संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
नादपद्धतिः

नादपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ।
मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥१॥ ३८१॥

मुरभिन्मणिपादुके भवत्याः स्तुतिमाकर्णयतां मया निबद्धाम् ।
अवधीरयसीव मञ्जुनादैरचमत्कारवचांसि दुर्जनानाम् ॥२॥ ३८२॥

विहितेष्वभिवादनेषु वेदैर्गमनोदीरितगर्भरत्ननादा ।
मधुरं मधुवैरिपादरक्षे भवती प्रत्यभिवादनं विधत्ते ॥३॥ ३८३॥

स्वदते किमिहैव रङ्गनाथो
मयि तिष्ठन् यदि वा पदे परस्मिन् ।
इति पृच्छसि देवि नूनमस्मान्
मधुरैस्त्वं मणिपादुके निनादैः ॥४॥ ३८४॥

अवरोधगतस्य रङ्गभर्तुर्गुतिषु व्यञ्जितगर्भरत्ननादा ।
प्रतिसँल्लपसीव पादुके त्वं कमलानूपुरमञ्जुशिञ्जितानाम् ॥५॥ ३८५॥

मुरभिच्चरणारविन्दरूपं महितानन्दमवाप्य पूरुषार्थम् ।
अनघैर्मणिपादुके निनादैरहमन्नाद इतीव गायसि त्वम् ॥६॥ ३८६॥

मदुवैरिपदाम्बुजं भजन्ती मणिपादावनि मञ्जुशिञ्जितेन ।
पठसीव मुहुः स्वयं प्रजानामपरोपज्ञमरिष्टशान्तिमन्त्रम् ॥७॥ ३८७॥

श्रुतिभिः परमं पदं मुरारेरनिदङ्कारमनेवमित्युपात्तम् ।
इदमित्थमिति ब्रवीषि नूनं मणिपादावनि मञ्जुभिः प्रणादैः ॥८॥ ३८८॥

मुनयः प्रणिधानसन्निरुद्धे हृदि रङ्गेश्वररत्नपादुके त्वाम् ।
विनिवेश्य विभावयन्त्यनन्याः प्रणवस्य प्रणिधिं तव प्रणादम् ॥९॥ ३८९॥

मधुरं मणिपादुके प्रवृत्ते भवती रङ्गेपतेर्विहारकाले ।
अभयार्थनया समभ्युपेतानविसंवादयतीव मञ्जुनादैः ॥१०॥ ३९०॥

श्रवसोर्मम पारणां दिशन्ती मणिपादावनि मञ्जुलैः प्रणादैः ।
रमया क्षमया च दत्तहस्तं समये रङधुरीणमानयेथाः ॥११॥ ३९१॥

अनुयाति नित्यममृतात्मिकां कलां
तव रङ्गचन्द्रमणिपादु झङ्कृतम् ।
श्रवसा मुखेन परिभुज्य यत्क्षणा-
दजरामरत्वमुपयान्ति साधवः ॥१२॥ ३९२॥

परुषैरजस्रमसतामनर्थकैः परिवादपैशुनविकत्थनादिभिः ।
मधुकैटभारिमणिपादुके मम श्रुतिदुष्कृतानि
   विनिवारय स्वनैः ॥१३॥ ३९३॥

पादुके परिजनस्य दूरतः सूचयन्ति खलु तावकाः स्वनाः ।
लीलया भुजगतल्पमुज्ज़तः श्रीमतस्त्रिचतुरान्पदक्रमान् ॥१४॥ ३९४॥

देवि दैत्यदमनाय सत्वरं प्रस्थितस्य मणिपादुके प्रभोः ।
विश्वमङ्गलविशेषसूचकं शाकुनं भवति तावकं रुतम् ॥१५॥ ३९५॥

दातुमर्हसि तदा मम श्रुतौ देवि रङ्गपतिरत्नपादुके ।
विह्वलस्य भवदीयशिञ्जितं स्वादुकर्णरसनारसायनम् ॥१६॥ ३९६॥

अहमुपरिसमस्तदेवतानामुपरि ममैष विभाति वासुदेवः ।
तदिह परतरं न किञ्चिदस्मादिति वदसीव पदावनि प्रणादैः ॥१७॥ ३९७॥

अवनतविबुधेन्द्रमौलिमालाम-
धुमदशिक्षितमन्थरप्रयाता ।
प्रथयसि परिरब्धशौरिपादा
मणिकलहेन वियातजल्पितानि ॥१८॥ ३९८॥

आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान्
स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् ।
वासागारं स्वयमुपसरन्पादुके मञ्जुनादा-
मापर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति ॥१९॥ ३९९॥

अन्तर्न्यस्तैर्मणिभिरुदितं पादुके रङ्गबन्धौ
मन्दं मन्दं निहितचरणे मञ्जुलं ते निनादम् ।
पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां पराया
मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम् ॥२०॥ ४००॥

प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां
प्रायेण त्वां प्रथितविभवां वर्णयन्ती मया त्वम् ।
पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजा-
त्पद्यारम्भान् गणयसि परं पादुके स्वैर्निनादैः ॥२१॥ ४०१॥

विष्णोरस्मिन्पदसरसिजे वृत्तिभेदैर्विचित्रै-
रैदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् ।
इत्थं पुंसामनिपुणधियां पादुके त्वं तदेव
स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन ॥२२॥ ४०२॥

आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां
मध्ये भक्त्या मधुविजयिनः पादुके मोहभाजाम् ।
शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुंसां
मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः ॥२३॥ ४०३॥

लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं
रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् ।
प्रत्यादेशं भजति मधुरैः पादुके शिञ्जितैस्ते
चेतोहारी कुसुमधनुषः शिंञ्जिनीमञ्जुनादः ॥२४॥ ४०४॥

रङ्गाधीशे सह कमलया सादरं यायजूकैः
सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने ।
नेदीयोभिर्निगमवचसां नित्यमंहःप्रतीपैः
प्रत्यालापं दिशति भवती पादुके शिञ्जितैः स्वैः ॥२५॥ ४०५॥

उपास्य नूनं मणिपादुके त्वां रङ्गेशपादाम्बुजराजहंसीम् ।
पत्युः प्रजानामलभन्त पूर्वं मञ्जुस्वनं वाहनराजहंसाः ॥२६॥ ४०६॥

अनादिमायारजनीवशेन प्रस्वापभाजां प्रतिबोधनार्हाम् ।
पश्यामि नित्योदितवासरस्य प्रभातनान्दीमिव पादुके त्वाम् ॥२७॥ ४०७॥

श‍ृणोतु रङ्गाधिपतिः प्रजानामार्तध्वनिं क्वापि समुज्जिहानम् ।
इतीव मत्वा मणिपादुके त्वं मन्दप्रचारैर्मृदुशिञ्जिताऽसि ॥२८॥ ४०८॥

अन्ते ममार्तिं शमयिष्यतस्तामग्रेसराण्यापततो मुरारेः ।
श्रमोपपन्नः श‍ृणुयां भवत्याः शीतानि पादावनि शिञ्जितानि ॥२९॥ ४०९॥

स्वादूनि रङ्गेश्वरपादरक्षे श्रोत्रैः पिबन्तस्तव शिञ्जितानि ।
पचन्त्यविद्योपचितानशेषान्तर्गतानात्मविदः कषायान् ॥३०॥ ४१०॥

अवैमि रङ्गाधिपतेः सकाशादवेक्षमाणेषु जनेषु रक्षाम् ।
उदारनादां मणिपादुके त्वामोमित्यनुज्ञाक्षरमुद्गिरन्तीम् ॥३१॥ ४११॥

मधुद्विषः स्वैरविहारहेतुर्मञ्जुस्वनान् शिक्षयसीव मातः ।
पर्यन्तभाजोर्मणिपादरक्षे पद्माधरण्योर्मणिनूपुराणि ॥३२॥ ४१२॥

प्रास्थानिकेषु समयेषु समागतेषु
प्राप्ता पदं परिचितं द्विजपुङ्गवेन ।
पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं
पुण्याहघोषमिव गर्भमणिप्रणादैः ॥३३॥ ४१३॥

आर्तध्वनेरुचितमुत्तरमन्तकाले
कर्णेषु मञ्जुनिनदेन करिष्यसीति ।
वासं भजन्ति कृतिनो मणिपादरक्षे
पुण्येषु देवि पुलिनेषु मरुद्वृधायाः ॥३४॥ ४१४॥

दूत्ये बलेर्विमथने शकटस्य भङ्गे
यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या ।
वीरायितानि बिरुदोपहितानि नूनं
मञ्जुस्वनैः प्रथयसे मणिपादुके त्वम् ॥३५॥ ४१५॥

स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वां
व्यासज्यमानकरणं विषयेष्वजस्रम् ।
अन्तर्मणिध्वनिभिरच्युतपादुके त्वं
सम्बोधयस्यनुकलं सहजानुकम्पा ॥३६॥ ४१६॥

देवस्य दानवरिपोर्मणिपादरक्षे
प्रस्थानमङ्गलविधौ प्रतिपन्ननादाम् ।
मा भैष्ट साधव इति स्वयमालपन्तीं
जाने जगत्रितयरक्षणदीक्षितां त्वाम् ॥३७॥ ४१७॥

स्वञ्छन्दविभ्रमगतौ मणिपादुके त्वं
पादारविन्दमधिगम्य परस्य पुंसः ।
जातस्वना प्रतिपदं जपसीव सूक्तं
विद्रावणं किमपि वैरिवरूथिनीनाम् ॥३८॥ ४१८॥

रक्षार्थमाश्रितजनस्य समुज्जिहाने
रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् ।
नादास्तव श्रुतिसुखा मणिपादरक्षे
प्रस्थानशङ्खनिनदात्प्रथमे भवन्ति ॥३९॥ ४१९॥

नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां
गोपीजनप्रियतमो मणिपादरक्षे ।
सम्बन्नघोषविभवां गतिभिर्निजाभिः
प्रीत्यैव न त्यजति रङ्गसमाश्रितोऽपि ॥४०॥ ४२०॥

प्रायः पदावनि विभोः प्रणतार्तिहन्तुः
प्रस्थानमङ्गलविधौ प्रथमोद्यतानि ।
त्वच्छिञ्जितानि सपदि स्वयमारभन्ते
कालोचितान् कनककाहलशङ्गनादान् ॥४१॥ ४२१॥

आम्रेडितश्रुतिगणैर्निनदैर्मणीना-
माम्नायवेद्यमनुभावमभङ्गुरं ते ।
उद्गास्यतां नियतमिच्छसि सामगानां
तानप्रदानमिव शौरिपदावनि त्वम् ॥४२॥ ४२२॥

रथ्यासु रङ्गनृपतेर्मणिपादरक्षे
त्वद्गर्भरत्नजनितो मधुरः प्रणादः ।
सन्दर्शनोत्सुकधियां पुरसुन्दरीणां
सम्पद्यते श्रवणमोहनमन्त्रघोषः ॥४३॥ ४२३॥

आकस्मिकेषु समयेष्वपवार्य भृत्या-
नन्तःपुरं विशति रङ्गपतौ सलीलम् ।
व्यामोहनेन भवती सुदृशामधीते
मञ्जुस्वनेन मदनोपनिषद्रहस्यम् ॥४४॥ ४२४॥

यात्राविहारसमयेषु समुत्थितं ते
रङ्गाधिपस्य चरणावनि मञ्जुनादम् ।
पर्याकुलेन्द्रियमृगग्रहणाय पुंसां
सम्मोहनं शबरगीतमिव प्रतीमः ॥४५॥ ४२५॥

प्रायेण सह्यदुहितर्नदराजकन्या
जामातुरागमनसूचनमीहमाना ।
मञ्जुप्रणादसुभगैर्मणिपादुके त्वा-
मन्तर्युतामकृत यौतकरत्नखण्डैः ॥४६॥ ४२६॥

नित्यं विहारसमये निगमानुयातैः-
र्विक्षेपताण्डवितगर्भमणिप्रसूतैः ।
नादैः स्वयं नरकमर्दनपादरक्षे
नादावसाननिलयं वदसीव नाथम् ॥४७॥ ४२७॥

साधारणेषु युवयोर्मणिपादरक्षे
देवस्य दानवरिपोस्त्रिषु विक्रमेषु ।
अद्यापि शिञ्जितमिषादनुवर्तमानं
न्यूनाधिकत्वविषयं कलहं प्रतीमः ॥४८॥ ४२८॥

प्रायः पदावनि विभोः प्रणयापराधे
मानग्रहं शमयितुं महिषीजनानाम् ।
उच्चारयन्ति निनदैस्तव गर्भरत्ना-
न्युद्धातमक्षरमुपाश्रयभारतीनाम् ॥४९॥ ४२९॥

अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाः
प्रत्यड्मुखीं परिणमय्य मनःप्रवृत्तिम् ।
आस्वादयन्ति सरसं मणिपादरक्षे
नादावसानसमये भवतीनिनादम् ॥५०॥ ४३०॥

दाक्षिण्यमत्र नियतं नियता सुधाऽस्मि-
न्नित्युद्गतो नियतमच्युतपादरक्षे ।
प्रत्येकसंश्रितपदस्तुतये भवत्योः
सङ्घर्षवाद इव मध्यमणिप्रणादः ॥५१॥ ४३१॥

सञ्चारकेलिकलहायितगर्भरत्ना
सांसिद्धिकं सकलजन्तुषु सार्वभौमम् ।
रक्षार्थिनां प्रथयसीव पदावनि त्वं
रङ्गेश्वरस्य निरवग्रहमानृशंस्यम् ॥५२॥ ४३२॥

प्राप्तुं परं पुरिशयं पुरुषं मुनीना-
मभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् ।
श्रीरङ्गराजचरणावनि शिञ्जितं ते
शङ्के समुन्नयनसामविशेषघोषम् ॥५३॥ ४३३॥

नित्यं समाहितधियामुपन्दर्शयन्ती
नागेशयं किमपि धाम निजोर्ध्वभागे ।
हृत्कर्णिकामनुगता मणिपादुके त्वं
मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव ॥५४॥ ४३४॥

मानेषु दानवरिपोर्मणिपादरक्षे
त्वामाश्रितेषु निगमेष्ववधीरितेषु ।
मञ्जुस्वनैर्वदसि मैवमितीव मात-
र्वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम् ॥५५॥ ४३५॥

क्रन्दत्सु कातरतया करणव्यपाये
रङोपशल्यशयितेषु जनेष्वलक्ष्यम् ।
आसीदसि त्वरितमस्खलितानुकम्पा
मातेव मञ्जुनिनदा मणिपाद्के त्वम् ॥५६॥ ४३६॥

भास्वत्सुवर्णवपुषां मणिपादरक्षे
पद्मासहायपदपद्मविभूषणानाम् ।
मञ्जीरशिञ्जितविकल्पितमञ्जुनादा
मञ्जूषिकेव भवती निगमान्तवाचाम् ॥५७॥ ४३७॥

रङ्गेशपादकमलात् त्वदधीनवृत्ते-
रन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् ।
आम्नायगूढमबहिर्मणिभिः क्वणद्भि-
र्नेदीयसां प्रथयसीव निजानुभावम् ॥५८॥ ४३८॥

कालोपपन्नकरणात्ययनिर्विचेष्टे
जातश्रमे मयि जनार्दनपादरक्षे ।
आश्वासनाय पुरतः प्रसरन्तु मात-
र्वार्ताहरास्तव रवाः शमितार्तयो मे ॥५९॥ ४३९॥

संरक्षणाय समये जगतां त्रयाणां
यात्रासु रङ्गनृपतेरुपतस्थुषीषु ।
सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे
मङ्गल्यसूक्तिरनघा तव मञ्जुनादैः ॥६०॥ ४४०॥

गर्भोपलैर्गमनवेगवशाद्विलोलै-
र्वाचालिता मधुभिदो मणिपादुके त्वम् ।
प्रस्तौषि भावितधियां पथि देवयाने
प्रस्थानमङ्गलमृदङ्गविशेषघोषम् ॥६१॥ ४४१॥

पर्यङ्कमाश्रितवतो मणिपादुके त्वं
पादं विहाय परिकल्पितमौनमुद्रा ।
श्रोतुं प्रभोरवसरं दिशसीव मात-
र्नाभीसरोजशयितार्भकसामगीतिम् ॥६२॥ ४४२॥

भोगाय देवि भवती मणिपादरक्षे
पद्मासहायमधिरोप्य भुजङ्गतल्पे ।
विश्वस्य गुप्तिमधिकृत्य विहारहीना
वाचंयमा किमपि चिन्तयतीव कार्यम् ॥६३॥ ४४३॥

नित्यप्रबोधसुभगे पुरुषे परस्मिन्
निद्रामुपेयुषि तदेकविहारशीला ।
मञ्जुस्वनं विजहती मणिपादुके त्वं
संवेशमिच्छसि परं चरणान्तिकस्था ॥६४॥ ४४४॥

लास्यं विहाय किमपि स्थितमाश्रयन्ती
रङ्गेश्वरेण सहिता मणिमण्डपेषु ।
मञ्जुस्वनेषु विरतेष्वपि विश्वमेत-
न्मौनेन हन्त भवती मुखरीकरोति ॥६५॥ ४४५॥

विस्मापितेव भवती मणिपादरक्षे
वैरोचनेर्वितरणेन तथाविधेन ।
एतावताऽलमिति देवि गृहीतपादा
नाथं त्रिविक्रममवारयतेव नादैः ॥६६॥ ४४६॥

सामानि रङ्गनृपतिः सरसं च गीतं
लीलागतेषु विनिवारयति स्वतन्त्रः ।
श्रोतुं तव श्रुतिसुखानि विशेषवेदी
मञ्जूनि काञ्चनपदावनि शिञ्जितानि ॥६७॥ ४४७॥

तत्तादृशीं प्रथयता रुचिरां स्वरेखां
वर्णाधिकेन मधुसूदनपादरक्षे ।
पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो
मञ्जुस्वनेन तव नैगमिकं सुवर्णम् ॥६८॥ ४४८॥

मुग्धस्य हन्त भवतीं स्तुवतो ममैता-
न्याकर्ण्य नूनमयथायथ जथल्पितानि ।
इत्थं वद त्वमिति शिक्षयितुं प्रणादान्
मञ्जूनुदीरयसि माधवपादुके त्वम् ॥६९॥ ४४९॥

आदौ सहस्रमिति यत्सहसा मयोक्तं
तूष्टूषता निरवधिं महिमार्णवं ते ।
आम्रेडयस्यथ किमेतदमृष्यमाणा
मञ्जुस्वनेन मधुजिन्मणिपादुके त्वम् ॥७०॥ ४५०॥

परिमितपरिबर्हं पादुके सञ्चरिष्णौ
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
नियमयति विपञ्चीं नित्यमेकान्तसेवी
निशमयितुमुदारान्नारदस्ते निनादान् ॥७१॥ ४५१॥

विहरति विशिखायां रङ्गनाथे सलीलं
गमनवशविलोलैर्गर्भरत्नैः क्वणन्त्याः ।
मणिवलयनिनादैर्मञ्जुलैस्ते दिशन्ति
प्रतिवचनमुदारं पादुके पौरनार्यः ॥७२॥ ४५२॥

अनुकृतसवनीयस्तोत्रशस्त्रां निनादै-
रनुगतनिगमां त्वामास्थितो रङ्गनाथः ।
अनितरविबुधार्हं हव्यमास्वादयिष्यन्
विशति चरणरक्षे यज्ञवाटं द्विजानाम् ॥७३॥ ४५३॥

चरणकमलमेतद्रङ्गनाथस्य नित्यं
शरणमिति जनानां दर्शयन्ती यथावत् ।
प्रतिपदमपि हृद्यं पादुके स्वादुभावा-
दनुवदति परं ते नादमाम्नायपङ्क्तिः ॥७४॥ ४५४॥

रहितभुजगतल्पे त्वत्सनाथे प्रजानां
प्रतिभयशमनाय प्रस्थिते रङ्गनाथे ।
प्रथममुदयमानः पादुके तूर्यघोषा-
त्प्रतिफलति निनादः पाञ्चाजन्ये त्वदीयः ॥७५॥ ४५५॥

वकुलधरतनुस्त्वं संहितां यामपश्यः
श्रुतिपरिषदि तस्याः सौरभं योजयन्ति ।
हरिचरणसरोजामोदसम्मोदितायाः
प्रतिपदरमणीयाः पादुके ते निनादाः ॥७६॥ ४५६॥

दनुतनयनिहन्तुर्जैत्रयात्रानुकूले
शरदुपगमकाले सह्यजामापतन्ति ।
श्रुतिमधुरमुदारं शिक्षितुं ते निनादं
परिहृतनिजवासाः पादुके राजहंसाः ॥७७॥ ४५७॥

विहरणसमयेषु प्रत्यहं रङ्गभर्तु-
श्चरणनखमयूखैः सोत्तरीया विशुद्धैः ।
परिणमयसि नादं पादुके गर्भरत्नै-
र्दमयितुमिव शिष्यान् दीर्घिकाराजहंसान् ॥७८॥ ४५८॥

परिषदि विरतायां पादुके रङ्गभर्तुः
परिजनमपवार्य प्रस्थितस्यावरोधान् ।
मणिनिकरसमुद्यन्मञ्जुनादापदेशा-
दभिलपसि यथार्हं नूनमालोकशब्दम् ॥७९॥ ४५९॥

गुरुजननियतं तद्गोपिकानां सहस्रं
दिनकरतनयायाः सैकते दिव्यगोपः ।
वशमनयदयत्नाद्वंशनादानुयातै-
स्तव खलु पदरक्षे तादृशैर्मञ्जुनादैः ॥८०॥ ४६०॥

निजपदविनिवेशान्निर्विशेषप्रचारान्
परिणमयति भक्तान् रङ्गनाथो यथा माम् ।
इति विहरणकाले मञ्जुशिञ्जाविशेषै-
र्हितमुपदिशसीव प्राणिनां पादुके त्वम् ॥८१॥ ४६१॥

अयमयमिति तैस्तैः कल्पितानध्वभेदान्
प्रतिपदमवलोक्य प्राणिनां व्याकुलानाम् ।
चटुलमणिकलापैः शौरिपादावनि त्वं
मुखरयसि विहारैर्मुक्तिघण्टापथाग्र्यम् ॥८२॥ ४६२॥

पदकमलमुदारं दर्शयन्ती मुरारेः
कलमधुरनिनादा गर्भरत्नैर्विलोलैः ।
विषमविषयतृष्णाव्याकुलानि प्रजाना-
मभिमुखयसि नूनं पादुके मानसानि ॥८३॥ ४६३॥

मधुरिपुपदरक्षे मन्दबुद्धौ मयि त्वा-
मनवधिमहिमानं त्वत्प्रसादात् स्तुवाने ।
मणिनिकरसमुत्थैर्मञ्जुनादैः कवीना-
मुपरमयसि तांस्तान्नूनमुत्सेकवादान् ॥८४॥ ४६४॥

शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे
सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् ।
प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वै-
रलमलमिति नूनं वारयस्यादरेण ॥८५॥ ४६५॥

विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं
विलपति मयि मोहाद्बिभ्रती शौरिपादम् ।
परिसरमधिगन्तुं पश्य पादावनि त्वं
प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः ॥८६॥ ४६६॥

करणविगमकाले कालहुङ्कारशङ्की
द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् ।
परिणमयतु कर्णे रङ्गनाथः स्वयं नः
प्रणवमिव भवत्याः पादुके मञ्जुनादम् ॥८७॥ ४६७॥

कमलवनसखीं तां कौमुदीमुद्वहन्तं
सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् ।
प्रलयदिनसमुत्थान्पादुके मामकीनान्
प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः ॥८८॥ ४६८॥

प्रशमयतु भयं नः पश्चिमश्वासकाले
रहसि विहरणं ते रङ्गनाथेन सार्धम् ।
नियतमनुविधत्ते पादुके यन्निनादो
निखिलभुवनरक्शाघोषणाघोषलीलाम् ॥८९॥ ४६९॥

त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं
गतवति हृदि मोहं गच्छता जीवितेन ।
परिकलयतु बोधं पादुके शिञ्जितं ते
त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम् ॥९०॥ ४७०॥

उपघ्नं संवित्तेरुपनिषदुपोद्धातवचनं
तव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् ।
विजृम्भन्ते नूनं मधुमथनपादावनि मम
द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः ॥९१॥ ४७१॥

विलासैः क्रीणन्तो निखिलजनचेतांसि विविधा
विहारास्ते रङ्गक्षितिरमणपादावनि मुहुः ।
विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला-
खलात्कारव्याजक्षरदमृतधाराधमनयः ॥९२॥ ४७२॥

श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां
भजेम त्वां पद्मारमणचरणत्रायिणि परम् ।
न मुद्रानिद्राणद्रविणकणविश्राणनदशा-
विशालाहङ्कारं कमपि घनहुङ्कारपरुषम् ॥९३॥ ४७३॥

तवैतच्छ्रीरङ्गक्षितिपतिपदत्रायिणि नृणां
भवत्यागश्चिन्तारणरणकभङ्गाय रणितम् ।
शरीरे स्वं भावं प्रथयति यदाकर्णनवशा-
न्न नः कर्णे भावी यममहिषघन्टाघणघणः ॥९४॥ ४७४॥

परित्रस्ताः पुण्यद्रवपतनवेगात्प्रथमतः
क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि तदा ।
विदामासुर्देवा बलिमथनसंरम्भमनघैः
प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः ॥९५॥ ४७५॥

स्वेषु स्वेषु पदेषु किं नियमयस्यष्टौ दिशामीश्वरान्
स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया ।
रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहं
मा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके ॥९६॥ ४७६॥

रङ्गे देवि रथाङ्गपाणिचरणस्वच्छन्दलीलासखि
स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् ।
कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी-
दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम् ॥९७॥ ४७७॥

त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा
मातर्माधवपादुके बहुविदां प्रायः श्रुतिर्मुह्यति ।
सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभि-
र्ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः ॥९८॥ ४७८॥

तवाम्ब किल खेलतां गतिवशेन गर्भाश्मनां
रमारमणपादुके किमपि मञ्जुभिः शिञ्जितैः ।
पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः
सयूथ्यकलहायितं श्रुतिशतं समापद्यते ॥९९॥ ४७९॥

क्षिपति मणिपादरक्षे नादैर्नूनं समाश्रितत्राणे ।
रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविलम्बम् ॥१००॥ ४८०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
नादपद्धतिश्चतुर्दशी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP