संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| प्रस्तावपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः प्रस्तावपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन प्रस्तावपद्धतिः Translation - भाषांतर सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः ।जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥१॥भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥२॥वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्ती-माम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् ।पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तु-स्त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥३॥दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमानापादन्यासं प्रथममनया भारती यत्र चक्रे । योगक्षेमं सकलजगतां त्वय्यधीनं स जान-न्वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥४॥नीचेऽपि हन्त मम मूर्धनि निर्विशेषंतुङ्गेऽपि यन्निवेशते निगमोत्तमाङ्गे ।प्राचेतसप्रभृतिभिः प्रथमोपगीतंस्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥५॥धत्ते मुकुन्दमणिपादुकयोर्निवेशा-द्वल्मीकसम्भवगिरां समतां ममोक्तिः ।गङ्गाप्रवाहपतितस्य कियानिव स्या-द्रथ्योदकस्य यमुनासलिलाद्विशेषः ॥६॥विज्ञापयामि किमपि प्रतिपन्नभीतिःप्रागेव रङ्गपतिविभ्रमपादुके त्वाम् ।वक्तुं क्षमाः सदसती विगताभ्यसूयाः सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥७॥अश्रद्दधानमपि नन्वधुना स्वकीयेस्तोत्रे नियोजयसि मां मणिपादुके त्वम् ।देवः प्रमाणमिह रङ्गपतिस्तथात्वेतस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥८॥यदाधारं विश्वं गतिरपि च यस्तस्य परमातमप्येका धत्से दिशि वरगतिं तस्य रुचिराम् । कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमाकवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥९॥श्रुतप्रज्ञासम्पन्महितमहिमानः कतिकतिस्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः ।अहं त्वल्पस्तद्वदिह बहु च जल्पामि तदपि त्वल्पस्तद्वद्यदिहत्वदायत्तं रङ्गक्षितिरमणपादावनि विदुः ॥१०॥यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः ।शुना लीढा कामं भवतु सुरसिन्धुर्भगवतीतदेषा किम्भूता स तु सपदि सन्तापरहितः ॥११॥मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदामदुक्तिस्त्वय्येषा महितकविसंरम्भविषये ।न कस्येयं हास्या हरिचरणधात्रि क्षितितलेमुहुर्वात्याधूते मुखपवनविस्फूर्जितमिव ॥१२॥निःसन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदय-प्रतूहक्रमभक्तिवैभवभवद्वैयात्यवाचालितः । रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरांनर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥१३॥रङ्गक्ष्मापतिरत्नपादु भवतीं तुष्टूषतो मे जवा-ज्जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः ।श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापय-स्त्रासादेशविशृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥१४॥हिमवन्नलसेतुमध्यभाजां भरताभ्यर्चितपादुकावतंसः । अतपोधनधर्मतः कवीनामखिलेष्वस्मि मनोरथेष्वबाह्यः ॥१५॥अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके त्वाम् ।गतभीतिरभिष्टुवन् विमोहात्परिहासेन विनोदयामि नाथम् ॥१६॥वृत्तिभिर्बहुविधाभिराश्रिता वेङ्कटेश्वरकवेः सरस्वती ।अद्य रङ्गपतिरत्नपादुके नर्तकीव भवतीं निषेवताम् ॥१७॥अपारकरुणाम्बुधेस्तव खलु प्रसादादहंविधातुमपि शक्नुयां शतसहस्रिकां संहिताम् ।तथापि हरिपादुके तव गुणौघलेशस्थिते-रुदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥१८॥अनुकृतनिजनादां सूक्तिमापादयन्तीमनसि वचसि च त्वं सावधाना मम स्याः ।निशमयति यथाऽसौ निद्रया दूरमुक्तःपरिषदि सह लक्ष्म्या पादुके रङ्गनाथः ॥१९॥त्वयि विहिता स्तुतिरेषा पदरक्षिणि भवति रङ्गनाथपदे ।तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥२०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेप्रस्तावपद्धतिः प्रथमा ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP