संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| वन्दिवैतालिकपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः वन्दिवैतालिकपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन वन्दिवैतालिकपद्धतिः Translation - भाषांतर नमस्ते पादुके पुंसां संसारार्णवसेतवे ।यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥१॥ २४१॥उचितमुपचरिष्यन् रङ्गनाथ प्रभातेविधिंशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् ।चरणकमलसेवासौख्यसाम्राज्यभाजांप्रथमविहितभागां पादुकामाद्रियेथाः ॥२॥ २४२॥पद्माजुष्टं भजतु चरणं पादुका लब्धवाराप्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः ।अर्धोन्मेषादधिकसुभगामर्धनिद्रानुषङ्गांनाभीपद्मे तव नयनयोर्नाथ पश्यन्तु शोभाम् ॥३॥ २४३॥उपनमति मुहूर्तं शेषसिद्धान्तसिद्धंतदिह चरणरक्षा रङ्गनाथ त्वयैषा ।मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वै-रुपदिशतु जनानामुत्सवारम्भवार्ताम् ॥४॥ २४४॥रङ्गाधीश मरुद्गणस्य मकुटादाम्नायवृन्दस्य वाप्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः ।वाहारोहणसम्भृतं श्रमभरं सम्यग्विनेतुं क्षमालीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका ॥५॥ २४५॥वृत्तं क्रमेण बहुधा नियुतं विधीना-मर्धं द्वितीयमिदमङ्कुरितं तवाह्नः ।नीलासखीभिरुपनीय निवेश्यमानामङ्क्तुं प्रभो त्वरयते मणिपादुका त्वाम् ॥६॥ २४६॥दिव्याप्सरोभिरुपदर्शितदीपवर्गेरङ्गाधिराज सुभगे रजनीमुखेऽस्मिन् ।संरक्षिणी चरणयोः सविलासवृत्ति-नीराजनासनमसौ नयतु स्वयं त्वाम् ॥७॥ २४७॥आसनादुचितमासनान्तरं रङ्गनाथ यदि गन्तुमीहसे ।सन्नतेन विधिना समर्पितां सप्रसादमधिरोह पादुकाम् ॥८॥ २४८॥परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वांप्रणमति मदनोऽयं देव शुद्धान्तदासः ।फणिपतिशयनीयं प्रापयित्री सलीलंपदकमलमियं ते पादुका पर्युपास्ताम् ॥९॥ २४९॥इति निगमवन्दिवचसा समये समये गृहीतसङ्केतः ।अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके भवतीम् ॥१०॥ २५०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेवैतालिकपद्धतिर्नवमी ॥१०. शृङ्गारपद्धतिः (१०)शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥१॥ २५१॥प्रणतत्रिदशेन्द्रमौलिमालामकरन्दार्द्रपरागपङ्किलेन ।अनुलिम्पति पादुके स्वयं त्वामनुरूपेण पदेन रङ्गनाथ ॥२॥ २५२॥अवदातहिमांशुकानुषक्तंपदरक्षे त्वयि रङ्गिणः कदाचित् ।किमपि स्थितमद्वितीयमाल्यंविरलावस्थितमौक्तिकं स्मरामि ॥३॥ २५३॥असहायगृहीतरङ्गनाथामवरोधाङ्गणसीम्नि पादुके त्वाम् ।सुदृशः स्वयमर्चयन्ति दूरादवतंसोत्पलवासितैरपाङ्गैः ॥४॥ २५४॥निर्विश्यमानमपि नूतनसन्निवेशंकैवल्यकल्पितविभूशणकायकान्तिम् ।कालेषु निर्विशसि रङ्गयुवानमेकाशृङ्गारनित्यरसिकं मणिपादरक्षे ॥५॥ २५५॥निद्रायितस्य कमितुर्मणिपादुके त्वंपर्यङ्किकापरिसरं प्रतिपद्यमाना ।श्वासानिलप्रचलितेन भजस्यभीक्ष्णंनाभीसरोजरजसा नवमङ्गरागम् ॥६॥ २५६॥शयितवति रजन्यां पादुके रङ्गबन्धौचरणकमलपार्श्वे सादरं वर्तसे त्वम् ।फणिपतिशयनीयादुत्थितस्य प्रभातेप्रथमनयनपातं पावनं प्राप्तुकामा ॥७॥ २५७॥चरणकमलसङ्गाद्रङ्गनाथस्य नित्यंनिगमपरिमलं त्वं पादुके निर्वमन्ती ।नियतमतिशयाना वर्तसे सावरोधंहृदयमधिवसन्तीं मालिकां वैजयन्तीम् ॥८॥ २५८॥उपनिषदबलाभिर्नित्यमुत्तंसनीयंकिमपि जलधिकन्याहस्तसंवाहनार्हम् ।तव तु चरणरक्षे देवि लीलारविन्दंचरणसरसिजं तच्चारु चाणूरहन्तुः ॥९॥ २५९॥अखिलान्तःपुरवारेष्वनेकवारं पदावनि स्वैरम् ।अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥१०॥ २६०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेशृङ्गारपद्धतिर्दशमी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP