द्वन्द्वपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम् ॥१॥ ७६१॥
मणिपादुकयोर्युगं मुरारेर्मयि नित्यं विदधातु मङ्गलानि ।
अधिकृत्य चराचरस्य रक्शामानुकम्पाक्षमयोरिवावतारः ॥२॥ ७६२॥
चरणौ मणिपादुके मुरारेः प्रणतान्पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां प्रतिकारं युवयोर्द्वयं प्रतीमः ॥३॥ ७६३॥
मुरभिन्मणिपादुके भवत्योर्विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणामविरोधाय सुरासुरेश्वराणाम् ॥४॥ ७६४॥
अहितोन्मथनाय संश्रितानामलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ मधुहन्तुः पदयोश्च पादुके ये ॥५॥ ७६५॥
अवधीरितसाधुपद्धतीनामलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं प्रतिपन्ने इव दैवपौरुषे नः ॥६॥ ७६६॥
पार्श्वयोः सरसिजावसुन्धरे पादयोश्च मणिपादुके युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः किं करिष्यति कृतागसां गणः ॥७॥ ७६७॥
पादुके भवभयप्रतीपयोर्भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे विद्ययोरिव परावरात्मनोः ॥८॥ ७६८॥
रङ्गसीमनि रथाङ्गलक्ष्मणश्चिन्तयामि तपनीयपादुके ।
शापदोषशमनाय तत्पदे चक्रवाकमिथुनं कृतास्पदम् ॥९॥ ७६९॥
मानयामि जगतस्तमोपहे माधवस्य मणिपादुके युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः ॥१०॥ ७७०॥
रङ्गनाथपदयोरलङ्क्रिया राजते कनकपादुकाद्वयी ।
तद्विभूतियुगलीव तादृशी छन्दतः समविभागमाश्रिता ॥११॥ ७७१॥
साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्याम्-
आज्ञां श्रुतिस्मृतिमयीमवधारयामि ॥१२॥ ७७२॥
विश्वोपकारमधिकृत्य विहारकाले-
ष्वन्योन्यतः प्रथममेव्परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम् ॥१३॥ ७७३॥
द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधास्थितवती मणिपादुके त्वम् ।
यत्रैव दर्शयति देवि सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा ॥१४॥ ७७४॥
पर्यायतो गतिवशान्मणिपादरक्षे
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये ॥१५॥ ७७५॥
अश्रान्तसञ्चरणयोर्निजसंप्रयोगा-
दम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे
विद्ये बलामतिबलां च विचिन्तयामि ॥१६॥ ७७६॥
अन्तर्मोहादविदितवतामात्मतत्त्वं यथाव-
त्पद्यामित्थं परिचितवतां पादुके पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथपादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः ॥१७॥ ७७७॥
न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्यो-
राम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः ॥१८॥ ७७८॥
अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
संप्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः ॥१९॥ ७७९॥
बद्धहरिपादयुगलं युगलं तपनीयपादुके युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयशृङ्खलायुगलम् ॥२०॥ ७८०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
द्वन्द्वपद्धतिश्चतुर्विशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP