संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
सञ्चारपद्धतिः

सञ्चारपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


``अग्रतस्ते गमिश्यामि मृद्नन्ती कुशकण्टकान्'' ।
इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम् ॥१॥ २६१॥

शरदः शतमम्ब पादुके स्यां
समयाहूतपितामहस्तुतानि ।
मणिमण्टपिकासु रङ्गभर्तु
स्त्वदधीनानि गतागतानि पश्यन् ॥२॥ २६२॥

त्वदधीनपरिक्रमो मुकुन्दस्तदधीनस्तव पादुके विहारः ।
इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः ॥३॥ २६३॥

रजसा तमसा च दुष्टसत्वे
गहने चेतसि मामके मुकुन्दः ।
उचितं मृगयाविहारमिच्छन्
भवतीमादृत पादुके पदाभ्याम् ॥४॥ २६४॥

क्षमया जगतामपि त्रयाणा
मवने देवि पदावनि त्वयैव ।
अभिगम्यतमोऽपि संश्रिताना-
मभिगन्ता भवति स्वयं मुकुन्दः ॥५॥ २६५॥

शिरसा भवतीं दधाति कश्चि-
द्विधृतः कोऽपि पदस्पृशा भवत्या ।
उभयोर्मधुवैरिपादरक्षे त्वदधीनां
गतिमामनन्ति सन्तः ॥६॥ २६६॥

स्पृशतः शिरसा पदेन च त्वां
गतिमुद्दिश्य मुकुन्दपादुके द्वौ ।
अवरोहति पश्चिमः पदात् स्वा-
दधिरोहत्यनघस्तदेव पूर्वः ॥७॥ २६७॥

समयेष्वपदिश्य जैत्रयात्रां विविधान्तःपुरवागुराव्यतीतः ।
नियतं मणिपादुके भवत्या रमते वर्त्मनि रङ्गसार्वभौमः ॥८॥ २६८॥

निजसंहननप्रसक्तलास्यं चरति त्वामधिरुह्य रङ्गनाथः ।
पदरक्षिणि पावनत्वमास्तां रसिकास्वादमतः परं न विद्मः ॥९॥ २६९॥

पदयोरनयोः परस्य पुंस-
स्तदनुग्राह्यविहारपद्धतेर्वा ।
शिरसो मणिपादुके श्रुतीनां
मनसो वा मम भूषणं त्वमेका ॥१०॥ २७०॥

कृपया मधुवैरिपादरक्षे
कठिने चेतसि मामके विहर्तुम् ।
मकुटेषु दिवौकसां विधत्ते
भवती रत्नविसंस्थुलेषु योग्याम् ॥११॥ २७१॥

चरणद्वयमर्भकस्य शौरेः
शरदम्भोरुहचातुरीधुरीणम् ।
शकटासुरताडनेऽपि गुप्तं
तव शक्त्या किल पादुके तदासीत् ॥१२॥ २७२॥

उत्तस्थुषो रङ्गशयस्य शेषादास्थानसिंहासनमारुरुक्षोः ।
मध्येनिशान्तं मणिपादुके त्वां लीलापदन्याससखीं प्रपद्ये ॥१३॥ २७३॥

प्राप्ताधिकाराः पतयः प्रजानामुत्तंसितामुत्तमपादुके त्वाम् ।
रङ्गेशितुः स्वैरविहारकाले संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥१४॥ २७४॥

त्वयाऽनुबद्धां मणिपादरक्षे लीलागतिं रङ्गशयस्य पुंसः ।
निशामयन्तो न पुनर्भजन्ते संसारकान्तारगतागतानि ॥१५॥ २७५॥

व्यूहानुपूर्वीरुचिरान् विहारान्
पदक्रमेण प्रतिपद्यमाना ।
बिभर्षि नित्यं मणिपादुके त्वं
मुरद्विषो मूर्तिरिव त्रिलोकीम् ॥१६॥ २७६॥

पदेषु मन्देषु महत्स्वपि त्वं
नीरन्ध्रसंश्लेषवती मुरारेः ।
प्रत्यायनार्थं किल पादुके नः
स्वाभाविकं दर्शयसि प्रभावम् ॥१७॥ २७७॥

कृपाविशेषात् क्षमया समेतां
प्रवर्तमानां जगतो विभूत्यै ।
अवैमि नित्यं मणिपादुके त्वा-
माकस्मिकीं रङ्गपतेः प्रसत्तिम् ॥१८॥ २७८॥

उपागतानामुपतापशान्त्यै
सुखावगाहां गतिमुद्वहन्तीम् ।
पश्यामि शौरेः पदवाहिनीं त्वां
निम्नेषु तुङ्गेषु च निर्विशेषाम् ॥१९॥ २७९॥

सह प्रयाता सततं प्रयाणे
प्राप्तासने संश्रितपादपीठा ।
अलङ्घनीया सहजेन भूम्ना
छायेव शौरेर्मणिपादुके त्वम् ॥२०॥ २८०॥

पदस्पृशा रङ्गपतिर्भवत्या विचक्रमे विश्वमिदं क्षणेन ।
तदस्य मन्ये मणिपादरक्षे त्वयैव विख्यातमुरुक्रमत्वम् ॥२१॥ २८१॥

सञ्चारयन्ती पदमन्वतिष्ठः सहायकृत्यं मणिपादरक्षे ।
मातस्त्वमेका मनुवंशगोप्तुर्गोपायतो गौतमधर्मादारान् ॥२२॥ २८२॥

त्वत्तस्त्रिविष्टपचरानसपत्नयिष्य-
न्नारुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन ।
शुद्धान्तभूमिषु पुनर्मणिपादरक्षे
विश्राम्यति त्वयि विहारवशेन शौरिः ॥२३॥ २८३॥

विक्रम्य भूमिमखिलां बलिना प्रदिष्टां
देवे पदावनि दिवं परिमातुकामे ।
आसीदतो दिनकरस्य करोपतापा-
त्संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥२४॥ २८४॥

त्वत्सङ्गमान्ननु सकृद्विधिसंप्रयुक्ता
शुद्धिं परामधिजगाम शिवत्वहेतुम् ।
रङ्गाधिराजपदरक्षिणि कीदृशी सा
गङ्गा बभूव भवदीयगतागतेन ॥२५॥ २८५॥

वृद्धिं गवां जनयितुं भजता विहारान्
कृष्णेन रङ्गरसिकेन कृताश्रयायाः ।
सञ्चारतस्तव तदा मणिपादरक्षे
वृन्दावनं सपदि नन्दनतुल्यमासीत् ॥२६॥ २८६॥

मातस्त्रयीमयतया चरणप्रमाणे
द्वे विक्रमेषु विविधेषु सहायभूते ।
नाथस्य साधुपरिरक्षणकर्मणि त्वं
दुष्कृद्विनाशनदशासु विहङ्गराजः ॥२७॥ २८७॥

पादावनि क्वचन विक्रमणे भुजानां
पञ्चायुधी कररुहैर्भजते विकल्पम् ।
नित्यं त्वमेव नियता पदयोर्मुरारे-
स्तेनासि नूनमविकल्पसमाधियोग्या ॥२८॥ २८८॥

अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्ति-
र्मातस्त्वया निरवधिर्निधिरप्रमेयः ।
रथ्यान्तरेषु चरणावनि रङ्गसङ्गी
वात्सल्यनिघ्नमनसा जनसात् कृतोऽसौ ॥२९॥ २८९॥

सम्पद्यते समुचितं क्रममाश्रयन्त्या
सद्वर्त्मना भगवतोऽपि गतिर्भवत्या ।
ईष्टे पदावनि पुनः क इवेतरेषां
व्यावर्तनस्य विषमादपथप्रचारात् ॥३०॥ २९०॥

रङ्गेश्वरेण सह लास्यविशेषभाजो
लीलोचितेषु तव रत्नशिलातलेषु ।
मध्ये स्थितानि कतिचिन्मणिपादरक्षे
सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः ॥३१॥ २९१॥

नित्यं पदावनि निवेश्य पदं भवत्यां
निष्पन्दकल्पपरिमेयपरिच्छदानि ।
श‍ृङ्गारशीतलतराणि भवन्ति काले
रङ्गेश्वरस्य ललितानि गतागतानि ॥३२॥ २९२॥

भोगार्चनानि कृतिभिः परिकल्पितानि
प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः ।
पश्यत्सु नित्यमितरेषु परिच्छदेषु
प्रत्यासनं भजति काञ्चनपादुके त्वाम् ॥३३॥ २९३॥

अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गै-
राविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा ।
न्यस्यन्ति रङ्गरसिकस्य विहारकाले
वारक्रमेण कृतिनो मणिपादुके त्वाम् ॥३४॥ २९४॥

रङ्गेश्वरे समधिरूढविहङ्गराजे
मातङ्गराजविधृतां मणिपादुके त्वाम् ।
अन्वासते विधृतचारुसितातपत्राः
स्वर्गौकसः सुभगचामरलोलहस्ताः ॥३५॥ २९५॥

विष्णोः पदं गतिवशादपरित्यजन्तीं
लोकेषु नित्यविषमेषु समप्रचाराम् ।
अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रै-
र्गङ्गा कथं नु गरुडध्वजपादुके त्वाम् ॥३६॥ २९६॥

भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातु-
र्गुप्त्यै गवां विहरतो वहतश्च दूत्यम् ।
तत्तादृशानि चरणावनि रङ्गभर्तु-
स्त्वत्सङ्गमेन सुभगानि विचेष्टितानि ॥३७॥ २९७॥

निर्व्यज्यमाननवताललयप्रथिम्ना
निर्यन्त्रणेन निजसञ्चरणक्रमेण ।
मृद्नासि रङ्गनृपतेर्मणिपादुके त्वं
दुःखात्मकान्प्रणमतां दुरितप्ररोहान् ॥३८॥ २९८॥

नित्यं य एव जगतो मणिपादरक्षे
सत्तास्थितिप्रयतनेषु परं निदानम् ।
सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः
का वा कथा तदितरेषु मितम्पचेषु ॥३९॥ २९९॥

निर्विष्टनागशयनेन परेण पुंसा
न्यस्ते पदे त्वयि पदावनि लोकहेतोः ।
स्वर्गौकसां त्वदनुधावनतत्पराणां
सद्यः पदानि विपदामपदं भवन्ति ॥४०॥ ३००॥

शरदुपगमकाले सन्त्यजन् योगनिद्रां
शरणमुपगतानां त्राणहेतोः प्रयास्यन् ।
जलधिदुहितुरङ्कान्मन्दमादाय देवि
त्वयि खलु निदधाति स्वं पदं रङ्गनाथः ॥४१॥ ३०१॥

स्पृशसि पदसरोजं पादुके निर्विघातं
प्रविशसि च समस्तां देवि शुद्धान्तकक्ष्याम् ।
अपरमपि मुरारेः पूर्वमाभीरकन्या-
स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम् ॥४२॥ ३०२॥

प्रतिभवनमनन्ये पादुके त्वत्प्रभावा-
द्विविधवपुषि देवे विभ्रमद्यूतकाले ।
अभिलषितसपत्नीगेहयात्राविघातं
ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम् ॥४३॥ ३०३॥

तटभुवि यमुनायाश्छन्नवृत्ते मुकुन्दे
मुहुरधिगमहेतोर्मुह्यतां यौवनानाम् ।
शमयितुमलमासीच्छङ्खचक्रादिचिह्ना
प्रतिपदविचिकित्सां पादुके पद्धतिस्ते ॥४४॥ ३०४॥

अधिगतबहुशाखान् मञ्जुवाचः शुकादीन्
सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् ।
प्रकटितगुणजालं पादुके रङ्गबन्धो-
रुपनिषदटवीषु क्रीडितं त्वत्सनाथम् ॥४५॥ ३०५॥

मुनिपरिषदि गीतं गौतमीरक्षणं ते
मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः ।
उषसि निजकुलायादुत्थिता दण्डकेषु
स्वयमपि पदरक्षे स्वैरमाम्रेडयन्ति ॥४६॥ ३०६॥

यमनियमविशुद्धैर्यन्न पश्यन्ति चित्तैः
श्रुतिषु चुलुकमात्रं दृश्यते यस्य भूमा ।
सुलभनिखिलभावं मांसदृष्टेर्जनस्य
स्वयमुपहरसि त्वं पादुके तं पुमांसम् ॥४७॥ ३०७॥

निधिमिव निरपायं त्वामनादृत्य मोहा-
दहमिव मम दोषं भावयन् क्षुद्रमर्थम् ।
मयि सति करुणायाः पूर्णपात्रे त्वया किं
परमुपगमनीयः पादुके रङ्गनाथ ॥४८॥ ३०८॥

कमपि कनकसिन्धोः सैकते सञ्चरन्तं
कलशजलधिकन्यामेदिनीदत्तहस्तम् ।
अनिशमनुभवेयं पादुके त्वय्यधीनं
सुचरितपरिपाकं सूरिभिः सेवनीयम् ॥४९॥ ३०९॥

परिसरमुपयाता पादुके पश्य मातः
करणविलयखेदात् कान्दिशीके विवेके ।
पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे
पुनरुदरनिवासक्लेशविच्छेदनं नः ॥५०॥ ३१०॥

सा मे भूयात् सपदि भवती पादुके तापशान्त्यै
यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः ।
सौदामिन्या सह कमलया सह्यजावृद्धिहेतुः
काले काले चरति करुणावर्षुकः कृष्णमेघः ॥५१॥ ३११॥

सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां
शङ्के मातः समधिकगुणं सैकतं सह्यजायाः ।
पूर्वं पूर्वं चिरपरिचितं पादुके यत् त्यजन्त्या
नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ ॥५२॥ ३१२॥

अग्रे देवि त्वयि सुमनसामग्रिमैरन्तरङ्गै-
र्विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् ।
दत्ते पादं दरमुकुलितं त्वत्प्रभावातिशङ्की
देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः ॥५३॥ ३१३॥

पौरोदन्तान्परिकलयितुं पादुके सञ्चरिष्णो-
र्व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः ।
वेलातीतश्रुतिपरिमलैर्व्यक्तिमभ्येति काल्ये
विन्यासस्ते विबुधपरिषन्मौलिविन्यासदृश्यैः ॥५४॥ ३१४॥

आसंस्काराद् द्विजपरिषदा नित्यमभ्यस्यमाना
श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना ।
रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं
गायत्रीव त्रिचतुरपदा गण्यसे पादुके त्वम् ॥५५॥ ३१५॥

भवतीं परस्य पुरुषस्य रङ्गिणो
महिमानमेव मणिपादु मन्महे ।
कथमन्यथा स्वमहिमप्रतिष्ठितः
प्रतितिष्ठति त्वयि पदात्पदं प्रभुः ॥५६॥ ३१६॥

तिथिरष्टमी यदवतारवैभवा-
त्प्रथमा तिथिस्त्रिजगतामजायत ।
मणिपादुके तमुपनीय वीथिका-
स्वतिथीकरोषि तदनन्यचक्षुषाम् ॥५७॥ ३१७॥

अपारप्रख्यातेरशरणशरण्यत्वयशसा
ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् ।
यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर-
प्रतोलीपर्यन्ते निधिरनघवाचां निरवधिः ॥५८॥ ३१८॥

तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गश‍ृङ्गारिणो
वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ।
लीलापङ्कजहल्लकोत्पलगलन्माध्वीकसेकोत्थिता
यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम् ॥५९॥ ३१९॥

सम्भवतु पादरक्षे सत्यसुपर्णादिरौपवाह्यगणः ।
यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥६०॥ ३२०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
सञ्चारपद्धतिरेकादशी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP