संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| सन्निवेशपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः सन्निवेशपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन सन्निवेशपद्धतिः Translation - भाषांतर अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम् ॥१॥ ७८१॥प्रतितिष्ठति पादसस्मितायांत्वयि नित्यं मणिपादुके मुकुन्दः ।इतरे तु परिच्छदास्त एतेविभवव्यञ्जनहेतवो भवन्ति ॥२॥ ७८२॥तव रङ्गनरेन्द्रपादरक्षे प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् ।भवतीं वहतीव पन्नगेन्द्रः प्रथितस्वस्तिकलक्षणैः शिरोभिः ॥३॥ ७८३॥परस्य पुंसः पदसन्निवेशान्प्रयुञ्जते भावितपञ्चरात्राः ।अघप्रतीपानपदिश्य पुण्ड्रानङ्गेषु रङ्गेशयपादुके त्वाम् ॥४॥ ७८४॥ विमृश्य रङ्गेन्द्रपतिंवरायाः श्रुतेः स्थितां मूर्धनि पादुके त्वाम् ।बध्नन्ति वृद्धाः समये वधूनां त्वन्मुद्रितान्याभरणानि मौलौ ॥५॥ ७८५॥वहन्ति रङ्गेश्वरपादरक्षे दीर्घायुशां दर्शितभक्तिबन्धाः ।आशाधिपानामवरोधनार्यस्त्वन्मुद्रिकां मङ्गलहेमसूत्रैः ॥६॥ ७८६॥व्यूहक्रमेण प्रथितारमग्रेसन्दर्शयन्तीं मणिपादुके त्वाम् ।पातुं त्रिलोकीं पदपद्मभाजंसौदर्शनीं शक्तिमवैमि शौरेः ॥७॥ ७८७॥बद्धासिका कनकपङ्कजकर्णिकायांमध्ये कृशा मुररिपोर्मणिपादुके त्वम् ।सन्दृश्यसे सरसिजासनया गृहीतंरूपान्तरं किमपि रङ्गविहारयोग्यम् ॥८॥ ७८८॥मानोचितस्य मदधीनजनस्य नित्यंमा भूदतः कृपणतेति विचिन्तयन्त्या ।बन्दीकृतं ध्रुवमवैमि वलग्नदेशेकार्श्यं त्वया कमललोचनपादरक्षे ॥९॥ ७८९॥मध्ये कृशामुभयतः प्रतिपन्नवृद्धिंमन्ये समीक्ष्य भवतीं मणिपादरक्षे ।नित्यं मुकुन्दपदसङ्गमविप्रयोगौनिश्चिन्वते कृतधियः सुखदुःखकाष्ठाम् ॥१०॥ ७९०॥रङ्गेशितुश्चरणपङ्कजयोर्भजन्तीरक्षाप्रसाधनविकल्पसहामवस्थाम् ।मान्याकृतिर्निविशसे मणिपादरक्षेमध्ये परिच्छदविभूषणवर्गयोत्स्वम् ॥११॥ ७९१॥अङ्गान्तरेषु निहितान्यखिलानि कामम् ।पर्यायकल्पनसहानि विभूषणानि ।नित्यं मुकुन्दपदपद्मतलानुरूपंनैपथ्यमम्ब भवती नयनाभिरामम् ॥१२॥ ७९२॥ये नाम भक्तिनियतैस्तव सन्निवेशंनिर्विश्य नेत्रयुगलैर्न भजन्ति तृप्तिम् ।कालक्रमेण कमलेक्षणपादरक्षेप्रायेण ते परिणमन्ति सहस्रनेत्राः ॥१३॥ ७९३॥पदमप्रमाणमिति वादिनां मतंमधुजित्पदे महति मास्म भूदिति ।व्युदपादि तस्य चरणावनि त्वयानिगमात्मनस्तव समप्रमाणता ॥१४॥ ७९४॥अप्रभूतमभवज्जगत्त्रयं यस्य मातुमुदितस्य पादुके ।अप्रमेयममितस्य तत्पदं नित्यमेव ननु सम्मितं त्वया ॥१५॥ ७९५॥आलवालमिव भाति पादुके पादपस्य भवती मधुद्विषः ।यत्समीपविनतस्य शूलिनः सारणी भवति मौलिनिम्नगा ॥१६॥ ७९६॥मोदमानमुनिवृन्दषट्पदाभाति मुक्तिमकरन्दवर्षिणी ।काऽपि रङ्गनृपतेः पदाम्बुजेकर्णिका कनकपादुकामयी ॥१७॥ ७९७॥युगपदनुविधास्यन् यौवतं तुल्यरागंयदुपतिरधिचक्रे यावतो रूपभेदान् ।तदिदमतिविकल्पं बिभ्रती सन्निवेशंतव खलु पदरक्षे तावती मूर्तिरासीत् ॥१८॥ ७९८॥तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वाप्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे ।मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामानानासंस्था भवति भवती पादुके नर्तकीव ॥१९॥ ७९९॥माने परं सामने प्रत्यक्षेणागमेनापि ।हरिचरणस्य तवापि तु वैषम्यं रक्ष्यरक्षकत्वाभ्याम् ॥२०॥ ८००॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेसन्निवेशपद्धतिः पञ्चविंशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP