रत्नसामान्यपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
उदर्चिषस्ते रङ्गेन्द्रपादावनि बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥१॥ ४८१॥
विधेहि शौरेर्मणिपादुके त्वं
विपद्यमाने मयि रश्मिजालैः ।
आसीदतामन्तककिङ्कराणां
वित्रासनान् वेत्रलताविशेषान् ॥२॥ ४८२॥
मुकुन्दपादावनि मध्यनाड्या
मूर्धन्यया निष्पततो मुमुक्षोः ।
आब्रह्मलोकादवलम्बनार्थं
रत्नानि ते रश्मिगणं सृजन्ति ॥३॥ ४८३॥
असूर्यभेद्यां रजनीं प्रजानाम्
आलोकमात्रेण निवारयन्ती ।
अमोघवृत्तिर्मणिपादरक्षे
मुरद्विषो मूर्तिमती दया त्वम् ॥४॥ ४८४॥
रङ्गेशपादावनि तावकानां
रत्नोपलानां द्युतयः स्फुरन्ति ।
श्रेयःफलानां श्रुतिवल्लरीणाम्
उपघ्नशाखा इव निर्व्यपायाः ॥५॥ ४८५॥
कस्यापि पुंसः कनकापगायाः
पुण्ये सलीलं पुलिने शयालोः ।
समीपवृत्तिर्मणिपादुके त्वं
संवाहयन्तीव पदं करैः स्वैः ॥६॥ ४८६॥
दिदृक्षमाणस्य परं निधानं
स्नेहान्विते योगदशाविशेषे ।
संवित्प्रदीपं मणिपादरक्षे
सन्धुक्षयन्तीव मरीचयस्ते ॥७॥ ४८७॥
समाधिभाजां तनुते त्वदीया
रङ्गेशपादावनि रत्नपङ्क्तिः ।
स्थानं प्रयातुं तमसः परं त-
त्प्रदीपकृत्यं प्रभया महत्या ॥८॥ ४८८॥
बध्नासि रङ्गेश्वरपादरक्षे
मन्ये यथार्हं मणिरश्मिजालैः ।
सेवानतानां त्रिदशेश्वराणां
शेषापटीं शेखरसन्निकृष्टाम् ॥९॥ ४८९॥
भजन्ति रङ्गेश्वरपादरक्षे
प्रकल्पयन्तो विविधान्पुमर्थान् ।
उदर्चिषश्चिन्तयतां जनानां
चिन्तामणित्वं मणयस्त्वदीयाः ॥१०॥ ४९०॥
नाथस्य दत्ते नदराजकन्या
पातुं शुभान्पादनखेन्दुरश्मीन् ।
मणिप्रभाभिः प्रतिपन्नपक्षां
लीलाचकोरीमिव पादुके त्वाम् ॥११॥ ४९१॥
जनस्य रङ्गेश्वरपादुके त्वं
जातानुकंपा जनयस्ययत्नात् ।
आकृष्य दूरान्मणिरश्मिजालै-
रनन्यलक्षाणि विलोचनानि ॥१२॥ ४९२॥
रङ्गेशपादावनि तावकीनैः
स्पृष्टाः कदाचिन्मणिरश्मिपाशैः ।
कालस्य घोरं न भजन्ति भूयः
कारागृहान्तेषु कशाभिघातम् ॥१३॥ ४९३॥
रत्नानि रङ्गेश्वरपादरक्षे
त्वदाश्रितान्यप्रतिघैर्मयूखैः ।
आसेदुषीणां श्रुतिसुन्दरीणां
वितन्वते वर्णनिचोललक्ष्मीम् ॥१४॥ ४९४॥
निद्रारसप्रणयिनो मणिपादरक्षे
रङ्गेश्वरस्य सविधं प्रतिपद्यमाना ।
शय्याफणीन्द्रमभितो भवती विधत्ते
रत्नांशुभिर्यवनिकामिव दर्शनीयाम् ॥१५॥ ४९५॥
सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां
स्रस्तांशुकं निजरुचा मणिपादुके त्वम् ।
पद्मासहायपरिवारविलासिनीनां
पट्टांशुकैरिव पयोधरमावृणोषि ॥१६॥ ४९६॥
देवस्य रङ्गवसतेः पुरतः प्रवृत्तै-
रुद्धूतविश्वतिमिरां मणिरश्मिजालैः ।
मन्ये मदीयहृदयायतनप्रवेश-
माङ्गल्यदीपकणिकां मणिपादुके त्वाम् ॥१७॥ ४९७॥
आकीर्णरत्ननिकरां मणिपादुके त्वां
रङेश्वरस्य ललितां विपणिं प्रतीमः ।
यत्संश्रयेण भवति स्थिरभक्तिमूल्यं
कैवल्यमत्र जगतां क्रयविक्रयार्हम् ॥१८॥ ४९८॥
व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं
वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् ।
आश्लिष्य निर्भररुचिं मणिपादुके त्वा-
मासीदनाभरणसुन्दरमङ्घ्रिपद्मम् ॥१९॥ ४९९॥
रत्नप्रभापटलचक्रमनोहरा त्वं
पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः ।
मन्ये तदेतदुभयं मणिपादरक्षे
चक्राब्जमण्डलमकिञ्चनरक्षणार्थम् ॥२०॥ ५००॥
त्रासात्स्वयं प्रणमतां दनुजेश्वराणां
सङ्ख्येऽवलूनशिरसामपि मौलिरत्नैः ।
आयोजयत्यनुकलं मणिपादुके त्वां
सैरन्ध्रिकेव मुरवैरिकृपाणधारा ॥२१॥ ५०१॥
आस्कन्दनानि विबुधेन्द्रशिखामणीनां
त्वामाश्रितान्यसुरसूदनपादरक्षे ।
रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे
नूनं भजन्ति निकषोपलतां कवीनाम् ॥२२॥ ५०२॥
पादावनि प्रणयिनां प्रतिपादितार्थां
क्रीडासरोजमिव शौरिपदं वहन्तीम् ।
प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां
पश्यामि रोहणगिरेरधिदेवतां त्वाम् ॥२३॥ ५०३॥
यामेव रत्नकिरणैर्मणिपादरक्षे
चूडापदे तनुभृतां भवती विधत्ते ।
शक्रादिदैवतशिखामणिरज्यमानै-
स्त्वामेव ते प्रकटयन्ति पदैरभिख्याम् ॥२४॥ ५०४॥
रत्नाङ्कुरैरविरला मणिपादरक्षे
पाकोन्मुखैः परिगता पुरुषार्थसस्यैः ।
देवेन रङ्गपतिना जगतां विभूत्यै
केदारिकेव कृपया परिकल्पिता त्वम् ॥२५॥ ५०५॥
निर्धूतमोहतिमिरास्तव रत्नदीपै-
र्निर्विश्यमानविभवं नदराजपुत्र्या ।
प्रत्यक्षयन्ति निगमान्तनिगूधमर्थं
पादावनि त्वयि निवेशितभावबन्धाः ॥२६॥ ५०६॥
रत्नोपलप्रकरसम्भव एष दूरा-
द्रङ्गाधिराजचरणावनि तावकीनः ।
आर्द्रापराधपरिखिन्नधियां प्रजाना-
माश्वासनार्थ इव भाति करप्रसारः ॥२७॥ ५०७॥
व्यामुह्यतो विषयिबालमृगान्मदीयान्
संसारघर्मजनितासु मरीचिकासु ।
पादावनि प्रगुणरत्नमरीचिजालै-
राकृष्य विश्रमय केशवकान्तिसिन्धौ ॥२८॥ ५०८॥
अन्तर्निधाय मुनिभिः परिरक्षमाणाम्-
आत्मीयरश्मिगुणितां मणिपादरक्षे ।
रङ्गेशपादकमलप्रतिपन्नमुद्रां
नीवीमवैमि भवतीं निगमान्तवाचाम् ॥२९॥ ५०९॥
रामस्य रङ्गवसतेश्चरणानुषङ्गा-
त्काष्ठां गतां परमपावनतां दधाना ।
पादावनि प्रचुररत्नशिलानिबद्धा
संसारसन्तरणसेतुरसि प्रजानाम् ॥३०॥ ५१०॥
दिविषन्मकुटेषु सञ्चरन्त्याः प्रचुरस्ते मणिपादुके प्रकाशः ।
दिवि रङ्गपतेर्महोत्सवार्थं वितता वन्दनमालिकेव भाति ॥३१॥ ५११॥
प्रभवन्ति दवीयसां स्वभावा-
त्तव रत्नानि मुकुन्दपादरक्षे ।
अयसामिव हन्त लोहकान्ताः
कठिनानां मनसां विकर्षणाय ॥३२॥ ५१२॥
परिपश्यति देवि रङ्गनाथे रहसि त्वं सविधे निविश्य लक्ष्म्याः ।
परिपुष्यसि रत्नधामभिः स्वैरनसूयेव मनोज्ञमङ्गरागम् ॥३३॥ ५१३॥
तव रत्नकरार्पितं नवीनं परिगृह्य स्थिरमंशुकं मनोज्ञम् ।
जरदंशुकत्सुखेन देहं कृतिनः केशवपादुके त्यजन्ति ॥३४॥ ५१४॥
अभितो मणिपादुके निबद्धैः
कृतसंस्कारविशेषमात्मरत्नैः ।
कुरुते भवती पदं मुरारेः
कठिनेऽस्मिन् हृदि मे निवेशयोग्यम् ॥३५॥ ५१५॥
निजरत्नकराञ्चलैर्मदीयानपराधानवधूय दत्तसाम्या ।
रमया सहितस्य रङ्गभर्तुः पदयोरर्पय पादुके स्वयं माम् ॥३६॥ ५१६॥
रश्मिजालपरिवेषबन्धुरा रङ्गभूमिपतिरत्नपादुके ।
विश्वलोचनविहङ्गहारिणी वागुरेव वितता विराजसे ॥३७॥ ५१७॥
मानसाम्बुजविकासहेतुभिः सेविता मणिगणैः प्रभाकरैः ।
पादुके वहसि सद्भिराश्रितां देवि विष्णुपदसम्पदं नवाम् ॥३८॥ ५१८॥
अधिशयितफणिश्वरस्य शौरेः
स्वयमधिरूढपदोपधानपार्श्वा ।
मणिवलयजुषा करेण मन्दं
स्पृशसि पदावनि पादयोर्युगं तत् ॥३९॥ ५१९॥
भवत्यन्ते त्वां प्रणतस्य जन्तो-
स्तदोकोऽग्रज्वलनं त्वत्प्रकाशैः ।
यतो नाड्या मध्यमया विनिर्यन्
गतिं विन्देत् केशवपादरक्षे ॥४०॥ ५२०॥
अशिथिलपरिणद्धा रश्मिजालैर्मणीनां
दुरधिगमतमं नः पारमारोपयन्ती ।
कमलनयनमाद्यं कर्णधारं दधाना
भवसि भवपयोधेः पादुके पोतपात्री ॥४१॥ ५२१॥
मणिगणकिरणैस्ते कल्पिते गुल्मभेदे
मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् ।
हरति चरणरक्षे भक्तिपाशावरुद्धं
हृदयहरिणयूथं प्राणिनां रङ्गनाथः ॥४२॥ ५२२॥
परिचितपदमूला पादुके रङ्गिणस्त्वं
प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि ।
भवति भृशमधस्तात् तेजसा भव्यभूम्ना
शलभितदुरितानां तावकानां मणीनाम् ॥४३॥ ५२३॥
कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते
विष्वग्व्याप्ते जगति तमसा पादुके तादृशेन ।
स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः
सम्पद्यन्ते सह कमलया जागरूकस्य यूनः ॥४४॥ ५२४॥
श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपा-
दारूढायां त्वयि मखभुजामानतान् मौलिभागान् ।
तेषां चूडामणिभिरनघैस्तावकानां मणीनां
केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम् ॥४५॥ ५२५॥
त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो
मातर्माधवपादुके न तु पुनर्हस्तैः स्पृशन्त्याकुलैः ।
दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाःपालकोपानल-
ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः ॥४६॥ ५२६॥
संवर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि
प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् ।
तन्मन्ये त्वदनन्यसूरिपरिषन्मध्ये निवेशाय न-
स्तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धन्तमः ॥४७॥ ५२७॥
सलीलं विन्यस्य त्वयि चरणरक्षे निजपदं
यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके ।
दिशासौधानष्टौ जनयसि तदा निर्भरमिल-
न्मणिच्छायामायाघनघटितकेतुव्यतिकरान् ॥४८॥ ५२८॥
महार्घैराश्लिष्टां मणिभिरवधूतद्युमणिभिः
कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब भवतीम् ।
मुकुन्देन त्रातुं पदकमलमूले विनिहितां
निराबाधां मन्ये निधिमनघवाचां निरवधिम् ॥४९॥ ५२९॥
तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् ।
तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके तेजः ॥५०॥ ५३०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
रत्नसामान्यपद्धतिः पञ्चदशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP