संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
अधिकारपरिग्रहपद्धतिः

अधिकारपरिग्रहपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥१॥ १४१॥

मोचितस्थिरचरानयत्नतः कोसलान् जनपदानुपास्महे ।
येषु कांश्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका ॥२॥ १४२॥

साम्राज्यसम्पदिव दासजनोचिता त्वं
रामेण सत्यवचसा भरताय दत्ता ।
स त्वां निवेश्य चरणावनि भद्रपीठे
पृथ्वीं बुभोज बुभुजे च शोविभूतिम् ॥३॥ १४३॥

भोगाननन्यमनसां मणिपादुके त्वं
पुष्णासि हन्त भजनामनुषङ्गसिद्धान् ।
तेनैव नूनमभवद्भरतस्य साधो-
रप्रार्थितं तदिह राज्यमवर्जनीयम् ॥४॥ १४४॥

रामप्रयाणजनितं व्यपनीय शोकं
रत्नासने स्थितवती मणिपादरक्षे ।
पृथ्वीं निजेन यशसा विहितोत्तरीया-
मेकातपत्रतिलकां भवती वितेने ॥५॥ १४५॥

रामाज्ञया परवती परिगृह्य राज्यं
रत्नासनं रघुकुलोचितमाश्रयन्ती ।
शुद्धां पदावनि पुनर्भवती वितेने
स्वातन्त्र्त्यलेशकलुषां भरतस्य कीर्तिम् ॥६॥ १४६॥

पौलस्त्यवीरवदनस्तबकावसाना-
त्पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।
रक्षाधुरं धृतवती मणिपादुके त्वं
रामस्य मैथिलसुतासहिते प्रचारे ॥७॥ १४७॥

पादावनि प्रचलचामरवृन्दमध्ये
भद्रासनास्तरगता भवती विरेजे ।
आकीर्णदिव्यसलिले कटके सुमेरो-
रम्भोजिनीव कलहायितहंसयूथा ॥८॥ १४८॥

मान्ये रघूद्वहपदे मणिपादुके त्वां
विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।
आलोलमक्षवलयी भरतो जटावा-
नालम्ब्य चामरमनन्यमनाः सिषेवे ॥९॥ १४९॥

प्राप्ते दिवं दशरथे भरते विलक्षे
पर्याकुलेषु परमुत्तरकोसलेषु ।
त्वं चेदुपेक्षितवती क इवाभविष्य-
त्गोपायिता गुह्यसखस्य विभोः पदं तत् ॥१०॥ १५०॥   
भ्रातुर्यदम्ब विरहाद्भरते विषण्णे
दाक्षिण्यमाश्रितवती मणिपादुके त्वम् ।
आसीदशेषजगतां श्रवणामृतं त-
द्वाचालकाहलसहं बिरुदं तदा ते ॥११॥ १५१॥

राज्यं तदा दशरथादनु रामतः प्राक्
बिभ्राणया चरणरक्षिणि वीतखेदम् ।
तुल्याधिकारभजनेन बभूव धन्यो
वंशस्त्वयाऽम्ब मनुवंशमहीपतीनाम् ॥१२॥ १५२॥

वर्षाणि तानि वृषलो न तपांसि तेपे
बालो न कश्चिदपि मृत्युवशं जगाम ।
राज्ये तवाम्ब रघुपुङ्गवपादरक्षे
नैवापरं प्रतिविधेयमभूत्प्रसक्तम् ॥१३॥ १५३॥

विश्वं त्वदाश्रितपदाम्बुजसम्भवायां
यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ।
आसीदनन्यशरणा समये यथाव-
त्साऽपि त्वया वसुमती विहितप्रतिष्ठा ॥१४॥ १५४॥

प्रायेण रामविरहाव्द्यथिता तदानी-
मुत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।
तामेव देवि ननु जीवयितुं जलार्द्रा-
मङ्गीचकार भवती भरतोपनीताम् ॥१५॥ १५५॥

वीरव्रतप्रणयिनि प्रथमे रघूणां
प्राप्ते चिराय भरते व्रतमासिधारम् ।
त्यक्त्वा पदावनि तदा विविधान् विहारा-
नेकासिकाव्रतमपूर्वमवर्तयस्त्वम् ॥१६॥ १५६॥

काकुत्स्थपादविरहप्रतिपन्नमौनां
निष्पन्दतामुपगतां मणिपादरक्षे ।
आश्वासयन्निव मुहुर्भरतस्तदानीं
शीतैरवीजयत चामरमारुतैस्त्वाम् ॥१७॥ १५७॥

यत्र क्वचिद्विहरतोऽपि पदारविन्दं
रक्ष्यं मया रघुपतेरिति भावयन्त्या ।
निश्शेषमेव सहसा मणिपादरक्षे
निष्कण्टकं जगदिदं विदधे भवत्या ॥१८॥ १५८॥

रामं त्वया विरहितं भरतं च तेन
त्रातुं पदावनि तदा यदभूत्प्रतीतम् ।
रामानुजस्य तव चाम्ब जगत्समस्तं   
जागर्ति तेन खलु जागरणव्रतेन ॥१९॥ १५९॥

अन्तःपुरे परिजनैः समयोपयातै
रभ्यर्चिता भवसि या विनयोपपन्नैः ।
सा कोसलेश्वरपदावनि भूपतीनां
सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम् ॥२०॥ १६०॥

प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै
भद्रासनं भरतवन्दितमाश्रयन्त्या ।
मध्येऽवतीर्णमिव माधवपादरक्षे
मातस्त्वयाऽपि मनुवंशमहीपतीनाम् ॥२१॥ १६१॥

राजासने रघुकुलोद्वहपादरक्षे
नीराजनं समभवत् समयोचितं ते ।
श्लाघावशेन बहुशः परिघूर्णिताभिः
सामन्तमौलिमणिमङ्गलदीपिकाभिः ॥२२॥ १६२॥

पृथ्वीपतीनां युगपत् किरीटाः
प्रत्यर्थिनां प्राणितुमर्थिनां च ।
प्रापुस्तदा राघवपादरक्षे
त्वदीयमास्थानिकपादपीठम् ॥२३॥ १६३॥

प्रणम्य रङ्गेश्वरपादरक्षे
दूरोपनीतैरुपदाविशेषैः ।
सभाजयन्ति स्म तदा सभाया-
मुच्चैस्तरामुत्तरकोसलास्त्वाम् ॥२४॥ १६४॥

अपावृतद्वारमयन्त्रिताश्वं
रङ्गेशपादावनि पूर्वमासीत् ।
त्वया यदृच्छासुखसुप्तपान्थं
रामे वनस्थेऽपि पदं रघूणाम् ॥२५॥ १६५॥

अनन्यभक्तिर्मणिपादुके त्वामभ्यर्चयन् दाशरथिर्द्वितीयः ।
विकल्प्यमानःप्रथमेन कीर्त्या वन्द्यः स्वयं व्योमसदां बभूव ॥२६॥ १६६॥

अरण्ययोग्यं पदमस्पृशन्ती रामस्य राजार्हपदे निविष्टा ।
आस्थाननित्यासिकया निरास्थःस्वर्गौकसां स्वैरगतेर्विघातम् ॥२७॥ १६७॥

राजासने चेद्भवती निषण्णा रङ्गेशपादावनि तन्न चित्रम् ।
यत्राधिरूढाः क्रमशः पुरा त्वामुत्तंसयन्ते रघुसार्वभौमाः ॥२८॥ १६८॥

भद्रासनं चेत्परिवृत्तमासीत् देवि क्षणं दक्षिणतोमुखं ते ।
कथं भवेत् काञ्चनपादरक्षे रामस्य रक्षोमृगयाविहारः ॥२९॥ १६९॥

यावत्त्वया राघवपादरक्षे जिगीषिता राक्षसराजधानी ।
मालेव तावल्लुलिता मदान्धैरुद्यानशाखामृगयूथपैस्ते ॥३०॥ १७०॥

महीक्षितां राघवपादरक्षे भद्रासनस्थां भवतीं स्पृशन्तः ।
पूर्वं तथात्वे नियतेऽपि भूयः कल्याणतामानिशिरे किरीटाः ॥३१॥ १७१॥

अनिच्छतः पाण्डरमातपत्रं पित्रा वितीर्णं मणिपादरक्षे ।
आसीत् त्वदर्थं विधृतेन तेन छाया समग्रा भरतस्य मौलौ ॥३२॥ १७२॥

पादुके रघुपतौ यदृच्छया प्रस्थिते वनविहारकौतुकात् ।
आधिराज्यमधिगम्यते युवामक्षतं वसुमतीमरक्षतम् ॥३३॥ १७३॥

रघुवीरपदानुषङ्गमात्रात्परिबर्हेषु निवेशिता यदि त्वम् ।
अधिकारदिने कथं पुनस्ते परिवारास्तव पादुके बभूवुः ॥३४॥ १७४॥

पुरुषार्थचतुष्टयार्थिनीनां परिषत् ते महिता वसिष्ठमुख्यैः ।
क्रयविक्रयपट्टणं प्रजानामभवत् काञ्चनपादुके तदानीम् ॥३५॥ १७५॥

मनुजत्वतिरोहितेन शक्ये वपुषैकेन विरोधिनां निरासे ।
अभजद्भरतादिभेदमीशः स्वयमाराधयितुं पदावनि त्वाम् ॥३६॥ १७६॥

मगधाङ्गकलिङ्गवङ्गमुख्यान्
विमतान् रन्ध्रगवेषिणः ससैन्यान् ।
रघुपुङ्गवपादुके विजिग्ये
भरतः शासनमुद्वहन् भवत्याः ॥३७॥ १७७॥

अनितरवहनीयं मन्त्रिमुख्यैर्यदा त-
त्त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।
रघुपतिपदरक्षे रत्नपीठे तदानीं
श्रियमिव ददृशुस्त्वां सादरं लोकपालाः ॥३८॥ १७८॥

परिहृतदण्डकाध्वगमनं पदरक्षिणि त-
त्परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।
रघुपतिरत्नपीठमधिरुह्य तदा विदधे
व्यपगतवैरिभूपनिलयं वसुधावलयम् ॥३९॥ १७९॥

प्राप्तोदया तदानीं किमपि तमस्तन्निराकरोद्भवती ।
तनुरिव मनुकुलजनुषां प्रसवित्री रत्नपादुके सवितुः ॥४०॥ १८०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
अधिकारपरिग्रहपद्धतिः षष्ठी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP