वेङ्कटाचलमाहात्म्यम् - अध्यायः ९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ धरण्युवाच ॥
कलौ युगे भूमिधर केन त्वं द्रक्ष्यसे प्रिय ॥
विमानं केन ते देव कार्यतेऽस्मिन्महीधरे ॥१॥
श्रीनिवासोऽपि केनैव द्रक्ष्यते सुभगाकृतिः ॥
एतद्ब्रूहि मम प्रीत्या श्रोतुं कौतूहलं विभो ॥२॥
॥ श्रीवराह उवाच ॥
वक्ष्यामि शृणु हे देवि भविष्यद्यद्वदामि ते ॥
अस्मिन्महीधरे पुण्ये निषादो वसुनामकः ॥३॥
श्यामाकवनपालोऽभूद्भक्तिमान्पुरुषोत्तमे ॥
श्यामाकतंडुलान्पक्त्वा मधुना परिषिच्य च ॥४॥
निवेद्य देवदेवाय श्रीभूमि सहिताय च ॥
एवं भक्तिमतस्तस्य भार्या चित्रवती शुभा ॥५॥
असूत तनयं बाला वीरनामानमुत्तमम् ॥
वसुः पुत्रेण सहितो भार्यया पतिभक्तया ॥६॥
कस्मिंश्चिद्दिवसे पुत्रं श्यामाकं पालयेति च ॥
विसृज्य पत्न्या सहितो मध्वन्वेषणतत्परः ॥७॥
गतो वनान्तरं शीघ्रं मधुच्छत्रदिदृक्षया ॥
बालः श्यामाकपक्वानि गृहीत्वाग्नौ निधाय च ॥८॥
पिष्ट्वा निवेदयामास वृक्षमूले श्रियः पतेः ॥
नैवेद्यं भक्षयित्वैव वीरस्त्वास सुखेन वै॥ ९॥
तदन्तरे वसुश्चापि मध्वादाय समागतः ॥
श्यामाकान्भक्षितान्दृष्ट्वा संतर्ज्य सुतमात्मनः ॥१०॥
खड्गमादाय तं हन्तुं त्वरया हस्तमुद्दधौ ॥११॥
॥ अथ सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः ॥
तद्वृक्षस्थस्तदा विष्णुः खड्गं जग्राह पाणिना ॥
खड्गो गृहीतः केनेति पश्यन्वृक्षं ददर्श सः ॥१२॥
शङ्खचक्रगदापाणिं वृक्षारूढार्धविग्रहम् ॥
मुक्त्वा वसुश्च तं खड्गं प्रणम्योवाच केशवम् ॥१३॥
किमिदं देवदेवेश चेष्टितं क्रियते त्वया ॥१४॥
॥ श्रीभगवानुवाच ॥
वसो शृणु वचो मे त्वं पुत्रस्ते भक्तिमान्मयि ॥
त्वत्तोऽपि मे प्रियतमस्तस्मात्प्रत्यक्षमागतः ॥१५॥
अस्य सर्वत्र तिष्ठामि तव स्वामिसरस्तटे ॥
इति देववचः श्रुत्वा प्रीतिमानभवद्वसुः ॥१६॥
एतस्मिन्नेव काले तु पांड्यदेशात्समागतः ॥
बाल्यात्प्रभृति शूद्रोऽपि विष्णुभक्तिसमन्वितः ॥१७॥
॥ अथ रंगदासस्य श्रीनिवाससेवार्थं श्रीशेषाचलागमनम् ॥
नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च ॥
तत्र श्रुत्वा श्रीनिवासं वेंकटाद्रिनिवासिनम् ॥१८॥
स्वयंभुवं देवदेवसेवितं प्रययौ ततः ॥
सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तत्तटे ॥१९॥
कमलाख्ये सरसि च स्नात्वा पुण्यप्रदायिनि ॥
तत्तीरवासिनं देवं कृष्णं रामेण संवृतम् ॥२०॥
नमस्कृत्य ततः प्रायाद्वनं गजघटायुतम् ॥
शनैः संप्राप्य शेषाद्रिं निर्झरं संददर्श ह ॥२१॥
तत्समीपं समासाद्य कपिलापूजितं शिवम् ॥
तत्पुरश्चक्रतीर्थं तदगाधं पापनाशनम् ॥२२॥
तत्र स्नात्वा ततोऽगच्छद्वेंकटाद्रिं शनैःशनैः ॥
आराद्धुं गच्छता मार्गे युक्तो वैखानसेन च ॥२३॥
रंगदासस्त्वारुरोह बालो द्वादशवार्षिकः ॥
स्वामिपुष्करिणीं प्राय स्नात्वा भक्तिसमन्वितः ॥२४॥
वैखानसेन मुनिना गोपीनाथेन पूजितम् ॥
वनमध्ये तरोर्मूले स्वामिपुष्करिणीतटे ॥२५॥
तिष्ठन्तं पुण्डरीकाक्षं श्रीभूमिसहितं हरिम् ॥
आकाशस्थं संददर्श पीतनीलाकृतिं शुभम् ॥२६॥
पार्श्वस्थशंखचक्राभ्यां गदासिभ्यां निषेवितम्॥
पक्षौ विस्तार्य चाकाशे देवमूर्ध्नि वितानवत् ॥२७॥
स्थितं च गरुडेशानं पश्चाच्छार्ङ्गं शरं तथा ॥२८॥
अथ श्रीनिवासार्थं रंगदासकृतदिव्योद्यानमण्डपादिनिर्माणानि ॥
एवं दृष्ट्वा श्रीनिवासं विस्मितो रंगदासकः ॥
अस्य देवस्य चारामं करिष्यामीत्यचिन्तयत् ॥२९॥
निश्चित्य मनसा सर्वं तरुमूलेऽवसत्सुधीः ॥
कृत्वा वैखानसाद्विष्णोर्नैवेद्यं च दिनेदिने ॥३०॥
शनैश्छित्त्वा वनं घोरं वृक्षांश्चिच्छेद पार्श्वगान् ॥
आस्थानचिञ्चां देवस्य रमायाश्चम्पकं तरुम् ॥३१॥
देवाज्ञप्तो वर्जयित्वा तावुभौ देवसेवितौ ॥
देवस्यपरितो भूमौ शिलाकुड्यं तदाकरोत् ॥३२॥
तत्कुड्यस्यैव परितः पुष्पारामांश्चकार ह ॥
मल्लिकाकरवीराब्जकुन्दमंदारमालतीः ॥३३॥
तुलसीचम्पकानां तु वनान्येव चकार ह ॥
खनित्वा तत्र कूपं तु वर्धयंस्तज्जलैर्वनम् ॥३४॥
आरामपुष्पाण्यादाय स्वयं दामान्यथाकरोत् ॥
विचित्राणि तदा बद्ध्वा पूजकस्य करे ददौ ॥३५॥
आदाय पूजकस्तानि स्कन्धे मूर्ध्नि बबन्ध च ॥
श्रीनिवासस्य देवस्य श्रीभूमिसहितस्य च ॥३६॥
एवं देवस्य कैंकर्यं कुर्वंस्तस्थावुदारधीः ॥
तस्यैवं वर्तमानस्य समास्त्वा सप्ततेर्गताः ॥३७॥
कुर्वाणे पुष्पावचयं रंगदासे महात्मनि ॥३८॥
॥ अथ रंगदासस्य गन्धर्वक्रीडादर्शनेन भगवत्कैंकर्यविस्मृतिः ॥
आरामे सरसि स्नातुं गन्धर्वः कश्चिदाययौ ॥
गन्धर्वराजकन्याभिस्तरुणीभिः समन्वितः ॥३९॥
जलक्रीडां करोति स्म दिवि स्थाप्य विमानकम्॥
सुरूपाभिश्च सहितं क्रीडन्तं कमलाकरे ॥४०॥
पश्यञ्छ्रीरंगदासोऽयं व्यस्मरन्माल्यसञ्चयम् ॥
जितेन्द्रियोऽपि तत्कक्रीडां पश्यन्रेतः ससर्ज ह ॥४१॥
पश्यतस्तस्य सरसः समुत्तीर्य मनोहरम् ॥
दिव्यवस्त्राणि चाच्छाद्य कान्ताभिः सह सस्मितम् ॥४२॥
अधिरुह्य विमानं तु ययौ स धनदालयम् ॥
गते गन्धर्वराजे तु रंगदासो विमोहितः ॥४३॥
त्यक्त्वा च तानि माल्यानि स्नात्वा सरसि लज्जितः ॥
पुनराहृत्य पुष्पाणि शनैर्देवालयं ययौ ॥४४॥
वैखानसस्तु तं दृष्ट्वा पूजाकालमतीत्य च ॥
आगतं किमिति प्राह सखेऽतिक्रम्य चागतः ॥४५॥
न बद्धा मालिकाश्चापि त्वयाऽऽरामे च किं कृतम् ॥४६॥
॥ श्रीवराहउवाच ॥
इत्थं पृष्टो रंगदासो नावदल्लज्जया ततः ॥
लज्जितं रंगदासं तं प्रोवाच मधुसूदनः ॥४७॥
॥ अथ स्वरूपानुसन्धानेन लज्जितं रंगदासं प्रति श्रीनिवासवचनम्॥
॥ श्रीभगवानुवाच ॥
लज्जया किं रंगदास मया त्वं मोहितो ह्यसि ॥
त्वं तावज्जितकामोऽसि धीरो भव महामते ॥४८॥
गन्धर्वराजवद्राजा भवितासि महीतले ॥
तत्र भुक्त्वा महाभोगान्भक्तिमान्मयि सर्वदा ॥४९॥
प्राकारं च विमानं च कारयिष्यसि मे तदा ॥
तत्र मुक्तिं प्रदास्यामि प्रीत्या परमया युतः ॥५०॥
अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् ॥
मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति ॥५१॥
इत्युक्त्वा भगवान्विष्णुः पुनर्नोवाच किंचन ॥
श्रुत्वा तद्रंगदासोऽपि चकाराराममुत्तमम् ॥५२॥
॥ अथ तोण्डमान्नामकनृपवृत्तान्तः ॥
साग्रं शताब्दं सेवित्वा गतः स्वर्गममन्दधीः ॥
जातः सोमकुले तुंगे तोण्डमानिति विश्रुतः ॥५३॥
सुवीरतनयो वीरो नन्दिनीगर्भसंभवः ॥
स पंचवर्षादुद्भूतविष्णुभक्तिः स्वयं सुधीः ॥
सौशील्यशौर्यवीर्यादिगुणानामाकरो महान्॥ ५४॥
पाण्ड्यस्य तनयां पद्मामुपयेमे मनोहराम् ॥
ततो राजा शतं कन्या नानादेश्याः स्वयंवराः ॥५५॥
रेमे देवेंद्रवद्भूमौ नारायणपुरे वसन्॥
अनुज्ञां प्राप्य पितृतः पुत्रः पंचास्यविक्रमः॥ ५६॥
उद्दिश्य मृगयां वीरो वेङ्कटाद्रेः समीपतः ॥५७॥
॥ अथ तोण्डमान्नृपस्य मृगयार्थं श्रीशेषाचलगमनम् ॥
पादचारेण विचरन्परिवारैः समन्वितः ॥
मदधारां विमुंचंतं ददर्श गजयूथपम् ॥५८॥
तं दृष्ट्वा विस्मितो भूत्वा ग्रहीतुं तमनुद्रुतः ॥
सुवर्णमुखरीं तीर्त्वा ब्रह्माष शुकमुत्तमम् ॥५९॥
नमस्कृत्याभ्यनुज्ञातस्ततोऽगच्छद्वनाद्वनम् ॥
ददर्श रेणुकां देवीं वल्मीकाकारसंस्थिताम् ॥६०॥
इष्टदामिष्टभक्तानां दिव्यारामनिवासिनीम्॥
परिवारैः सदोपेतां पूजितां त्रिदशैरपि ॥६१॥
तोण्डमानपि तां नत्वा ततः पश्चान्मुखो ययौ ॥६२॥
॥ अथ श्रीनिवाससमीपस्थपंचवर्णशुकवृत्तांतः ॥
पंचवर्णं शुकं दृष्ट्वा तं जिघृक्षुरनुद्रुतः ॥
स वदञ्छ्रीनिवासेति गिरिं शीघ्रतरं ययौ ॥६३॥
अनुद्रवन्स राजापि गिरिराजं समारुहत् ॥
दरीश्च विविधाः पश्यञ्छिखराणि समंततः॥६४॥
शुकमन्वेषमाणोऽसौ श्यामाकवनमेयिवान् ॥
तमदृष्ट्वा शुकवरं वनपालं ददर्श ह ॥६५॥
तं तु राजानमायांतं प्रत्युद्गच्छन्स सत्वरः ॥
प्रणम्य विनयोपेतः कृताञ्जलिपुटः स्थितः ॥६६॥
तोण्डमानपि संपूज्य तं पप्रच्छ वनेचरम्॥
पंचवर्णः शुकः कश्चिद्दृष्टश्चात्रागतस्त्वया ॥६७॥
श्रीनिवासेति च वदन्क्व गतोऽसौ वनेचर ॥६८॥
॥ वनेचर उवाच ॥
स पंचवर्णो राजेंद्र श्रीनिवासप्रियः सदा ॥
पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः ॥६९॥
स्वामिपुष्करिणीतीरे सदास्ते देवसन्निधौ ॥
ग्रहीतुं स शुकः श्रीमान्न तु केनापि शक्यते ॥७०॥
विहृत्य स्वेच्छया नित्यमस्मिन्गिरिवरे शुभे ॥
दिनांते देवमासाद्य तत्समीपे वसत्ययम् ॥७१॥
तं देवमाराधयितुं गमिष्यामि नृपात्मज ॥
विश्रम्यतां वृक्षमूले यावदागमनं मम ॥७२॥
पुत्रेणानेन सहितो विहर त्वं यथासुखम् ॥७३॥
॥ राजोवाच ॥
त्वया सहागमिष्यामि द्रष्टुं देवं जनार्दनम् ॥
त्वं मे दर्शय देवेशं वेंकटाद्रिनिवासिनम् ॥७४॥
तस्य राज्ञो वचः श्रुत्वा श्यामाकं मधुमिश्रितम् ॥
चूतपत्रपुटे क्षिप्त्वा राज्ञा सह ययौ हरिम् ॥७५॥
॥ अथ तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपागमनम् ॥
गत्वा सुदूरमध्वानं पश्यन्तौ तौ शिलातलम् ॥
मुहूर्तादेव संप्राप्तौ स्वामिपुष्करिणीं शुभाम् ॥७६॥
स्नात्वा तत्र विधानेन राज्ञा सह निषादपः ॥
दर्शयामास देवशं राज्ञस्तस्य महात्मनः ॥७७॥
स्वामिपुष्करिणीतीरे स्थितं श्रीवृक्षमूलके ॥
अतसीपुष्पसंकाशमंबुजायतलोचनम् ॥७८॥
चतुर्भुजमुदाराङ्गमीषत्स्मितमुखांबुजम् ॥
दिव्यपीतांबरधरं किरीटकटकोज्ज्वलम् ॥७९॥
पार्श्वस्थाभ्यां सुरूपाभ्यां श्रीभूमिभ्यां समन्वितम् ॥
परितः शंखचक्रासिगदाशार्ङ्गेषुसेवितम् ॥८०॥
अन्यैर्दिव्यायुधैश्चापि दिव्यमाल्यैर्निषेवितम् ॥
स्कन्देनाराध्यमानं तं त्रिसन्ध्यं पुरुषोत्तमम् ॥८१॥
वल्मीकगूढपादाब्जमाजानुपुरुषोत्तमम् ॥
ततो दृष्ट्वा मुदा देवं प्रणेमतुरुभौ तदा ॥८२॥
राजा तु प्रांजलिर्भूत्वा विस्मयोत्फुल्ललोचनः ॥
आनंदलहरीं प्राप्य न प्राज्ञायत किंचन ॥८३॥
निषादोऽपि निवेद्यैव श्यामाकं मधुमिश्रितम् ॥
राज्ञे तदर्धं दत्त्वैव शिष्टार्धं भुक्तवान्स्वयम् ॥८४॥
पीत्वा पुष्करिणीतोयं तेन राज्ञा समन्वितः ॥
स पुनः श्यामकवने पुण्यां पर्णकुटीं ययौ ॥८५॥
उषित्वा चैकरात्रं तु प्रातरुत्थाय भूमिपः ॥
स्वसैन्येन समायुक्तो निवृत्तः स्वपुरं ययौ ॥८६॥
॥ अथ तोण्डमान्नृपं प्रति रेणुकोक्तिः ॥
पुनर्देवीवनं गत्वा हयादवततार ह ॥
चैत्रशुद्धनवम्यां तु पूजयामास रेणुकाम् ॥८७॥
हविष्यं परमान्नं च सोपस्करमनेकशः ॥
पशूपहारसहितं धूपदीपसमन्वितम् ॥८८॥
सुराघटीशतं दत्त्वा जातीकेसरवासितम् ॥
एवं संपूजिता देवी प्रीता राज्ञे वरं ददौ ॥८९॥
आविष्टः पुरुषः कश्चिदवदन्नृपसत्तमम् ॥
शृणु राजन्भविष्यं ते राज्यं निहतकंटकम् ॥९०॥
राजंस्तवैव नाम्नात्र राजधानी भविष्यति ॥
मत्समीपे महाराज चिरं राज्यं करिष्यसि ॥९१॥
देवदेवप्रसादश्च भविष्यति तवानघ ॥
इति दत्त्वा वरं तस्मा आविष्टः प्रकृतिं ययौ ॥९२॥
ततो लब्धवरो राजा ययौ शुकमुनिं पुनः ॥९३॥
॥ अथ शुकवर्णितपद्मसरोवरमाहात्म्यम् ॥
अभिवाद्य मुनिं तेन पूजितो मुदितोऽभवत् ॥
माहात्म्यं सरसो ब्रूहि कमलाख्यस्य मे मुने ॥९४॥
॥ श्रीशुक उवाच ॥
पुरा दुर्वाससः शापादवतीर्णा सुरालयात् ॥
पद्मा पद्माक्षदयिता विष्णुना सहिता नृप ॥९५॥
सरः कांचनपद्माढ्यमिदं प्राप्य महेश्वरी ॥
तपश्चकार वर्षाणां दिव्यानामयुतं रमा ॥९६॥
ततो देवा विचिन्वन्तः श्रियं विष्णुसमन्विताम् ॥
पुरंदरेण संयुक्ता राजन्नस्मिन्सरोवरे ॥९७॥
स्थिता सुवर्णकमले पुण्डरीकाक्षसंयुताम् ॥
दृष्ट्वा प्रीतिसमायुक्ताः प्रणम्यांबुजधारिणीम् ॥
कृताञ्जलिपुटाः सेन्द्रास्तुष्टुवुर्लोकमातरम् ॥९६॥
॥ अथ देवादिकृतश्रीलक्ष्मीस्तुतिः ॥
॥ देवा ऊचुः ॥
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमोनमः ॥
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमोनमः ॥९९॥
प्रसन्नमुखपद्मायै पद्मकान्त्यै नमोनमः ॥
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमोनमः ॥१००॥
विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमोनमः ॥
पक्वबिल्वफलापीनतुंगस्तन्यै नमोनमः ॥१०१॥
सुरक्तपद्मपत्राभकरपादतले शुभे ॥
सुरत्नांगदकेयूरकांचीनूपुरशोभिते ॥
यक्षकर्दमसंलिप्तसर्वांगे कटकोज्ज्वले ॥१०२॥
मांगल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥
ताटंकैरवतंसैश्च शोभमानमुखांबुजे ॥१०३॥
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥
ऋग्यजुःसामरूपायै विद्यायै ते नमोनमः ॥१०४॥
प्रसीदास्मान्कृपादृष्टिपातैरालोकयाब्धिजे ॥
ये दृष्टास्ते त्वया ब्रह्मरुद्रेंद्रत्वं समाप्नुयुः ॥१०५॥
॥ अथ इंद्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् ॥
॥ श्रीशुक उवाच ॥
इति स्तुता तदा दैवैर्विष्णुवक्षःस्थलालया ॥
विष्णुना सह संदृश्या रमा प्रीतावदत्सुरान् ॥१०६॥
॥ श्रीरुवाच ॥
सुरारीन्सहसा हत्वा स्वपदानि गमिष्यथ ॥
ये स्थानहीनाः स्वस्थानाद्भ्रंशिता ये नरा भुवि ॥१०७॥
ते मामनेन स्तोत्रेण स्तुत्वा स्थानमवाप्नुयुः ॥
अखंडैर्बिल्वपत्रैर्मामर्चयंति नरा भुवि ॥१०८॥
स्तोत्रेणानेन ये देवा नरा युष्मत्कृतेन वै ॥
धर्मार्थकाममोक्षाणामाकरास्ते भवन्ति वै ॥१०९॥
इदं पद्मसरो देवा ये केचन नरा भुवि ॥
प्राप्य स्नानं करिष्यन्ति मां स्तुत्वा विष्णुवल्लभाम् ॥११०॥
तेऽपि श्रियं दीर्घमायुर्विद्यां पुत्रान्सुवर्चसः ॥
लब्ध्वा भोगांश्च भुक्त्वाऽन्ते नरा मोक्षमवाप्नुयुः ॥१११॥
इति दत्त्वा वरं देवी देवेन सह विष्णुना ॥
आरुह्य गरुडेशानं वैकुण्ठस्थानमाययौ ॥११२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे वसु नामक निषादवृत्तान्तपद्मसरोमाहात्म्यादिवर्णनंनाम नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : August 11, 2024
TOP