।पापमशेषमपाकुरुषे मे पादु विभूषितराघवपादा ॥३५॥ ९४५॥कृपानघत्रातसुभूरदुष्टामेध्या रुचा पारिषदामभूपा ।पदावनि स्त्यानसुखैर्न तृप्ताकान्त्या समेताधिकृताऽनिरोधा ॥३६॥ ९४६॥सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।साहसकार्यवनाशा धीरा वसुदा नवन्यासा ॥३७॥ ९४७॥सान्याऽवनदा सुरवराऽधीशाना वर्यका सहसा ।ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥३८॥ ९४८॥तारस्फारतरस्वररसभररा सा पदावनी सारा ।धीरस्वैरचरस्थिर रघुपुरवासरतिरामसवा ॥३९॥ ९४९॥चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥४०॥ ९५०॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेचित्रपद्धतिः त्रिंशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP