संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
मरकतपद्धतिः

मरकतपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥१॥ ६६१॥

सविलासगतेषु रङ्गभर्तु-
स्त्वदधीनेषु बहिष्कृतो गरुत्मान् ।
अधिगच्छति निर्वृतिं कथञ्चि-
न्निजरत्नैस्त्वयि पादुके निविष्टैः ॥२॥ ६६२॥

समये मणिपादुके मुरारे-
र्मुहुरन्तःपुरमुग्धचेटिकास्ते ।
हरितान् हरिदश्मनां मयूखां-
स्तुलसीपल्लवशङ्कया क्षिपन्ति ॥३॥ ६६३॥

हरितः सहसा हरिन्मणीनां
प्रभया रङ्गनरेन्द्रपादरक्षे ।
तुलसीदलसम्पदं दधाति
त्वयि भक्तैर्निहितः प्रसूनराशिः ॥४॥ ६६४॥

प्रसादयन्ती मणिपादुके त्वं
विक्षेपयोगेन विहारवेलाम् ।
हरिन्मनोज्ञा हरिकान्तिसिन्धोः
सन्दृश्यसे शैवलमञ्जरीव ॥५॥ ६६५॥

बध्नासि रङ्गेश्वरपादरक्षे
हरिन्मणीनां प्रभया स्फुरन्त्या ।
चूडापदेषु श्रुतिसुन्दरीणां
माङ्गल्यदूर्वाङ्कुरमाल्यपङ्क्तिम् ॥६॥ ६६६॥

अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः
सद्वर्त्मना गतिमती मणिपादरक्षे ।
सन्दृश्यसे सवितृमण्डलमध्यभाजो
रङ्गेश्वरस्य रथसम्पदिवापरा त्वम् ॥७॥ ६६७॥

श्यामायमाननिगमान्तवनोपकण्ठाः
स्थाने पदावनि हरिन्मणयस्त्वदीयाः ।
पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं
नारायणस्य रुचिरां नखरश्मिगङ्गाम् ॥८॥ ६६८॥

उद्दिश्य कामपि गतिं मणिपादरक्षे
रङ्गेश्वरस्य चरणे विनिवेशितात्मा ।
प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा
प्रादुष्करोति भवती तुलसीवनानि ॥९॥ ६६९॥

सेवार्थमागतवतां त्रिदशेश्वराणां
चूडामणिप्रकरशालिषु मौलिषु त्वम् ।
संवर्तयस्यसुरमर्दनपादरक्षे
स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम् ॥१०॥ ६७०॥

दरपरिणतदूर्वावल्लरीनिर्विशेषै-
र्मरकतशकलानां मांसलैरंशुजालैः ।
पशुपतिविधृता त्वं तस्य पाणौ निषण्णं
मधुरिपुपदरक्षे वञ्चयस्येणशावम् ॥११॥ ६७१॥

हरिचरणसरोजन्यासयोग्यं भवत्याः
प्रगुणमभिलषन्त्यो वर्णलाभं तुलस्यः ।
प्रतिदिनमुपहारैः पादुके तावकानां
मरतकशकलानामाश्रयन्ते मयूखान् ॥१२॥ ६७२॥

हरितमणिमयूखैरञ्चिताध्यात्मगन्धै-
र्दिशसि चरणरक्षे जातकौतूहला त्वम् ।
दनुजमथनलीलादारिकाणामुदारां
दमनकदलपङ्क्तिं देवि मौलौ श्रुतीनाम् ॥१३॥ ६७३॥

अधिगतबहुशाखैरश्मगर्भप्रसूतै-
र्मधुरिपुपदरक्षे मेचकैरंशुजालैः ।
अनितरशरणानां नूनमारण्यकानां
किमपि जनयसि त्वं कीचकारण्यदुर्गम् ॥१४॥ ६७४॥

प्रचुरनिगमशाखां पादुके रङ्गिणस्त्वां
चरणनखमयूखैश्चारुपुष्पानुबन्धाम् ।
मरतकदलरम्यां मन्महे सञ्जरन्तीं
कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम् ॥१५॥ ६७५॥

नखकिरणनिकायैर्नित्यमाविर्मृणाले
महितरसविशेषे मेचकैरंशुभिस्ते ।
परिकलयसि रम्यां पादुके रङ्गभर्तुः
पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम् ॥१६॥ ६७६॥

अनिमिषयुवतीनामार्तनादोपशान्त्यै
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
दधति चरणरक्षे दैत्यसौधानि नूनं
मरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि ॥१७॥ ६७७॥

विपुलतममहोभिर्वीतदोषानुषङ्गं
विलसदुपरिनैल्यं देवि विष्णोः पदं तत् ।
पृथुमरकतदृश्यां प्राप्य पादावनि त्वां
प्रकटयति समन्तात् संप्रयोगं हरिद्भिः ॥१८॥ ६७८॥

पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना
यत्संसर्गादनघचरिताः पादुके कामचाराः ।
तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्यो
नित्यश्यामास्तव मरतकैर्नूनमाम्नायवाचः ॥१९॥ ६७९॥

स्थलकमलीनीव काचिच्चरणावनि भासि कमलवासिन्याः ।
यन्मरतकदलमध्ये यः कश्चिदसौ समीक्ष्यते शौरिः ॥२०॥ ६८०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
मरतकपद्धतिरेकोनविंशी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP