संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| प्रभावपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः प्रभावपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन प्रभावपद्धतिः Translation - भाषांतर वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।उन्नतानामवनतिर्नतानां यत्र चोन्नतिः ॥१॥ ३१॥निश्शेषमम्बरतलं यदि पत्रिका स्या-त्सप्तार्णवी यदि समेत्य मषी भवित्री ।वक्ता सहस्रवदनः पुरुषः स्वयं चे-ल्लिख्येत रङ्गपतिपादुकयोः प्रभावः ॥२॥ ३२॥वेदोपबृंहणकुतूहलिना निबद्धंविश्वम्भराश्रुतिभवेन महर्षिणा यत् ।व्यासेन यच्च मधुसूदनपादरक्षेद्वे चक्षुषी त्वदनुभावमवेक्षितुं नः ॥३॥ ३३॥प्रत्यक्षयन्ति परिशुद्धधियो यथाव-द्रामायणे रघुपुरन्दरपादरक्षे ।शश्वत्प्रपञ्चितमिदम्परयैव वृत्त्यासङ्क्षेपविस्तरदशासु तवानुभावम् ॥४॥ ३४॥अल्पश्रुतैरपि जनैरनुमीयसे त्वंरङ्गेशपादु नियतं निगमोपगीता ।सारं तदर्थमुपबृंहयितुं प्रणीतंरामायणं तव महिम्नि यतः प्रमाणम् ॥५॥ ३५॥तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत्पादुकेतत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् ।यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव-स्पर्धादुर्धरपादबद्धभणतिर्वल्मीकजन्मा कविः ॥६॥ ३६॥ भक्तिप्रह्वपुरप्रभञ्जनजटावाटीसनीडस्फुर-च्चूडारग्वधवासनापरिमलस्त्याने स्तुमः पादुके ।रङ्गक्षोणिभृदङ्घ्रिपद्मयुगलीपूर्णप्रपत्तेः फलंनिश्चिन्वन्ति विपश्चितः शमधना नित्यं यदुत्तंसनम् ॥७॥ ३७॥मातर्माधवपादुके तव गुणान्कः स्तोतुमस्तोकधीःकोटीरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् ।अन्योन्यं क्षिपतामहम्प्रथमिकासम्मर्दकोलाहलंविष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति ॥८॥ ३८॥योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक-स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च ।दूत्यादिष्वपि दुर्वचांसि पदयोः कृत्यानि मत्वेव य- द्धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे रङ्गिणः ॥९॥ ३९॥ वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयंयत्तद्भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति ।द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर-त्रासोत्कम्पदशाविसंस्थुलधृतिस्त्रैविष्टपानां गणः ॥१०॥ ४०॥पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजेयद्भक्त्या नमतां त्रिविष्टपसदां चूडापदेष्वर्पितम् । नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम-त्यन्तर्नूनममान्तमन्तिकलगच्छेषापटच्छद्मना ॥११॥ ४१॥ तद्विष्णोः परमं पदत्रयुगलं त्रय्यन्तपर्यन्तगंचिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः ।यद्विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी-सख्येनेव सदानतस्य तनुते मौलौ स्थितिं शूलिनः ॥१२॥ ४२॥अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यतेक्लेशेनापि कियद्व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः ।विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरताकिं तैः केशवपादुकागुणमहाम्बोधेस्तटस्था वयम् ॥१३॥ ४३॥पदकमलरजोभिर्वासिते रङ्गभर्तुःपरिचितनिगमान्ते पादुके धारयन्तः ।अविदितपरिपाकं चन्द्रमुत्तंसयन्तेपरिणतभुवनं तत्पद्ममध्यासते वा ॥१४॥ ४४॥सकृदपि भुवनेऽस्मिञ्शार्ङ्गिणः पादुके त्वां मनुजमनुवहन्तं देहबन्धव्यपाये ।उपचरति यथार्हं देववर्गस्त्वदीयःस तु नियमितभृत्यो जोषमास्ते कृतान्तः ॥१५॥ ४५॥पदसरसिजमेतत्पादुके रङ्गभर्तुःप्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना ।तदिदमपरथा चेत् तिष्ठतस्तस्य नित्यंकथमिव विदितार्थास्त्वां भजन्ते महान्तः ॥१६॥ ४६॥श्रुतिशिरसि निगूढं कर्मणां चोदितानांत्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् ।परिहसति मुरारेः पादुके बालिशानांपशुवधपरिशेषान्पण्डितो नामयज्ञान् ॥१७॥ ४७॥जनयितुमलमर्घ्यं दैत्यजित्पादरक्षेनमति महति देवे नाकसिन्धोर्विशीर्णाः ।मुहुरहिपतिचूडामौलिरत्नाभिघाता-त्परिणतलघिमानः पाथसामूर्मयस्ते ॥१८॥ ४८॥पदसरसिजयोस्त्वं पादुके रङ्गभर्तु-र्मनसि मुनिजनानां मौलिभागे श्रुतीनाम् । वचसि च सुकवीनां वर्तसे नित्यमेकातदिदमवगतं ते शाश्वतं वैश्वरूप्यम् ॥१९॥ ४९॥परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिंपरिणमयसि शौरेः पादुके त्वं सुवर्णम् ।कुहकजनविदूरे सत्पथे लब्धवृत्तेःक्क नु खलु विदितस्ते कोऽप्यसौ धातुवादः ॥२०॥ ५०॥बलिमथनविहाराद्वर्धमानस्य विष्णो-रखिलमतिपतद्भिर्विक्रमैरप्रमेयः ।अवधिमनधिगच्छन्पापराशिर्मदीयःसमजनि पदरक्षे सावधिस्त्वन्महिम्ना ॥२१॥ ५१॥तटभुवि यमुनायास्तस्थुषी यन्निवेशा-द्भजति निगमशाखावैभवं नीपशाखा ।पदकमलय्गुगं तत्पादुके रङ्गभर्तु-स्त्वयि भजति विभूतिं पश्य शाखानुशाखाम् ॥२२॥ ५२॥शिरसि विनिहितायां भक्तिनम्रैर्भवत्यां सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति ।मधुरिपुपदरक्षे यद्वशेनैव तेषा-मनितरसुलभं तद्धाम हस्तापचेयम् ॥२३॥ ५३॥सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके त्वा-मुपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः ।नरकमिव महान्तो नाकमुल्लङ्घयन्तःपरिषदि निविशन्ते प्राक्तनानां गुरूणाम् ॥२४॥ ५४॥शमदमगुणदान्तोदन्तवैदेशिकानांशरणमशरणानां मादृशां माधवस्य ।पदकमलमिदं ते पादुके रक्ष्यमासी-दनुदयनिधनानामागमानां निधानम् ॥२५॥ ५५॥परिचितपदपद्मां पादुके रङ्गिणस्त्वांत्रिभुवनमहनीयां सादरं धारयन्तः ।निजशिरसि निलीनं देवि मन्दारमाल्यंनिगमपरिमलैस्ते वासयन्तीव देवाः ॥२६॥ ५६॥कनकसरिदनूपे कल्पवृक्षस्य भूष्णोःपदकिसलयलग्ना पादुके मञ्जरी त्वम् ।परिणतिमधुराणां या फलानां सवित्रीवहसि निगमवृन्दैः सम्पदं षट्पदानाम् ॥२७॥ ५७॥परिकलयसि चेन्मां पद्मवासानिषेव्येपदकमलयुगे त्वं पादुके रङ्गभर्तुः ।अविदितनिगमानां नूनमस्मादृशाना-मघटितघटनी ते शक्तिराविष्कृता स्यात् ॥२८॥ ५८॥श्रुतिशतशिरश्चूडापीडे निपीडयितुं क्षमेदुरितसरितामोघानेतानमोघविसर्पिणः ।क्रमपरिणमद्वेधःश्रेणीशिखामणिघट्टना-न्मसृणिततले रङ्गक्षोणीभृतो मणिपादुके ॥२९॥ ५९॥जगज्जननरक्षणपणसङ्गिनो रङ्गिणःपवित्रतममाद्रिये भगवतः पदत्रद्वयम् ।शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनंप्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः ॥३०॥ ६०॥यदध्वरभुजां शिरः पदयुगं च रङ्गेशितु-र्दृढं घटयितुं क्षमं भवति शेषशेषित्वतः ।शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयंकदध्वविहतिक्षमं किमपि तत्पदत्रद्वयम् ॥३१॥ ६१॥समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकीमुकुन्दमणिपादुके मुहुरुपासनावासना ।उदर्कपरिकर्कशानुपरिपर्वणाखर्विता-ननर्थशतगर्भितानमरशम्भलीविभ्रमान् ॥३२॥ ६२॥विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि सकृ-द्वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः ।मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी-परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम् ॥३३॥ ६३॥अधिदैवतमापतत्सु कल्पेष्वधिकारं भजतां पितामहानाम् ।अभिरक्षतु रङ्गभर्तुरेषा करुणा काचन पादुकामयी नः ॥३४॥ ६४॥ध्रुवमिन्द्रियनागशृङ्खला वा निरयद्वारनिवारणार्गला वा ।अनयापपदाधिरोहणी वा मम रङ्गेशविहारपादुके त्वम् ॥३५॥ ६५॥शरणागतसार्थवाहशीलां श्रुतिसीमन्तपदप्रसादनार्हाम् ।अधिरङ्गमुपास्महे मुरारेर्महनीयां तपनीयपादुके त्वाम् ॥३६॥ ६६॥इह ये भवतीं भजन्ति भक्त्याकृतिनः केशवपादुके नियुक्ताः ।कथयाम्ब तिरोहितं तृतीयं नयनंत्रीणि मुखानि वा किमेषाम् ॥३७॥ ६७॥मधुवैरिपरिग्रहेषु नित्यं क्षमया त्वं मणिपादुके समेता ।तदपि क्षमसे न किं परेषां त्रिदशाधीश्वरशेखरे निवेशम् ॥३८॥ ६८॥द्वितयं प्रतियन्ति रङ्गभर्तुः कतिचित् काञ्चनपादुके शरण्यम् ।अभयान्वितमग्रिमं करं वा भवतीशेखरितं पदाम्बुजं वा ॥३९॥ ६९॥भरताश्वसनेषु पादशब्दं वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः ।पठति त्वयि पादुके ततस्त्वं नियतं रामपदादभिन्नभूमा ॥४०॥ ७०॥मकुटेषु निविश्य दिक्पतीनां पदमेव प्रतिपद्य रङ्गभर्तुः ।परिरक्षसि पादुके पदं त्वं क्व नु भिद्येत गरीयसां प्रभावः ॥४१॥ ७१॥जगतामभिरक्षणे त्रयाणामधिकारं मणिपादुके वहन्त्योः ।युवयोः परिकर्मकोटिलग्नं चरणद्वन्द्वमवैमि रङ्गभर्तुः ॥४२॥ ७२॥पदरक्षिणि वत्सला निकामं रघुवीरस्य पदाम्बुजादपि त्वम् ।यदसौ भरतस्त्वयांशवत्त्वान्न पुनस्तादृशमन्वभूद्वियोगम् ॥४३॥ ७३॥अभिगम्य मुकुन्दपादुके त्वामपनीतातपवारणैः शिरोभिः ।हरितां पतयो दुरापमन्यैरनघच्छायमवान्पुवन्ति भोगम् ॥४४॥ ७४॥अपहाय सितासितानुपायानरविन्देक्शणपादुके महान्तः ।त्वदनन्यतया भजन्ति वृत्तिं त्वदसाधारणभोगसाभिलाषाः ॥४५॥ ७५॥प्रणमन्ति न वा विधेर्विपाकाद्य इमे रङ्गनरेन्द्रपादुके त्वाम् ।उपजातमनुत्तमाङ्गमेषामुभयेषामपि चित्रमुत्तमाङ्गम् ॥४६॥ ७६॥तव केशवपादुके प्रभावो मम दुष्कर्म च नन्वनन्तसारे ।नियमेन तथाऽपि पश्चिमस्य प्रथमेनैव पराभवं प्रतीमः ॥४७॥ ७७॥अस्त्रभूषणतयैव केवलं विश्वमेतदखिलं बिभर्ति यः ।अक्लमेन मणिपादुके त्वया सोऽपि शेखरतयैव धार्यते ॥४८॥ ७८॥रामपादसहधर्मचारिणीं पादुके निखिलपातकच्छिदम् ।त्वामशेषजगतामधीश्वरीं भावयामि भरताधिदेवताम् ॥४९॥ ७९॥चूडाकपालव्यतिषङ्गदोषं विमोचयिष्यन्निव विष्णुपद्याः ।कृतादरः केशवपादरक्षे बिभर्ति बालेन्दुविभवणस्त्वाम् ॥५०॥ ८०॥त्वयैवनित्यं मणिपादरक्षे राजन्वती सृष्टिरियं प्रजानाम् ।स्त्रीराज्यदोषप्रशमाय नूनं निर्दिश्यसे नाथविशेषणेन ॥५१॥ ८१॥बिभर्षि नित्यं मणिपादुके त्वं विश्वम्भरं धाम निजेन भूम्ना ।तवानुभावश्चुलकीकृतोऽयं भक्तैरजस्रं भवतीं दधानैः ॥५२॥ ८२॥परस्य पुंसः पदसन्निकर्षे तुल्याधिकारां मणिपादुके त्वाम् ।उत्तंसयन्ति स्वयमुत्तमाङ्गैः शेषासमं शेषगरुत्मदाद्याः ॥५३॥ ८३॥मुकुन्द पादाम्बुजधारिणि त्वां मोहादनुत्तंसयतां जनानाम् ।मूर्ध्नि स्थिता दुर्लिपयो भवन्ति प्रशस्तवर्णावलयस्तदीयाः ॥५४॥ ८४॥भूमिः श्रुतीनां भुवनस्य धात्री गुणौरनन्ता विपुला विभूत्या ।स्थिरा स्वयं पालयितुं क्षमा नः सर्वंसहा शौरिपदावनि त्वम् ॥५५॥ ८५॥स्थैर्यं कुलक्षोणिभृतां विधत्सेशेषादयस्त्वां शिरसा वहन्ति ।पदप्रसूता परमस्य पुंसःपृथ्वीमहिम्ना मणिपादुके त्वम् ॥५६॥ ८६॥दैत्याधिपानां बलिनां किरीटानिक्षेपणं ते यदि नाभ्यनन्दन् ।रङ्गेशपादावनि रङ्गधाम्नःसोपानतां प्राप्य वहन्त्यमी त्वाम् ॥५७॥ ८७॥शेषो गरुत्मान् मणिपादपीठीत्वं चेति पादावनि विश्वमान्याः ।तुल्याधिकारा यदि किन्तु सन्त-स्त्वामेव नित्यं शिरसा वहन्ति ॥५८॥ ८८॥परस्य पुंसः परमं पदं त-द्बिभर्षि नित्यं मुणिपादुके त्वम् । अन्यादृशां व्योमसदां पदानित्वय्यायतन्ते यदिदं न चित्रम् ॥५९॥ ८९॥पादौ मुरारेः शरणं प्रजानां तयोस्तदेवासि पादावनि त्वम् ।शरण्यतायास्त्वमनन्यरक्षा सन्दृश्यसे विश्रमभूमिरेका ॥६०॥ ९०॥अन्येषु पद्माकमलासनाद्यैरङ्गेषु रङ्गाधिपतेः श्रितेषु ।पदावनि त्वामधिगम्य जातं पदं मुरारेरधिदैवतं नः ॥६१॥ ९१॥क्षणं सरोजेक्षणपादुके यः कृतादरः किङ्कुरुते भवत्याः ।अकिञ्चिनस्यापि भवन्ति शीघ्रं भ्रूकिङ्करास्तस्य पुरन्दराद्याः ॥६२॥ ९२॥वहन्ति ये माधवपादुके त्वामुह्यन्त एते दिवि निर्विघाताः ।हंसेन नित्यं शरदभ्रभासा कैलासगौरेण ककुद्मता वा ॥६३॥ ९३॥रुद्रं श्रितो देवगणः स रुद्रःपद्मासनं सोऽपि च पद्मनाभम् ।स त्वामनन्तो न पुनस्त्वमन्यंक एष पादावनि ते प्रभावः ॥६४॥ ९४॥परस्य धाम्नः प्रतिपादनार्हां वदन्ति विद्यां मणिपादुके त्वाम् ।यतस्तवैवाधिगमे प्रजानां दूरीभवत्युत्तरपूर्वमंहः ॥६५॥ ९५॥धन्या मुकुन्दस्य पदानुषङ्गाद् धनीयता येन समर्चिता त्वम् ।वासस्तदीयो मणिपादरक्षे लक्ष्म्याऽलकामप्यधरीकरोति ॥६६॥ ९६॥पदेन विष्णोः किमुतेतरेषांविसृज्य सङ्गं समुपासते त्वाम् । करोषि तान्किं त्वमपेतकामान्कालेन पादावनि सत्यकामान् ॥६७॥ ९७॥अभ्यासयोगेन निगृह्यमाणैरन्तर्मुखैरात्मविदो मनोभिः ।मातस्त्वया गुप्तपदं प्रभावादन्वेषयन्त्यागमिकं निधानम् ॥६८॥ ९८॥ मूर्ध्ना दधानां मणिपादुके त्वामुत्तंसितं वा पुरुषं भवत्या ।वदन्ति केचिद्वयमामनामस्त्वामेव साक्षादधिदैवतं नः ॥६९॥ ९९॥मूर्ध्ना सतामधस्तादुपरिच विष्णोः पदेन सङ्घटिताम् ।अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके भवतीम् ॥७०॥ १००॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेप्रभावपद्धतिस्तृतीया ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP