वेङ्कटाचलमाहात्म्यम् - अध्यायः ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अथाऽगस्त्यशङ्खादितपस्तुष्टस्य भगवत आविर्भावः ॥
॥ भरद्वाज उवाच ॥
तेषां हरौ जगन्नाथे समावेशितचेतसाम् ॥
दिनत्रयं गतं तत्र पूजास्तोत्रपरात्मनाम् ॥१॥
तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि ॥
अन्ते चतुर्थयामस्य ददृशुः स्वप्नमुत्तमम् ॥२॥
शङ्खचक्रगदापाणिं प्रसन्नं पुरुषोत्तमम् ॥
वरदानाय संप्राप्तमपश्यन्स्मेरलोचनम् ॥३॥
उत्थाय मुदितात्मानो गृहान्निर्गत्य पावने ॥
स्वामिपुष्करिणीतोये सस्नुर्विधिवदादरात् ॥४॥
विधाय विधिवत्कर्म सर्वे दिनमुखोचितम् ॥
गृहान्प्रत्याययुर्देवमाराधयितुमच्युतम् ॥५॥
सद्यः श्रेयस्करं मार्गे निमित्तं पक्षिसृचितम् ॥
दृष्ट्वा प्रसादं देवस्य करस्थं मेनिरे तदा ॥६॥
ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम् ॥
तुष्टुवुर्विविधैः स्तोत्रैः पवित्रैर्वेदवर्णितैः ॥७॥
स्तोत्रावसाने कौन्तेय मुनीन्द्रः कुम्भसंभवः ॥
जजाप शंखसहितो मन्त्रमष्टाक्षरं हरेः ॥८॥
इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम् ॥
अग्रभागे प्रादुरभूदेकं तेजो महाद्भुतम् ॥९॥
अनेककोटिसंख्यानामादित्येन्दु हविर्भुजाम् ॥
एकीभूयाम्बरतले ज्योतिर्जालमिव स्थितम् ॥१०॥
तत्तेजो वीक्ष्य ते सर्वेऽमितान्ताश्चर्यगोचराः ॥
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम् ॥११॥
वाङ्मानसपथातीतं विश्रुतैश्वर्यभासुरम् ॥
सहस्रनेत्रं साहस्रबाहुपादैः समन्वितम् ॥१२॥
तप्तकार्तस्वरनिभस्फुरत्कांतिमनोहरम ॥
दंष्ट्राकरालं दुर्दर्शं वमन्तं दहनच्छटाः ॥१३॥
कौस्तुभेन विराजन्तं दधानमुरसि श्रियम् ॥
अविचिन्त्यमनाद्यन्तमत्यन्तभयदायकम् ॥१४॥
प्रकाशयन्तं ब्रह्माण्डं सर्वमात्मनि सर्वगम् ॥
अगस्त्यशंखप्रमुखास्ते सर्वे हृष्टचेतसः ॥१५॥
तमालोक्य जगन्नाथं भूयोभूयो ववन्दिरे ॥
भ्रमन्ति लोकरक्षार्थमायुधानि तदा हरेः ॥१६॥
निजतेजोबलोपेतान्याजग्मुस्तं निषेवितुम् ॥
चक्रमर्कप्रभं दिव्या गदा खङ्गश्च नन्दकः ॥१७॥
पुण्डरीकं चोग्ररवः पाञ्चजन्यः शशिप्रभः ॥
तदा ब्रह्माण्डमखिलं पूरयामास निर्भरः ॥१८॥
पाञ्चजन्यस्य निनदः सर्वासुरभयंकरः ॥
पाञ्चजन्यध्वनिं श्रुत्वा नितान्ताश्चर्यभीषणम् ॥१९॥
आययुर्देवताः सर्वाः स्वंस्वं वाहनमास्थिताः ॥
ब्रह्मा रुद्रः शतमखः सनकाद्याश्च योगिनः॥२०॥
वसिष्ठमुख्या मुनयो गन्धर्वोरगकिन्नराः ॥
विष्वक्सेनो गरुत्मांश्च विष्णुभृत्या जयादयः ॥२१॥
सरूपाश्चैव ये नित्याः श्वेतद्वीपनिवासिनः ॥
सुमनोद्रुमसंभूता सुमनोवृष्टिरद्भुता ॥२२॥
पपात मेदुरामोदमोदिताशेषमानसा ॥
ननृतुर्दिव्यसुदृशो जगुः किन्नरपुङ्गवाः ॥२३॥
तुष्टुवुर्हर्षतरलाः सुरगन्धर्वचारणाः ॥
दृष्ट्वा ते पुण्डरीकाक्षं प्रसन्नं भक्तवत्सलम् ॥२४॥
प्रणम्य तोषयामासुः साष्टांगं विविधैस्तवैः ॥२५॥
॥ ब्रह्मादय ऊचुः ॥
जय विष्णो कृपासिन्धो जय तामरसेक्षण ॥
जय लोकैकवरद जय भक्तार्तिभञ्जन ॥२६॥
अनन्तमक्षरं शान्तमवाङ्मनसगोचरम् ॥
को वा भवन्तं जानाति चिदानन्दमयात्मकम् ॥२७॥
अणोरणुतरं स्थूलात्स्थूलं सर्वान्तरस्थितम् ॥
त्वामामनन्ति पुरुषं प्रकृतेः परमच्युतम् ॥२८॥
वेदान्तसाररूपं त्वां सर्वान्तर्बाह्यवर्तिनम् ॥
को हि वर्णयितुं शक्तो मायायत्तेषु देहिषु ॥२९॥
भवदीयमिदं रूपं दृष्ट्वातिभयदायकम् ॥
भयोद्विग्ना वयं सर्वे शान्तं रूपं भजस्व ह ॥३०॥
॥ भरद्वाज उवाच ॥
इति स्तुतो विरिञ्चाद्यैः प्रसन्नो गरुडध्वजः ॥
मेघघोषप्रतिमया वाचा सादरमब्रवीत ॥३१॥
॥ अथ ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यरूपप्रकारः ॥
॥ श्रीभगवानुवाच ॥
भयावहामिमां मूर्तिमुत्सृज्याहं प्रियावहम् ॥
शान्तं रूपं भजिष्यामि मां पश्यत निराकुलाः ॥३२॥
इत्युक्त्वान्तर्हितो भूत्वा तस्मिन्नेव क्षणांतरे ॥
विमाने रत्नखचिते बभूव सुखदर्शनः ॥३३॥
चन्द्रबिम्बाननः शान्तो नीलोत्पलदलद्युतिः ॥
सुवर्णवर्णवसनो रत्नभूषणभूषितः ॥३४॥
शंखचक्रगदापद्मलसत्करचतुष्टयः ॥
तमालोक्य रमाकान्तं भूयो भूयो ववंदिरे ॥३५॥
सन्तोषयित्वा ब्रह्मादीनभीष्टप्रतिपादनैः ॥
अवोचद्विनयानम्रमगस्त्यं मुनिपुंगवम् ॥३६॥
॥ श्रीभगवानुवाच ॥
त्वं मुनीन्द्र व्रतैर्घोरैश्चीर्णैर्मां प्रति संप्रति ॥
परिक्लिष्टोऽसि दास्यामि वरांस्तेऽभीप्सितान्वद ॥३७॥
॥ भरद्वाज उवाच ॥
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनःपुनः ॥
स रोमाञ्चितसर्वांगः कुम्भजन्मा वचोऽब्रवीत् ॥३८॥
॥ अथागस्त्यप्रार्थनया स्वर्णमुखरीनद्या भगवद्वत्तसर्वाधिकत्वप्राप्तिः ॥
॥ अगस्त्य उवाच ॥
यद्धुतं यत्तपस्तप्तं यदधीतं श्रुतं मया ॥
तत्सर्वं सफलं जातमादृतोऽस्मि यतस्त्वया ॥३९॥
एषोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो ॥
त्वां विचिन्वन्तमधुना मामन्विष्यागतोऽसि यत् ॥४०॥
त्वत्प्रसादात्पुरैवाहं प्राप्ताखिलमनोरथः ॥
न पश्यामि विचिन्त्यापि प्राप्यं संप्रति माधव ॥४१॥
तथापि चापलादेतत्तव विज्ञाप्यते प्रभो ॥
त्वत्पादाम्बुजयोर्भक्तिमेवं कुरु निरन्तरम् ॥४२॥
अवधारय चैतत्त्वं सुरप्रार्थनया मया ॥
नदी सुवर्णमुखरी स्नाताघौघविनाशिनी ॥४३॥
सा भवच्छैलकटकसमासन्ना समागता ॥
तां कृतार्थय लोकेश त्वदनुग्रहवृत्तिभिः ॥४४॥
सुवर्णमुखरीतोये स्नात्वा ये वेंकटे स्थितम् ॥
पश्यंति भुक्तिमुक्त्योस्तु भूयासुर्भाजनानि ते ॥४५॥
अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युताः ॥
न शक्नुवंति त्वां द्रष्टुं व्रताध्ययनकर्मभिः ॥४६॥
सदास्मिन्नास्थितः शैले सर्वेषां च जगद्गुरो ॥
प्रसादसुमुखो देव कांक्षितार्थप्रदो भव ॥४७॥
॥ श्रीभगवानुवाच ॥
यत्प्रार्थितं त्वया विप्र तत्तथैव भविष्यति ॥
नूनमप्रतिमा लोके मयि भक्तिः कृता त्वया ॥४८॥
जाह्नवीव नदी सेयं सुवर्णमुखरी मुने ॥
स्यादाशास्या सुराणां च वांछितश्रीविधायिनी ॥४९॥
स्वामिपुष्करिणी चेयं नदी मूर्त्या समन्विता ॥
संक्रमिष्यति तां दिव्यां नदीं तीर्थौघसंश्रयाम् ॥५०॥
वैकुण्ठनाम्नि शैलेऽस्मिन्नद्यप्रभृति सर्वदा ॥
कृतावासो भविष्यामि मुने प्रार्थनया तव ॥५१॥
सुवर्णमुखरीस्नानक्षालिताघौघकर्दमाः ॥
अस्मिन्वैकुण्ठशैले मां ये पश्यंति समाहिताः ॥५२॥
भुवि पुत्रादिसंपन्नाः सर्वैश्वर्यसमन्विताः ॥
मृतास्त्रिविष्टपे भोगानाकल्पमनुभूय च ॥५३॥
पुनरावृत्तिरहितं केवलानन्दभासुरम् ॥
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा ॥५४॥
मां द्रष्टुमागतान्सर्वान्प्रतीक्ष्याभीप्सितैः शुभैः ॥
योजयिष्यामि सततं त्वद्वचोगौरवान्मुने ॥५५॥
पुत्रार्थिनां बहून्पुत्रान्धनानि च धनार्थिनाम् ॥
तथैवारोग्यकामानां रोगशांतिं गरीयसीम् ॥५६॥
तीव्रापत्परिभूतानां तथैवापन्निवारणम् ॥
दास्याम्यभीप्सितान्भोगान्दुर्लभानपि सर्वदा ॥५७॥
ये यान्कामानपेक्ष्येह प्रेक्षन्ते मां समागताः ॥
अवाप्नुवन्ति ते सर्वे तांस्तान्कामान्न संशयः ॥५८॥
स्थिता वा यत्र कुत्रापि मां स्मरन्ति नरोत्तमाः ॥
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः ॥५९॥
॥ अथ शङ्खनृपवरप्रदानपूर्वकं भगवदन्तर्धानम् ॥
॥ भरद्वाज उवाच ॥
इत्युक्त्वा तं मुनिं देवः शंखमालोक्य भूपतिम् ॥
शृण्वतां ब्रह्ममुख्यानामिदं वचनमब्रवीत् ॥६०॥
॥ श्रीभगवानुवाच ॥
प्रीतोऽस्मि शंख भक्त्या ते वृणीष्वाभीप्सितं वरम् ॥
ददामि वरदोऽहं ते क्रशिष्ठस्य तपस्यतः ॥६१॥
॥ शंख उवाच ॥
न याचेऽन्यन्महाबाहो त्वत्पादाम्बुजसेवनात् ॥
यां प्राप्नुवंति त्वद्भक्तास्तां याचे गतिमुत्तमाम् ॥६२॥
॥ श्रीभगवानुवाच ॥
यत्प्रार्थितं त्वया शंख तत्तथैव भविष्यति ॥
मत्सेवायोगभव्यानामलभ्यं किमु विद्यते ॥६३॥
आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ॥
भुक्त्वा बहुविधान्भोगांस्ततो मल्लोकमेष्यसि ॥६४॥
एवं ददौ वरानिष्टाञ्छङ्खाय पृथिवीपते ॥
नारायणो जगद्योनिर्भजतां कल्पभूरुहः ॥६५॥
ततो ब्रह्मादिकान्सर्वान्विसृज्य कमलेक्षणः ॥
संस्तूय मानसैर्भक्त्या तत्रैवांतर्दधे प्रभुः ॥६६॥
॥ अथ भरद्वाजवर्णितश्रीवेंकटाचलमाहात्म्यनिगमनम् ॥
॥ भरद्वाज उवाच ॥
वेंकटाद्रेः प्रभावोऽयमाख्यातो भवतेऽर्जुन ॥
नराः पापैः प्रमुच्यंते श्रुत्वेमां पावनीं कथाम् ॥६७॥
वाराहं रूपमुत्सृज्य ब्रह्मणाभ्यर्थितो हरिः ॥
मुमोदात्राद्भुताकारो मायया मोहयञ्जगत् ॥६८॥
पश्चादगस्त्यशंखाभ्यां प्रार्थितः सुखदर्शनम् ॥
ददौ नितान्तसुभगं शान्तं भोगात्मकं वपुः ॥६९॥
नारायणं वेंकटाद्रिं स्वामिपुष्करिणीं तथा ॥
इमामाख्यां च संस्मृत्य मुच्यंते पातकैर्जनाः ॥७०॥
वेंकटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ॥
वेंकटेशसमो देवो न भूतो न भविष्यति ॥७१॥
वेंकटाद्रिसमं स्थानं न भूतं न भविष्यति ॥
स्वामितीर्थसरस्तुल्यं न कुत्रापि च विद्यते ॥७२॥
प्रातरुत्थाय ये नित्यं वेंकटेशं स्मरंति वै ॥
तेषां करस्था मोक्षश्रीर्नात्र कार्या विचारणा ॥७३॥
स्वामिपुष्करिणीतीर्थे स्नात्वा सर्वात्मकं हरिम् ॥
ये वा पश्यंति नियता वराहाचलवासिनम् ॥७४॥
तेऽश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
प्राप्नुवंति फलं पूर्णं नात्र कार्या विचारणा ॥७५॥
वेंकटाचलमाहात्म्यं ये शृण्वंति नरोत्तमाः ॥
तेषां मुक्तिश्च भुक्तिश्च इह लोके परत्र च ॥७६॥
वेंकटाचलमाहात्म्यं संक्षिप्य कथितं तव ॥
अतः परं महानद्याः प्रभावः कथ्यतेऽर्जुन ॥७७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायामगस्त्यशङ्खादितपस्तुष्टश्रीवेंकटेशाविर्भावादिमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : September 30, 2024
TOP