संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| काञ्चनपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः काञ्चनपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन काञ्चनपद्धतिः Translation - भाषांतर कल्याणप्रकृतिं वन्देभजन्तीं काञ्चनश्रियम् ।पदार्हां पादुकां शौरेःपद एव निवेशिताम् ॥१॥ ७३१॥मधुजित्तनुकान्तितस्कराणां जलदानामभयंविधातुकामा ।चपलेव तदङ्घ्रिमाश्रयन्ती भवती काञ्चनपादुके विभाति ॥२॥ ७३२॥निकषीकृतरम्यकृष्णरत्ना भवती काञ्चनसम्पदं व्यनक्ति ।परिपुष्यति पादुके यदीक्षा सहसा नः समलोष्टकाञ्चनत्वम् ॥३॥ ७३३॥सुरभिर्निगमैः समग्रकामा कनकोत्कर्षवती पदावनि त्वम् ।दिशसि प्रतिपन्नमाधवश्रीरनिशोन्निद्रमशोकवैभवं नः ॥४॥ ७३४॥सति वर्णगुणे सुवर्णजातेर्जगति रव्यातमसौरभादवर्णम् ।श्रुतिसौरभशालिना स्वहेम्नाभवती शौरिपदावनि व्युदास्थत् ॥५॥ ७३५॥प्रतिपन्नमयूरकण्ठधाम्ना परिशुद्धेन पदावनि स्वकेन ।कमलास्तनभूषणोचितं तद्भवती रत्नमलङ्करोति हेम्ना ॥६॥ ७३६॥कान्त्या परं पुरुषमाप्रणखात् सुवर्णंकर्तुं क्षमा त्वमसि काञ्चनपादरक्षे ।अन्यादृशीं दिशसि या विनतस्य दूरा-दारग्वधस्तबकसम्पदमिन्दुमौलेः ॥७॥ ७३७॥चन्द्राकृतिः कथमकल्पयथास्तदानींवैमानिकप्रणयिनीवदनाम्बुजानाम् ।विक्रान्तिकालविततेन निजेन धाम्नाबालातपं बलिविमर्दनपादुके त्वम् ॥८॥ ७३८॥लेभे तदाप्रभृति नूनमियं भवत्याःकान्त्या कवेरतनया कनकापगात्वम् ।यावन्मुकुन्दपदहेमपदावनि त्वंपुण्यं विभूषितवती पुलिनं तदीयम् ॥९॥ ७३९॥चित्रं सरोजनिलयासहितस्य शौरे-र्वासोचितानि चरणावनि संविधित्सोः ।सद्यो विकासमुपयान्ति समाधिभाजांचन्द्रातपेन तव मानसपङ्कजानि ॥१०॥ ७४०॥त्वय्येव पादमधिरोप्य नवं प्रवाहंनाथे पदावनि निशामयितुं प्रवृत्ते ।आत्मीयकाञ्चनरुचा भवती विधत्तेहेमारविन्दभरितामिव हेमसिन्धुम् ॥११॥ ७४१॥विहरति पुलिनेषु त्वत्सखे रङ्गनाथेकनकसरिदियं ते पादुके हेमधाम्ना ।वहति सलिलकेलीस्रस्तचोलावरोध-स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम् ॥१२॥ ७४२॥सुरभिनिगमगन्धा सौम्यपद्माकरस्थाकनककमलिनीव प्रेक्ष्यसे पादुके त्वम् ।भ्रमर इव सदा त्वां प्राप्तनानाविहारःशतमखमणिनीलः सेवते शार्ङ्गधन्वा ॥१३॥ ७४३॥कनकरुचिरवर्णां पादुके सह्यसिन्धुःश्रियमिव महनीयां सिन्धुराजस्य पत्नी ।स्वयमिह सविधस्था सौम्यजामातृयुक्ता-मुपचरति रसेन त्वामपत्याभिमानात् ॥१४॥ ७४४॥अनुकलमुपजीव्या दृश्यसे निर्जराणांत्रिपुरमथनमौलौ शेखरत्वं दधासि ।प्रतिपदमधिगम्य प्राप्तशृङ्गाऽसि शौरे-स्तदपि चरणरक्षे पूर्णचन्द्राकृतिस्त्वम् ॥१५॥ ७४५॥कनकमपि तृणं ये मन्वते वीतरागा-स्तृणपि कनकं ते जानते त्वत्प्रकाशैः ।मधुरिपुपदरक्षे यत् त्वदर्थोपनीतान्परिणमयसि हैमान् देवि दूर्वाङ्कुरादीन् ॥१६॥ ७४६॥विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनंविदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति ।कथं कनकपादुके कमललोचने साक्षिणित्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते ॥१७॥ ७४७॥तारासङ्गप्रथितविभवां चारुजाम्बूनदाभांत्वामारूधस्त्रिदशमहितां पादुके रङ्गनाथः ।सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायांधत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम् ॥१८॥ ७४८॥कनकरुचिरा काव्याख्याता शनैश्चरणोचिताश्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता ।विहितविभवा नित्यं विष्णोः पदे मणिपादुकेत्वमसि महति विश्वेषां नः शुभा ग्रहमण्डली ॥१९॥ ७४९॥प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः ।आवहतु जातवेदाः श्रियमिव नः पादुके नित्यम् ॥२०॥ ७५०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेकाञ्चनपद्धतिर्द्वाविंशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP