प्रकीर्णकपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयःसाधनमाम्नातं तत्पदत्रं तथाऽस्तु मे ॥१॥ ८३१॥
मधुरस्मितरम्यमौक्तिकश्रीर्विशसि व्यञ्जितमञ्जुलप्रणादा ।
सह रङ्गनृपेण वासगेहं तनुमध्या मणिपादुके त्वमेका ॥२॥ ८३२॥
शुभशब्दविशेषसंश्रिताभि-
र्भवती शौरिपदावनि क्रियाभिः ।
अनुतिष्ठति नूनमाश्रिताना-
मखिलोपद्रवशान्तिकं नवीनम् ॥३॥ ८३३॥
मणिभिर्मधुवैरिपादरक्षे
भवती विक्रमणे प्रवर्धमाना ।
युगपद्भवतां युगान्तकाले
दिवि लक्ष्मीं विदधे दिवाकराणाम् ॥४॥ ८३४॥
मञ्जुस्वनां मणिमयूखकलापिनीं त्वां
दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् ।
गूढीभवन्ति गरुदध्वजपादरक्षे
फूत्कारवन्ति पुरवैरिविभूषणानि ॥५॥ ८३५॥
मध्ये परिस्फुरितनिर्मलचन्द्रतारा
प्रान्तेषु रत्ननिकरेण विचित्रवर्णा ।
पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं
चक्षुर्वशीकरणयन्त्रविशेषशङ्काम् ॥६॥ ८३६॥
पादेन रङ्गनृपतेः परिभुज्यमाना
मुक्ताफलप्रकटितश्रमवारिबिन्दुः ।
उत्कण्टका मणिमयूखशतैरुदग्रैः
सीत्कारिणीव चरणावनि शिञ्जितैस्त्वम् ॥७॥ ८३७॥
दूरप्रसारितकरा निनदैर्मणीना-
मायाति दैत्यरिपुरित्यसकृद्ब्रुवाणा ।
दैत्येश्वरानभिमुखान् जनितानुकम्पा
मन्ये निवारयसि माधवपादुके त्वम् ॥८॥ ८३८॥
अच्छेद्यरश्मिनियतक्रमरत्नधुर्या
निष्कम्पकूबरनिभं दधती प्रतीकम् ।
क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः
कर्णीरथस्त्वमसि काञ्चनपादरक्षे ॥९॥ ८३९॥
मञ्जुस्वना मरतकोपलमेचकाङ्गी
शोणाश्मतुण्डरुचिरा मणिपादुके त्वम् ।
पद्माविहाररसिकस्य परस्य यूनः
पर्यायतां भजसि पञ्जरशारिकाणाम् ॥१०॥ ८४०॥
शोणोपलैश्चरणरक्षिणि संश्रितेषु
च्छायात्मना मरकतेषु तवावगाढः ।
अन्वेति शौरिरभितः फलपङ्क्तिशोभि-
न्यात्मानमेव शयितं वटपत्रमध्ये ॥११॥ ८४१॥
स्फीतं पदावनि तव स्नपनार्द्रमूर्ते-
रासागरं ततमभून्मणिरश्मिजालम् ।
लीलोचितं रघुसुतस्य शरव्यमासन्
यातूनि यस्य वलयेन विवेष्टितानि ॥१२॥ ८४२॥
रत्नांशुभिस्तव तदा मणिपादरक्षे
संरज्यमानवपुषां रजनीमुखेषु ।
आकस्मिकागतमदर्शिं महौषधित्वं
साकेतपत्तनसमीपरुहां द्रुमाणाम् ॥१३॥ ८४३॥
रामे वनं दशरथे च दिवं प्रयाते
निर्धूतविश्वतिमिरा सहसा बभूव ।
भूयिष्ठरत्नकिरणा भवती रघूणां
भूयः प्रतापतपनोदयपूर्वसन्ध्या ॥१४॥ ८४४॥
प्रीतेन देवि विभुना प्रतिपादनीयां
पादावनि प्रतिपदोदितमञ्जुनादाम् ।
विद्यां विदुर्भगवतः प्रतिपादनार्हां
पारायणागमपयोनिधिपारगास्त्वाम् ॥१५॥ ८४५॥
मुक्तांशुकेसरवती स्थिरवज्रदंष्ट्रा
प्रह्लादसम्पदनुरूपहिरण्यभेदा ।
मूर्तिः श्रियो भवसि माधवपादरक्षे
नाथस्य नूनमुचिता नरसिंहमूर्तेः ॥१६॥ ८४६॥
सम्भावयन्ति कवयश्चतुरप्रचारां
मञ्जुस्वनां महितमौक्तिकपत्रलाङ्गीम् ।
स्वाधीनसर्वभुवनां मणिपादुके त्वां
रङ्गाधिराजपदपङ्कजराजहंसीम् ॥१७॥ ८४७॥
मुक्तामयूखरुचिरां मणिपादरक्षे
मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् ।
मन्ये मुकुन्दपदपद्ममधुव्रतीना-
मन्यामकृत्रिमगिरामधिदेवतां त्वाम् ॥१८॥ ८४८॥
आसाद्य केकयसुतावरदानमूलं
कालं प्रदोषमनिरीक्ष्यरमासहायम् ।
मञ्जुप्रणादरहिता मणिपादरक्षे
मौनव्रतं किमपि नूनमवर्तयस्त्वम् ॥१९॥ ८४९॥
वैडूर्यरम्यसलिला महिता मरुद्भि-
श्छायावती मरकतोपलरश्मिजालैः ।
अश्रान्तमोहपदवीपथिकस्य जन्तो-
र्विश्रान्तिभूमिरिव शौरिपदावनि त्वम् ॥२०॥ ८५०॥
आद्यो रघुक्षितिभुजामभिषेकदीप्तै-
राप्यायितस्तव पदावनि रश्मिजालैः ।
मन्दीचकार तपनो व्यपनीतभीति-
र्मन्दोदरीवदनचन्द्रमसो मयूखान् ॥२१॥ ८५१॥
मान्या समस्तजगतां मणिभङ्गनीला
पादे निसर्गघटिता मणिपादुके त्वम् ।
अन्तःपुरेषु ललितानि गतागतानि
च्छायेव रङ्गनृपतेरनुवर्तसे त्वम् ॥२२॥ ८५२॥
रङ्गाधिराजपदपङ्कजमाश्रयन्ती
हैमी स्वयं परिगता हरिनीलरत्नैः ।
सम्भाव्यसे सुकृतिभिर्मणिपादुके त्वं
सामान्यमूर्तिरिव सिन्धुसुताधरण्योः ॥२३॥ ८५३॥
अभ्यर्चिता सुमनसां निवहैरजस्रं
मुक्तारुणोपलनस्वाङ्गुलिपल्लवश्रीः ।
श्रेयस्करीं मुरभिदश्चरणद्धयीव
कान्तिं समाश्रयसि काञ्चनपादुके त्वम् ॥२४॥ ८५४॥
निर्मृष्टगात्ररुचिरा मणिपादुके त्वं
स्नातानुलेपसुरभिर्नवमाल्यचित्रा ।
प्राप्ते विहारसमये भजसे मुरारेः
पादारविन्दपरिभोगमधन्यलभ्यम् ॥२५॥ ८५५॥
नादे पदावनि तथा तव सन्निवेशे
निर्वेशनक्रममसह्यमपाचिकीर्षुः ।
यैरेव लोचनशतैरभिवीक्षते त्वां
तैरेव पन्नगपतिः श्रुतिमान् बभूव ॥२६॥ ८५६॥
पादावनि स्फुटमयूखसहस्रदृश्या
विष्णोः पदेन भवती विहितप्रचारा ।
त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भो-
र्वैकर्तनीमनुकरोति विहारमूर्तिम् ॥२७॥ ८५७॥
राज्ये वनेपि रघुवीरपदोचितायाः
संस्मृत्य गौतमवधूपरिरक्षणं ते ।
मन्ये समाहितधियो मणिपादुके त्वां
मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः ॥२८॥ ८५८॥
त्वामाश्रितो मणिमयूखसहस्रदृश्यां
त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् ।
आशङ्क्यते सुमतिभिर्मणिपादरक्षे
विद्यासखः सवितृमण्डलमध्यवर्ती ॥२९॥ ८५९॥
रत्नाश्रितैर्हरिपदं मणिपादुके त्वं
स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा ।
तत्त्वं तदेतदिति बोधयसीव सम्य-
ग्वेदान्प्रतारितवतो विविधान् कुदृष्टीन् ॥३०॥ ८६०॥
आनन्दसूः प्रणयिनामनघप्रसादा
रङ्गाधिराजपदरक्षिणि रत्नभासा ।
न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्या
वर्णांशुकं वितरसीव वसुन्धरायाः ॥३१॥ ८६१॥
त्वं चित्रभानुरसि रत्नविशेषयोगा-
द्भूम्ना निजेन परिपुष्यसि पावकत्वम् ।
स्वेनैव शौरिचरणावनि चन्द्ररूपा
तेजस्त्रयीव मिलिताऽसि तमोपहा नः ॥३२॥ ८६२॥
प्रौढप्रवालरुचिरा भुवनैकवन्द्या
रङ्गाधिराजचरणावनि रम्यचन्द्रा ।
सम्भिन्नमौक्तिकरुचिः सततं प्रजानां
तापात्ययं दिशसि तारकितेव सन्ध्या ॥३३॥ ८६३॥
रङ्गेश्वरस्य पुरतो मणिपादुके त्वं
रत्नांशुभिर्विकिरसि स्फुटभक्तिबन्धा ।
पादौ विहारयितुमद्भुतसौकुमार्यौ
प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम् ॥३४॥ ८६४॥
आसन्नवृत्तिरवरोधगृहेषु शौरे-
रापादयस्यनुपदं वरवर्णिनीनाम् ।
आलग्नरत्नकिरणा मणिपादुके त्वं
मञ्जुस्वना मदनबाणनिघर्षशङ्काम् ॥३५॥ ८६५॥
पर्याप्तमौक्तिकनखा स्फुटपद्मरागा
रेखाविशेषरुचिरा ललितप्रचारा ।
रङाधिराजपदयोर्मणिपादुके त्वं
सायुज्यमाश्रितवतीव समस्तवन्द्या ॥३६॥ ८६६॥
प्राप्ताभिषेका मणिपादुके
त्वं प्रदीप्तरत्ना रघुराजधान्याः ।
प्रदक्षिणप्रकमणादकार्षीः
प्राकारमाग्नेयमिव प्रभाभिः ॥३७॥ ८६७॥
रत्नासने राघवपादरक्षे
प्रदीप्यमानास्तव पद्मरागाः ।
प्रायो नरेन्द्रान् भरतस्य जेतुः
प्रतापवह्नेरभवन्प्ररोहाः ॥३८॥ ८६८॥
शुभप्रणादा भवती श्रुतीनां
कण्ठेशुवैकुण्ठपतिंवराणाम् ।
बध्नासि नूनं मणिपादरक्षे
मङ्गल्यसूत्रं मणिरश्मिजालैः ॥३९॥ ८६९॥
विचित्रवर्णा श्रुतिरम्यशब्दा
निषेव्यसे नाकसदां शिरोभिः ।
मधुद्विषस्त्वं मणिपादरक्षे
श्रेयस्करीशासनपत्रिकेय ॥४०॥ ८७०॥
स्थिरा स्वभावान्मणिपादुके त्वं
सर्वंसहा स्वादुफलप्रसूतिः ।
पृथ्वीव पद्भां परमस्य पुंसः
संसृज्यसे देवि विभज्यसे च ॥४१॥ ८७१॥
पश्यन्ति रङ्गेश्वरपादरक्षे
पूजासु ते संहितपुष्पजालाम् ।
मृगीदृशो वासवरत्नरेखां
सचित्रपुङ्खामिव मन्मथज्याम् ॥४२॥ ८७२॥
करैरुदग्रैः स्फुरतां मणीनां
मञ्जुस्वना माधवपादुके त्वम् ।
अनूपदेशे कनकापगायाः
कलेः प्रवेशं प्रतिषेधसीव ॥४३॥ ८७३॥
आक्रान्तवेदिर्भवती तदानी-
मदर्शि मुक्तान्वितशोणरत्ना ।
करग्रहार्थं भरतेन भूम्या
लाजोत्करैर्वह्निशिखेव कीर्णा ॥४४॥ ८७४॥
पत्रला मणिगणैर्हिरण्मयी
भासि रङ्गपतिरत्नपादुके ।
केलिमण्टपगतागतोचिता
भूमिकेव गरुडेव कल्पिता ॥४५॥ ८७५॥
उन्नतं बलिविरोधिनस्तदा
पादुके पदसरोजमाश्रिता ।
मौक्तिकस्तबकमध्यसम्मितं
व्योम षट्पदतुलामलम्भयः ॥४६॥ ८७६॥
कोमलाङ्गुलिनिवेशयन्त्रिका-
न्यस्तमौक्तिकमयूखदन्तुरा ।
मङ्गलानि वमसीव देहिनां
रङ्गराजमणिपादुके स्वयम् ॥४७॥ ८७७॥
पङ्कजासहचरस्य रङ्गिणः
पादुके निजपदादनन्तरम् ।
न्यस्यतस्त्वयि जगन्ति जायते
नागभोगशयनं निरङ्कुशम् ॥४८॥ ८७८॥
साधयन्ति मधुवैरिपादुके
साधवः स्थिरमुपायमुत्तमम् ।
त्वत्प्रवृत्तिविनितवर्तनोचित-
स्वप्रवृत्तिविनिवर्तनान्वितम् ॥४९॥ ८७९॥
नन्दसूनुपदपद्ममिन्दिरापाणिपल्लवनिपीडनासहम् ।
पादुके तव बलेन पर्यभृदूष्मलामुरगमौलिशर्कराम् ॥५०॥ ८८०॥
मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः
प्रकटितशुभनादा पादुके रङ्गभर्तुः ।
निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथा-
मवगमयसि हृद्यामर्धमात्रां चतुर्थीम् ॥५१॥ ८८१॥
श्रुतिविषयगुणा त्वं पादुके दैत्यहन्तुः
सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती ।
जनितभुवनवृद्धिर्दृश्यसे स्थैर्ययुक्ता
विधृतनिखिलभूता वैजयन्तीव माला ॥५२॥ ८८२॥
रघुपतिपदसङाद्राज्यखेदं त्यजन्ती
पुनरपि भवती स्वान् दर्शयन्ती विहारान् ।
अभिसमधित वृद्धिं हर्षकोलाहलानां
जनपदजनितानां ज्यायसा शिञ्जितेन ॥५३॥ ८८३॥
हरिचरणमुपघ्नं पादुके संश्रिताया-
मधिगतबहुशाखं वैभवं दर्शयन्त्याम् ।
अभजत विधिहस्तन्यस्तधर्मद्रवायां
त्वयि मुकुलसमृद्धिं मौक्तिकश्रीस्तदानीम् ॥५४॥ ८८४॥
कनकरुचिरकान्तिः कल्पिताशोकभारा
कृतपदकमलश्रीः क्रीडता माधवेन ।
दिशिदिशि सुमनोभिर्दर्शनीयानुभावा
सुरभिसमयलक्ष्मीं पादुके पुष्यसि त्वम् ॥५५॥ ८८५॥
प्रणिहितपदपद्मा पादुके रङ्गभर्तुः
शुभतरगतिहेतुश्चारुमुक्ताप्रवाला ।
स्थिरपरिणतरागां शुद्धबोधानुबद्धां
स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम् ॥५६॥ ८८६॥
विरचितनवभागा रत्नभेदैर्विचित्रै-
र्विविधविततरेखाव्यक्तसीमाविभागा ।
हरिचरणसरोजं प्रेप्सतामर्चनीयं
प्रथयसि नवनाभं मण्डलं पादुके त्वम् ॥५७॥ ८८७॥
परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां
बहुविधमणिरश्मिग्रन्थबन्धाभिरामा ।
रघुपतिपदरक्षे राजवाह्यस्य कुम्भे
कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला ॥५८॥ ८८८॥
चरितनिखिलवृत्तिश्चारुपद्मासनस्था
गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला ।
सविधमधिवसन्ती पादुके रङ्गभर्तु-
श्चरणकमलमन्तर्बिम्बितं ध्यायसीव ॥५९॥ ८८९॥
अनुपधि परिरक्षन्नेकपुत्राभिमानाद्-
भुवनमिदमशेषं पादुके रङ्गनाथः ।
निजपदनिहितायां देवि तिष्ठन् व्रजन् वा
त्वयि निहितभरोऽभृत् किं पुनः स्वापमृच्छन् ॥६०॥ ८९०॥
त्वरितमुपगतानां श्रीमतो रङ्गभर्तु-
स्त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु ।
मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ
विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम् ॥६१॥ ८९१॥
मनसि नियमयुक्ते वर्तमाना मुनीनां
प्रतिपदमुपयान्ती भावनीयक्रमत्वम् ।
श्रुतिरिव निजशब्दैः पादुके रङ्गभर्तुः
पदमनितरगम्यं व्यङ्कुमर्हा त्वमेव ॥६२॥ ८९२॥
अविकलनिजचन्द्रालोकसन्दर्शनीया
प्रतिकलमुपभोग्या पादुके रङ्गभर्तुः ।
मुकुलयितुमशेषं मौक्तिकज्योत्स्नया नः
प्रभवसि तिमिरौघं पौर्णमासी निशेव ॥६३॥ ८९३॥
हंसश्रेणीपरिचितगतिर्हारिणी कल्मषाणां
मौलौ शम्भोः स्थितिमधिगता मुग्धचन्द्रानुबद्धा ।
राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं
काले तस्मिन् क्षितिमधिगता पादुके जाह्नवीव ॥६४॥ ८९४॥
स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां
मार्गेमार्गे महितविभवां पादुके तीर्थभेदैः ।
शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं
क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम् ॥६५॥ ८९५॥
अभ्यस्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे
स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् ।
पर्यायेण प्रहितपदयोः पादुके श्रुत्युदारः
शिञ्जानादः स्फुरति युवयोः शृङ्खलाबन्धरम्यः ॥६६॥ ८९६॥
आसन्नानां दिवसमपुनर्नक्तमापादयन्ती
स्फीतालोका मुनिभिरभितः प्राणिनामस्तदोषा ।
प्रह्वैर्जुष्टा विबुधनिवहैः पादुके रङ्गभर्तुः
पादाम्भोजे दिशति भवति पूर्वसन्ध्येव कान्तिम् ॥६७॥ ८९७॥
रम्यालोका ललितगमना पद्मरागाधरोष्ठी
मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा ।
श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे
मन्ये धातुर्भवसि महिलानिर्मितौ मातृका त्वम् ॥६८॥ ८९८॥
स्थित्वा पूर्वं क्वचनभवती भद्रपीठस्य मध्ये
रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे ।
व्याकीर्णानां नृपतिविरहाद्देवि वर्णाश्रमाणां
नूनं सीमाविभजनसहं निर्ममे सूत्रपातम् ॥६९॥ ८९९॥
मातर्मञ्जुस्वनपरिणतपार्थनावाक्यपूर्वं
निक्षिप्तायां त्वयि चरणयोः पादुके रङ्गभर्तुः ।
त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां
पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम् ॥७०॥ ९००॥
नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते
शिञ्जानादं श्रवणमधुरं पादुके दीर्घयन्तः ।
काले तस्मिन् करणविगमक्लेशजातं विहन्युः
सन्तापं नस्तरुणतुलसीगन्धिनो गन्धवाहाः ॥७१॥ ९०१॥
संसाराध्वश्रमपरिणतं संश्रितानां जनानां
तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके त्वम् ।
चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भि-
र्धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः ॥७२॥ ९०२॥
वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां
मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् ।
हर्षोत्कर्षादुपरि चलयन्पादुके चन्द्रकान्तं
धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः ॥७३॥ ९०३॥
श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती
कालेकाले सह कमलया क्लृप्तयात्रोत्सवश्रीः ।
गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा
पौरान्नित्यं किमपि कुशलं पादुके पृच्छसीव ॥७४॥ ९०४॥
चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं
मनसिजसायकासनगुणोचितमञ्जुरवाम् ।
अनुपदमाद्रियेमहि महेन्द्रशिलामहितां
हरिचरणाविन्दमकरन्दमधुव्रतिकाम् ॥७५॥ ९०५॥
कनकरुचा जटामुरगमौलिमणीन्मणिभि-
स्त्रिदिवतरङ्गिणीं तरलमौक्तिकदीधितिभिः ।
कुटिलतया क्वचिच्छशिकलामधरीकुरुषे
मुररिपुपादुके पुरभिदः शिरसा विधृता ॥७६॥ ९०६॥
काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां
मूर्तिं कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् ।
सेवानम्रसुरासुरेन्द्रमकुटीशेषापटीसङ्गमे
मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः ॥७७॥ ९०७॥
चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर-
स्तोकाश्लिष्टसुरेन्द्रशेखररजःस्त्यानां स्तुमः पादुकाम् ।
ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति-
ध्वंसानुग्रहनिग्रहप्रणयिनी या सा क्रिया रङ्गिणः ॥७८॥ ९०८॥
लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णय-
न्नाजिघ्रन्निगमान्तगन्धतुलसीदामोत्थितं सौरभम् ।
काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः
पश्येयं मणिपादुके परतरं पद्मेक्षणं दैवतम् ॥७९॥ ९०९॥
वहति क्षितिव्यवहितां सोऽपि त्वां गतिषु पादुके रङ्गी ।
कमठपतिभुजगपरिबृढकरिवरकुलशिखरिभूमिकाभेदैः ॥८०॥ ९१०॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
प्रकीर्णकपद्धतिः एकोनत्रिंशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP