संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
मुक्तापद्धतिः

मुक्तापद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका ॥१॥ ६११॥

तव रङ्गधुरीणपादरक्षे
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या ॥२॥ ६१२॥

शरणागतसस्यमालिनीयं तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे जगती नित्यमदैवमातृकाऽभूत् ॥३॥ ६१३॥

अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गलानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके त्वम् ॥४॥ ६१४॥

निहिता नवमौक्तिकावलिस्त्वा-
मभितः काञ्चनपादुके मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति ॥५॥ ६१५॥

समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके हरिपदोद्भवया
कनकापगा सुरपुरापगया ॥६॥ ६१६॥

तव रङ्गचन्द्रतपनीयपादुके
विमला समुद्वहति मौक्तिकावलिः ।
चरणारविन्दनखचन्द्रमण्डल-
प्रणयोपयातनवतारकारुचिम् ॥७॥ ६१७॥

चन्द्रचूडमकुटेन लालिता चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी लक्ष्यसे सुरधुनीव पादुके ॥८॥ ६१८॥

ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके
मौलिचन्द्रशकलस्य चन्द्रिकाम् ॥९॥ ६१९॥

मुक्तामयूखैर्नियतं त्वदीयै-
रापूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे
देवो महान् दर्शितसन्नतिस्त्वाम् ॥१०॥ ६२०॥

परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमस्सागरपोतपात्री ॥११॥ ६२१॥

रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः ॥१२॥ ६२२॥

मुकुन्दपादावनि मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः ॥१३॥ ६२३॥

समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयै-
र्मुक्ताफलैर्माधवपादुके नः ॥१४॥ ६२४॥

अवैमि पादावनि मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारे-
रभङ्गुरामङ्क्रुरपालिकां त्वाम् ॥१५॥ ६२५॥

शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके त्वम् ॥१६॥ ६२६॥

रङ्गेशयानस्य पदावनि त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम् ॥१७॥ ६२७॥

अवैमि रङ्गेश्वरपादरक्षे
मुक्ताफलानि त्वयि निस्तुलानि ।
तेनैव कल्पान्तरतारकाणा-
मुप्तानि बीजानि जगद्विधात्रा ॥१८॥ ६२८॥

विक्रम्यमाणमभवत् क्शणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ।
व्योमापगाविपुलबुद्बुददर्शनीयै-
र्मुक्ताफलैस्तव शुभैः पुनरुक्ततारम् ॥१९॥ ६२९॥

लक्ष्मीविहाररसिकेन पदावनि त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
यत्त्वं तदर्हमिव दर्शयसि प्रभूतं  var  सत्त्वं
मुक्तामयूखनिकरेण विसृत्वरेण ॥२०॥ ६३०॥

पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि कान्तिमग्र्या-
मुद्भिद्यमानकुमुदेव कुमुद्वती त्वम् ॥२१॥ ६३१॥

त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाइकल्पितरुचा मणिपादुके त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम् ॥२२॥ ६३२॥

वैकुण्ठपादनखवासनयेव नित्यं
पादावनि प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रिताना-
मालोकमण्डलमिषादमृतप्रवाहम् ॥२३॥ ६३३॥

रामानुवृत्तिजटिले भरतस्य मौलौ
रङ्गाधिराजपदपङ्कजरक्षिणि त्वम् ।
एकातपत्रितजगत्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम् ॥२४॥ ६३४॥

पादावनि स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः ॥२५॥ ६३५॥

आम्रेडितैः पदनखेन्दुरुचा मनोज्ञै-
र्मुक्तांशुभिर्मुरभिदो मणिपादुके त्वम् ।
स्वाभाविकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसक्तिममलां प्रकटिकरोषि ॥२६॥ ६३६॥

निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे
मुक्तांशवः स्फटिकसौधतुलां नयन्ति ॥२७॥ ६३७॥

श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः ॥२८॥ ६३८॥

उद्गाढपङ्कशमनैर्मणिपादरक्षे
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तीर्थोदकैः स्नपयसीव पदार्थिनस्तान् ॥२९॥ ६३९॥

रङ्गेशपादनखचन्द्रसुधानुलेपं
संप्राप्य सिद्धगुलिका इव तावकीनाः ।
संसारसञ्ज्वरजुषां मणिपादरक्षे
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः ॥३०॥ ६४०॥

भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव ललिता मणिपादुके त्वम् ॥३१॥ ६४१॥

मन्ये मुकुन्दचरणावनि मौलिदेशे
विन्यस्य देवि भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः ॥३२॥ ६४२॥

पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञ्चनपदावनि पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु ॥३३॥ ६४३॥

आशास्य नूनमनघां मणिपादरक्षे
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात् ॥३४॥ ६४४॥

ये नाम केऽपि भवतीं विनयावनम्रै-
रुत्तंसयन्ति कृतिनः क्शणमुत्तमाङ्गैः ।
इ(ऋ)च्छन्ति रङ्गनृपतेर्मणिपादरक्षे
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम् ॥३५॥ ६४५॥

अनुदिनललितानामङ्गुलीपल्लवानां
जनितमुकुलशोभैर्देवि मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके रङ्गभर्तुः
पदसरसिजरेखापाञ्चजन्यप्रसूतिम् ॥३६॥ ६४६॥

बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि नूनम् ।
जननसमयलग्नां जाह्ववी तावकानां
वहति चरणरक्षे वासनां मौक्तिकानाम् ॥३७॥ ६४७॥

मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके संश्रितानां
कलिकलुषमशेषं क्षालयन्तीव मुक्ताः ॥३८॥ ६४८॥

मुकुलितपरितापां प्राणिनां मौक्तिकैः स्वै-
रमृतमिव दुहानामाद्रिये पादुके त्वाम् ॥३९॥ ६४९॥

सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके रङ्गभर्तु-
श्चरणनखमणीनां सन्निधौ मौक्तिकानि ॥४०॥ ६५०॥

भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि ॥४१॥ ६५१॥

प्रकटितयशसां ते पादुके रङ्गभर्तु-
र्द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेलाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम् ॥४२॥ ६५२॥

दिव्यं धाम स्थिरमभियतां देवि मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्या-
मात्मज्योतिश्शमिततमसां योगिनामन्तरात्मा ॥४३॥ ६५३॥

शुद्धे नित्यं स्थिरपरिणतां देवि विष्णोः पदे त्वा-
मास्थानीं ताममितविभवां पादुके तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवद्व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनाद् बिभ्रति त्रासहीनाः ॥४४॥ ६५४॥

प्राप्ता शौरेश्चरणकमलं पादुके भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौलिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानाम्प्रभाभिः ॥४५॥ ६५५॥

तव हरिपादुके पृथुलमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब सतां
प्रणतसुरेन्द्रमौलिपलितङ्करणाः किरणाः ॥४६॥ ६५६॥

कपर्दे कस्यापि क्षितिधरपदत्रायिणि तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकलभशुण्डारचुलकः ॥४७॥ ६५७॥

मुकुन्दपदरक्षिणि प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिनस्तत्क्षणा-
ज्जरामरणदन्तुरं जहति हन्त तापत्रयम् ॥४८॥ ६५८॥

देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके प्रहसिता मुक्तामयूखच्छलात् ॥४९॥ ६५९॥

रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम् ॥५०॥ ६६०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
मुक्तापद्धतिरष्टादशी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP