संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
अभिषेकपद्धतिः

अभिषेकपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


पाहि नः पादुके यस्या विधास्यन्नभिषेचनम् ।
आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥१॥ १८१॥

राघवस्य चरणौ पदावनि प्रेक्षितुं त्वदभिषेकमीषतुः ।
आभिषेचनिकभाण्डसन्निधौ यत्प्रदक्षिणगतिः शनैर्ययौ ॥२॥ १८२॥

मूर्धाभिषिक्तैर्नियमेन वाह्यौ
विचिन्त्य नूनं रघुनाथपादौ ।
रत्नासनस्थां मणिपादुके त्वां
रामानुजन्मा भरतोऽभ्यषिञ्चत् ॥३॥ १८३॥

भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् ।
रामानुजौ तौ ननु पारतन्त्र्यादुभावुभाभ्यां भवती जिगाय ॥४॥ १८४॥

निवेश्य रङ्गेश्वरपादरक्षे भद्रासने सादरमभ्यशिञ्चत् ।
वशी वसिष्ठो मनुवंशजानां महीक्षितां वंशपुरोहितस्त्वाम् ॥५॥ १८५॥

कृताभिषेका भवती यथावत् रङ्गेशपादावनि रत्नपीठे ।
गङ्गानिपातस्नपितां सुमेरोरधित्यकाभूमिमधश्चकार ॥६॥ १८६॥

वसिष्ठमुख्यैर्विहितभिषेकां राज्यासने रामनिवेशयोग्ये ।
तुष्टाव रङ्गेश्वरपादरक्षे प्राचेतसस्त्वां प्रथमः कवीनाम् ॥७॥ १८७॥

रक्षोवधार्थं मणिपादरक्षे रामात्मनो रङ्गपतेः प्रवासे ।
रक्षोऽपकाराद्भवती वितेने राजन्वतीं कोसलराजधानीम् ॥८॥ १८८॥

प्राप्ताभिषेका मणिपादरक्षे प्रतापमुग्रं प्रतिपद्यमाना ।
शशास पृथ्वीं भवती यथावत्साकेतसिंहासनसार्वभौमी ॥९॥ १८९॥

दशाननादीन्मणिपादरक्षे जिगीषतो दाशरथेर्वियोगात् ।
जातोपतापा त्वयि संप्रयुक्तैस्तीर्थोदकैरुच्छ्वसिता धरित्री ॥१०॥ १९०॥

अध्यासितं मनुमुखैःक्रमशोनरेन्द्रै-
रारोप्य देवि भवतीं तपनीयपीठम् ।
राज्याभिषेकमनघं मणिपादरक्षे
रामोचितं तव वशं भरतो वितेने ॥११॥ १९१॥

स्नेहेन देवि भवतीं विषयेऽभिषिञ्चन्
द्विस्सप्तसङ्ख्यभुवनोदरदीपरेखाम् ।
जातं रघूद्वहदिवाकरविप्रयोगा-
दन्धं तमिस्रमहरद्भरतः प्रजानाम् ॥१२॥ १९२॥

हस्तापचेयपुरुषार्थफलप्रसूते
र्मूलं पदावनि मुकुन्दमहीरुहस्त्वम् ।
छायाविशेषमदिशद्यदसौ प्रजाना-
मावर्जितैस्त्वयि शुभैरभिषेकतोयैः ॥१३॥ १९३॥

अह्नाय रामविरहात्परिखिन्नवृत्ते-
राश्वासनाय भवती मणिपादरक्षे ।
तीर्थाभिषेकमपदिश्य वसुन्धराया-
श्चक्रे तदा समुचितं शिशिरोपचारम् ॥१४॥ १९४॥

मालिन्यमाश्रितवती मणिपादरक्षे
पङ्केन केकयसुताकलहोत्थितेन ।
शुद्धिं परामभिजगाम वसुन्धरेयं
त्वत्तः क्षणान्निपतितैरभिषेकतोयैः ॥१५॥ १९५॥

आवर्जितं मुनिगणेन जगद्विभूत्यै
तोयं पदावनि तदा त्वयि मन्त्रपूतम् ।
मूलावसेकसलिलं निगमद्रुमाणां
शापोदकं च समभूत्क्षणदाचाराणाम् ॥१६॥ १९६॥

विप्रोषिते रघुपतौ भवती यथार्हं
मान्ये पदे स्थितिमती मनुवंशजानाम् ।
आत्मन्यथर्वनिपुणैः प्रहितैः प्रजाना-
मश्रूण्यपास्यदभिषेकजलप्रवाहैः ॥१७॥ १९७॥

प्रायो विशोषितरसा पतिविप्रयोगा-
त्पर्याकुलीकृतसमुद्रपयोधरा गौः ।
अम्ब त्वदियमभिषेकजलं पिबन्ती
धेनुर्बभूव जगतां धनधान्यदोग्ध्री ॥१८॥ १९८॥

वृत्ते यथावदभिषेकविधौ बभासे
पश्चात्तवाम्ब भरतेन धृतः किरीटः ।
आकस्मिकस्वकुलविप्लवशान्तिहर्षा-
त्प्राप्तस्त्विषामिव पतिर्मणिपादुके त्वाम् ॥१९॥ १९९॥

मनुवंशपुरोहितेन मन्त्रै-
रभिमन्त्र्य त्वयि पादुके प्रयुक्तम् ।
अभिषेकजलं क्षणेन राज्ञां
शमयामास समुत्थितान्प्रतापान् ॥२०॥ २००॥

पादपादुपहृता रघूद्वहा-
दालवालमिव पीठमाश्रिता ।
अभ्यषेचि भवती तपोधनैः
पारिजातलतिकेव पादुके ॥२१॥ २०१॥

अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते
दिनकरकुलदैन्यं पादुके क्षालयिष्यन् ।
स खलु कमलयोनेः सूनुराधत्त मन्त्रे-
श्वधिकनियमयोगां शक्तिमाथर्वणेषु ॥२२॥ २०२॥

दिनकरकुलजानां देवि पृथ्वीपतीनां
निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् ।
अजनिषत समस्ताः पादुके तावकीन-
स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः ॥२३॥ २०३॥

तव विधिवदुपात्ते सार्वभौमाभिषेके
भरतसमयविद्भिः पादुके मन्त्रिमुख्यैः ।
त्वदवधि निजकर्मस्थायिनीनां प्रजानां
प्रथमयुगविशेषाः प्रादुरासन् विचित्राः ॥२४॥ २०४॥

अवसितरिपुशब्दा नन्वभूस्त्वं तदानीं
रघुपतिपदरक्षे लब्धराज्याभिषेका ।
चलितभुजलतानां चामरग्राहिणीनां
मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान् ॥२५॥ २०५॥

समुचितमभिषेकं पादुके प्रप्नुवत्यां
त्वयि विनिपतितानां देवि तीर्थोदकानाम् ।
ध्वनिरनुगतमन्त्रः सीदतां कोसलानां
शमयितुमलमासीत् सङ्कुलानार्तनादान् ॥२६॥ २०६॥

दिविषदनुविधेयं देवि राज्याभिषेकं
भरत इव यदि त्वं पादुके नान्वमंस्थाः ।
कथमिव रघुवीरः कल्पयेदल्पयत्न-
स्त्रिचतुरशरपातैस्तादृशं देवकार्यम् ॥२७॥ २०७॥

कतिचन पदपद्मस्पर्शसौख्यं त्यजन्ती
व्रतमतुलमधास्त्वं वत्सरान् सावधाना ।
रघुपतिपदरक्षे राक्षसैस्त्रासितानां
रणरणकविमुक्तं येन राज्यं सुराणाम् ॥२८॥ २०८॥

अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां
वसिष्ठादीनामप्युपचितचमत्कारभरया ।
त्वदास्थान्या रङ्गक्षितिरमणपादावनि तदा
लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः ॥२९॥ २०९॥

अभिषेचयतु स रामः
पदेन वा स्पृशतु पादुके भवतीम् ।
अविशेषितमहिमा त्वं
क्व वा विशेषः क्षमासमेतानाम् ॥३०॥ २१०॥

इति कवितार्त्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कुतिषु श्रीरङ्गनाथपादुकासहस्रे
अभिषेकपद्धतिः सप्तमी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP