संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| समर्पणपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः समर्पणपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन समर्पणपद्धतिः Translation - भाषांतर भजामः पादुके याभ्यां भरतस्याग्रजस्तदा ।प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत् ॥१॥ १०१॥राज्यं विहाय रघुवंशमहीपतीनांपौरांश्च पादरसिकान्पृथिवीं च रक्ताम् ।त्वामेव हन्त चरणावनि संप्रयास्यन्आलम्बत प्रथममुत्तरकोसलेन्द्रः ॥२॥ १०२॥प्राप्ते प्रयाणसमये मणिपादरक्षेपौरानवेक्ष्य भवती करुणप्रलापान् ।मञ्जुप्रणादमुखरा विनिवर्तनार्थंरामं पदग्रहणपूर्वमयाचतेव ॥३॥ १०३॥मत्वा तृणाय भरतो मणिपादरक्षे रामेण तां विरहितां रघुराजधानीम् ।त्वामेव सप्रणयमुज्जयिनीमवन्तींमेने महोदयमयीं मधुरामयोध्याम् ॥४॥ १०४॥रामात्मनः प्रतिपदं मणिपादरक्षेविश्वम्भरस्य वहनेन परीक्षितां त्वाम् ।विश्वस्य देवि वहने विनिवेशयिष्यन्विस्रब्ध एवं भरतो भवतीं ययाचे ॥५॥ १०५॥भक्त्या परं भवतु तद्भरतस्य साधो-स्त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे ।केनाशयेन स मुनिः परमार्थदर्शीभद्राय देवि जगतां भवतीमवादीत् ॥६॥ १०६॥रामे वनं व्रजति पङ्क्तिरथे प्रसुप्तेराज्यापवादचकिते भरते तदानीम् ।आश्वासयेत् क इव कोसलवासिनस्तान्सीतेव चेत् त्वमपि साहसवृत्तिरासीः ॥७॥ १०७॥पादावनि प्रभवतो जगतां त्रयाणांरामादपि त्वमधिका नियतं प्रभावात् ।नो चेत् कथन्नु भरतस्य तमेव लिप्सोःप्रत्यायनं परिपणं भवती भवित्री ॥८॥ १०८॥मन्ये नियुज्य भवतीं मणिपादरक्षेपार्ष्णिग्रहस्य भरतस्य निवर्तनार्थम् ।रत्नाकरं सपदि गोष्पदयन् विजिग्येरामः क्षणेन रजनीचरराजधानीम् ॥९॥ १०९॥पादावनि प्रभुतरानपराधवर्गान्सोढुं क्षमा त्वमसि मूर्तिमती क्षमैव । यत् त्वां विहाय निहताः परिपन्थिनस्तेदेवेन दाशरथिना दशकण्ठमुख्याः ॥१०॥ ११०॥वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्यामातुर्मनोरथमशेषमवन्ध्ययिष्यन् ।मन्ये तदा रघुपतिर्भरतस्य तेनेमातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम् ॥११॥ १११॥पादाम्बुजाद्विगलितां परमस्य पुंस-स्त्वामादरेण विनिवेश्य जटाकलापे ।अङ्गीचकार भरतो मणिपादरक्षेगङ्गाधिरूढशिरसो गिरिशस्य कान्तिम् ॥१२॥ ११२॥अविकलमधिकर्तुं रक्षणे सप्तलोक्यारघुपतिचरणेन न्यस्तदिव्यानुभावाम् ।अभजत भरतस्त्वामञ्जसा पादरक्षेमणिमकुटनिवेशत्यागधन्येन मूर्ध्ना ॥१३॥ ११३॥इयमविकलयोगक्षेमसिद्ध्यै प्रजाना-मलमिति भरतेन प्रार्थितामादरेण ।रघुपतिरधिरोहन्नभ्यशिञ्चत् स्वयं त्वांचरणनखमणीनां चन्द्रिकानिर्झरेण ॥१४॥ ११४॥प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वांविधिसुतकथितं तद्वैभवं ते विदन्तः ।अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारेरघुपतिपदरक्षे रामगिर्याश्रमस्थाः ॥१५॥ ११५॥नियतमधिरुरोह त्वामनाधेयशक्तिंनिजचरणसरोजे शक्तिमाधातुकामः ।स कथमितरथा त्वां न्यस्य रामो विजह्रेदृषदुपचितभूमौ दण्डकारण्यभागे ॥१६॥ ११६॥रघुपतिपदपद्माद्रन्तपीठे निवेष्टुंभरतशिरसि लग्नां प्रेक्ष्य पादावनि त्वाम् ।परिणतपुरुषार्थः पौरवर्गः स्वयं तेविधिमभजत सर्वो वन्दिवैतालिकानाम् ॥१७॥ ११७॥अनन्यराजन्यनिदेशनिष्ठांचकार पृथ्वीं चतुरर्णवान्ताम् ।भ्रातुर्यियासोर्भरतस्तदा त्वांमूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम् ॥१८॥ ११८॥यद्भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषानित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् ।योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिःपादत्राणमिदं मितम्पचकथामह्नाय मे निह्नुताम् ॥१९॥ ११९॥भरतस्येव ममापि प्रशमितविश्वापवाददुर्जाता ।शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके भवती ॥२०॥ १२०॥इति कवितार्त्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेसमर्पणपद्धतिश्चतुर्थी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP