वन्दिवैतालिकपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
नमस्ते पादुके पुंसां संसारार्णवसेतवे ।
यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥१॥ २४१॥
उचितमुपचरिष्यन् रङ्गनाथ प्रभाते
विधिंशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् ।
चरणकमलसेवासौख्यसाम्राज्यभाजां
प्रथमविहितभागां पादुकामाद्रियेथाः ॥२॥ २४२॥
पद्माजुष्टं भजतु चरणं पादुका लब्धवारा
प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः ।
अर्धोन्मेषादधिकसुभगामर्धनिद्रानुषङ्गां
नाभीपद्मे तव नयनयोर्नाथ पश्यन्तु शोभाम् ॥३॥ २४३॥
उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं
तदिह चरणरक्षा रङ्गनाथ त्वयैषा ।
मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वै-
रुपदिशतु जनानामुत्सवारम्भवार्ताम् ॥४॥ २४४॥
रङ्गाधीश मरुद्गणस्य मकुटादाम्नायवृन्दस्य वा
प्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः ।
वाहारोहणसम्भृतं श्रमभरं सम्यग्विनेतुं क्षमा
लीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका ॥५॥ २४५॥
वृत्तं क्रमेण बहुधा नियुतं विधीना-
मर्धं द्वितीयमिदमङ्कुरितं तवाह्नः ।
नीलासखीभिरुपनीय निवेश्यमाना
मङ्क्तुं प्रभो त्वरयते मणिपादुका त्वाम् ॥६॥ २४६॥
दिव्याप्सरोभिरुपदर्शितदीपवर्गे
रङ्गाधिराज सुभगे रजनीमुखेऽस्मिन् ।
संरक्षिणी चरणयोः सविलासवृत्ति-
नीराजनासनमसौ नयतु स्वयं त्वाम् ॥७॥ २४७॥
आसनादुचितमासनान्तरं रङ्गनाथ यदि गन्तुमीहसे ।
सन्नतेन विधिना समर्पितां सप्रसादमधिरोह पादुकाम् ॥८॥ २४८॥
परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां
प्रणमति मदनोऽयं देव शुद्धान्तदासः ।
फणिपतिशयनीयं प्रापयित्री सलीलं
पदकमलमियं ते पादुका पर्युपास्ताम् ॥९॥ २४९॥
इति निगमवन्दिवचसा समये समये गृहीतसङ्केतः ।
अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके भवतीम् ॥१०॥ २५०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
वैतालिकपद्धतिर्नवमी ॥
१०. शृङ्गारपद्धतिः (१०)
शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥१॥ २५१॥
प्रणतत्रिदशेन्द्रमौलिमालामकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके स्वयं त्वामनुरूपेण पदेन रङ्गनाथ ॥२॥ २५२॥
अवदातहिमांशुकानुषक्तं
पदरक्षे त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं
विरलावस्थितमौक्तिकं स्मरामि ॥३॥ २५३॥
असहायगृहीतरङ्गनाथामवरोधाङ्गणसीम्नि पादुके त्वाम् ।
सुदृशः स्वयमर्चयन्ति दूरादवतंसोत्पलवासितैरपाङ्गैः ॥४॥ २५४॥
निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूशणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानमेका
शृङ्गारनित्यरसिकं मणिपादरक्षे ॥५॥ २५५॥
निद्रायितस्य कमितुर्मणिपादुके त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥६॥ २५६॥
शयितवति रजन्यां पादुके रङ्गबन्धौ
चरणकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा ॥७॥ २५७॥
चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमलं त्वं पादुके निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम् ॥८॥ २५८॥
उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥९॥ २५९॥
अखिलान्तःपुरवारेष्वनेकवारं पदावनि स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥१०॥ २६०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
शृङ्गारपद्धतिर्दशमी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP