संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| यन्त्रिकापद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः यन्त्रिकापद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन यन्त्रिकापद्धतिः Translation - भाषांतर उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥१॥ ८०१॥प्रसभं प्रतिरुध्य कण्टकादीन्भवती शौरिपदाम्बुजादधस्तात् ।चराणावनि धारयत्यमुष्मि-न्नुचितच्छायमुपर्यपि प्रतीकम् ॥२॥ ८०२॥मुरभिन्मणिपादुके त्वदीया-मनघामङ्गुलियन्त्रिकामवैमि ।स्वयमुन्नमितां प्रदेशिनीं तेपरमं दैवतमेकमित्यृचन्तीम् ॥३॥ ८०३॥स्वदते मणिपादुके त्वदीया पदशाखायुगयन्त्रिका विचित्रा ।परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्धमात्रा ॥४॥ ८०४॥अनुयातमनोरथा मुरारेर्भवती केलिरथश्रियं दधाति ।चरणावनि यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात् ॥५॥ ८०५॥शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुलिसङ्ग्रहार्थम् ।त्राणाय पादावनि विष्टपानामाज्ञाकरीमङ्गुलिमुद्रिकां ते ॥६॥ ८०६॥अलङ्कृतं कर्णिकयोपरिष्टा-दुदग्रनालं तव यन्त्रिकांशम् ।पद्मापतेः पादसरोजलक्ष्म्याःप्रत्येमि पादावनि केलिपद्मम् ॥७॥ ८०७॥उपरि विनिहितस्य केशवाङ्घ्रे-रुपरि पदावनि यन्त्रिकात्मिका त्वम् ।इति तव महिमा लघूकरोतिप्रणतसुरेश्वरशेखराधिरोहम् ॥८॥ ८०८॥नित्यं पदावनि निबद्धकिरीटशोभंपद्मालयापरिचितं पदमुद्वहन्त्याः ।अङ्गीकरोति रुचिमङ्गुलियन्त्रिका तेसाम्राज्यसम्पदनुरूपमिवातपत्रम् ॥९॥ ८०९॥प्रथमा कलेव भवती चरणावनि भाति रङ्गचन्द्रमसः ।शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः ॥१०॥ ८१०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेयन्त्रिकापद्धतिः षङ्विंशी ॥२७. रेखापद्धतिः (१०)सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥१॥ ८११॥मणिमौलिनिघर्षणात् सुराणांवहसे काञ्चनपादुके विचित्रम् ।कमलापतिपादपद्मयोगा-दपरं लक्षणमाधिराज्यसारम् ॥२॥ ८१२॥अभितो मणिपादुके स्फुरन्त्या-स्तव रेखाविततेस्तथाविधायाः ।मुरवैरिपदारविन्दरूढै-रनुकल्पायितमाधिराज्यचिह्नैः ॥३॥ ८१३॥रेखया विनमतां दिवौकसां मौलिरत्नमकरीमुखोत्थया ।पादुके वहसि नूनमद्भुतं शौरिपादपरिभोगलक्षणम् ॥४॥ ८१४॥त्रिदशमकुटरत्नोल्लेखरेखापदेशा-त्परिणमयसि पुंसां पादुके मूर्ध्नि लग्ना ।नरकमथनसेवासम्पदं साधयित्रीनियतिविलिखितानां निष्कृतिं दुर्लिपीनाम् ॥५॥ ८१५॥पदकमलतलान्तःसम्श्रितान्यातपत्र-ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि ।अवगमयसि शौरेः पादुके मादृशाना-मुपरि परिणतैः स्वैर्देवि रेखाविशेषैः ॥६॥ ८१६॥स्नाता पदावनि चिरं परिभुज्य मुक्तापादेन रङ्गनृपतेः शुभलक्षणेन ।रेखान्तरैर्नवनवैरुपशोभसे त्वंसंस्कारचन्दनविलेपनपङ्कलग्नैः ॥७॥ ८१७॥भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणांकोटीरकोटिकषणादुपजायमानैः ।आभाति शौरिचरणादधिकानुभावारेखाशतैस्तव पदावनि काऽपि रेखा ॥८॥ ८१८॥पादावनि प्रतिपदं परमस्य पुंसःपादारविन्दपरिभोगविशेषयोग्या ।स्वाभाविकान् सुभगभक्तिविशेषदृश्यान्रेखात्मकान् वहसि पत्रलताविशेषान् ॥९॥ ८१९॥रेखापदेशतस्त्वं प्रशमयितुं प्रलयविप्लवाशङ्काम् ।वहसि मधुजित्पदावनि मन्ये निगमस्य मातृकालेख्यम् ॥१०॥ ८२०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेरेखापद्धतिः सप्तविंशी ॥२८. सुभाषितपद्धतिः (१०)कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि ।पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥१॥ ८२१॥सन्तः स्वदेशपरदेशविभागशून्यंहन्त स्ववृत्तिमनघां न परित्यजन्ति ।राज्ये वने च रघुपुङ्गवपादरक्षानैजं जहौ न खलु कण्टकशोधनं तत् ॥२॥ ८२२॥ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तंपृथ्वीं शशास परिमुक्तपदं पदत्रम् ।किं वा न किं भवति केलिविधौ विभूनांपुण्यं शरव्यमभवत्पयसां निधिर्वा ॥३॥ ८२३॥अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवा-द्भ्रष्टः पदादधिकरोति पदं पदार्हः ।प्रायो निदर्शयति तत्प्रथमो रघूणांतत्पादयोः प्रतिनिधी मणिपादुके वा ॥४॥ ८२४॥चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यंसकलभुवनगुप्त्यै सत्पथे वर्तते यः ।नरपतिबहुमानं पादुकेवाधिगच्छन्स भवति समयेषु प्रेक्षितज्ञैरुपास्यः ॥५॥ ८२५॥रामे राज्यं पितुरभिमतं सम्मतं च प्रजानांमाता वव्रे तदहि भरते सत्यवादी ददौ च ।चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेकोदुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम् ॥६॥ ८२६॥नातिक्रामेच्चरणवहनात्पादुका पादपीठंयद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य ।पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यंशङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम् ॥७॥ ८२७॥प्रतिपदचपलाऽपि पादुका रघुपतिना स्वपदे निवेशिता ।समजनि निभृतस्थितिस्तदा भवति गुणः श्रियमभ्युपेयुषाम् ॥८॥ ८२८॥गतिहेतुरभूत् क्वचित्पदे स्थितिहेतुर्मणिपादुका क्वचित् ।न हि वस्तुशुशक्तिनिश्चयो नियतिः केवलमीश्वरेच्छया ॥९॥ ८२९॥अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः ।अलभत समये रामात्पादाक्रान्ताऽपि पादुका राज्यम् ॥१०॥ ८३०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेसुभाषितपद्धतिरष्टाविंशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP