संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
आकाशगंगातीर्थस्य माहात्म्यं प्रवदाम्यहम् ॥१॥
आकाशगंगानिकटे सर्वशास्त्रार्थपारगः ॥
रामानुज इति ख्यातो विष्णुभक्तो जितेन्द्रियः ॥२॥
तपश्चकार धर्मात्मा वैखानसमते स्थितः ॥
ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः ॥३॥
जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम् ॥
वर्षास्वाकाशगो नित्यं हेमन्तेषु जलेशयः ॥४॥
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोभवत् ॥५॥
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥६॥
॥ अथाकाशगंगातीरे रामानुजतपस्तुष्टभगवदाविर्भावः ॥
अथ तत्तपसा तुष्टो भगवान्भक्तवत्सलः ॥
प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः ॥७॥
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ॥
विनतानन्दनारूढश्छत्रचामरशोभितः ॥८॥
हारकेयूरमुकुटः कटकादिविभूषितः ॥
विष्वक्सेनसुनन्दादि किङ्करैः परिवारितः ॥९॥
वीणावेणुमृदंगादिवादकैर्नारदादिभिः ॥
गीयमानः सुविभवः पीताम्बरविराजितः ॥१०॥
लक्ष्मीविराजितोरस्को नीलमेघनिवच्छविः ॥
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ॥११॥
मन्दस्मितेन सकलं मोहयन्भुवनत्रयम् ॥
स्वभासा मानयन्सर्वा दिशो दश विराजयन् ॥१२॥
सुभक्तसुलभो देवो वेंकटेशो दयानिधिः ॥
पुनः सन्निदधे तस्य रामानुजमहामुनेः ॥१३॥
आविर्भूतं तदा दृष्ट्वा श्रीनिवासं कृपानिधिम् ॥
पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः ॥१४॥
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम् ॥१५॥
॥ अथ रामानुजाख्यविप्रकृतभगवत्स्तुतिः ॥
॥ रामानुज उवाच ॥
नमो देवाधिदेवाय शङ्खचक्रगदाभृते ॥
नमो नित्याय शुद्धाय वेंकटशाय ते नमः ॥१६॥
नमो भक्तार्तिहंत्रे ते हव्यकव्यस्वरूपिणे ॥
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे ॥१७॥
नमः परेशाय नमोऽतिभूम्ने नमोऽस्तु लक्ष्मीपतये विधात्रे ॥
नमोऽस्तु सूर्येन्दुविलोचनाय नमो विरिञ्चाद्यभिवन्दिताय ॥१८॥
यो नाम जात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥
समस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशकाय॥१९॥
वेदांतवेद्याय रमेश्वराय वृषादिवासाय विधातृपित्रे ॥
नमोनमः सर्वजनार्तिहारिणे नारायणायामितविक्रमाय ॥२०॥
नमस्तुभ्यं भगवते वासुदेवाय शार्ङ्गिणे ॥
भूयोभूयो नमस्तुभ्यं वेंकटाद्रिनिवासिने ॥२१॥
इति स्तुत्वा वेंकटेशं श्रीनिवासं जगद्गुरुम् ॥
रामानुजो मुनिस्तूष्णीमास्ते विप्रवरोत्तमः ॥२२॥
श्रुत्वा स्तुतिं श्रुतिसुखां स्तुतस्तस्य महात्मनः ॥
अवाप परमं तोषं वेंकटाचलनायकः ॥२३॥
अथालिङ्ग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ॥
बभाषे प्रीतिसंयुक्तो वरं वै व्रियतामिति ॥२४॥
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ॥
नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥२५॥
॥ अथ रामानुजाख्यविप्रकृतभगवत्प्रार्थना ॥
॥ रामानुज उवाच ॥
नारायण रमानाथ श्रीनिवास जगन्मय ॥
जनार्दन जगद्धाम गोविन्द नरकान्तक ॥२६॥
त्वद्दर्शनात्कृतार्थोऽस्मि वेंकटाद्रिशिरोमणे ॥
त्वां नमस्यंति धर्मिष्ठा यतस्त्वं धर्मपालकः ॥२७॥
यं न वेत्ति भवो ब्रह्मा यं न वेत्ति त्रयी तथा ॥
त्वां वेद्मि परमात्मानं किमस्मादधिकं परम् ॥२८॥
योगिनो यं न पश्यंति यं न पश्यंति कर्मठाः ॥
पश्यामि परमात्मानं किमस्मादधिकं परम् ॥२९॥
एतेन च कृतार्थोऽस्मि वेंकटेश जगत्पते ॥
यन्नामस्मृतिमात्रेण महापातकिनोऽपि च ॥३०॥
मुक्तिं प्रयांति मनुजास्तं पश्यामि जनार्दनम् ॥
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे ॥३१॥
॥ अथ भगवद्वर्णिताकाशगंगातीर्थस्नानकालः ॥
॥ श्रीभगवानुवाच ॥
मयि भक्तिर्दृढा तेस्तु रामानुज महामते ॥
शृणु चाप्यपरं वाक्यमुच्यते ते मया द्विज ॥३२॥
मेषसंक्रमणे भानोश्चित्रानक्षत्रसंयुते ॥
पौर्णमास्यां च गंगायां स्नानं कुर्वन्ति ये जनाः ॥३३॥
ते यांति परमं धाम पुनरावृत्तिवर्जितम् ॥
वियद्गंगासमीपे त्वं वस रामानुज द्विज ॥३४॥
एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ॥
बहुना किमिहोक्तेन वियद्गंगाजले शुभे ॥३५॥
स्नान्ति ये वै जनाः सर्वे ते वै भागवतोत्तमाः ॥
भवन्ति मुनिशार्दूल नात्र कार्या विचारणा ॥३६॥
॥ रामानुज उवाच ॥
किंलक्षणा भागवता ज्ञायन्ते केन कर्मणा ॥
एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥३७॥
॥ अथ भगवद्वर्णितभागवतलक्षणानि ॥
॥ श्रीवेंकटेश उवाच ॥
लक्ष्म भागवतानां तु शृणुष्व मुनिसत्तम ॥३८॥
वक्तुं तेषां प्रभावं तु शक्यते नाब्दकोटिभिः ॥३९॥
ये हिताः सर्वजन्तूनां गतासूया विमत्सराः ॥
ज्ञानिनो निःस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥४०॥
कर्मणा मनसा वाचा परपीडां न कुर्वते ॥
अपरिग्रहशीलाश्च ते वै भागवतोत्तमाः ॥४१॥
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ॥४२॥
मातापित्रोश्च शुश्रूषां कुर्वते ये नरोत्तमाः ॥
ये तु देवार्चनरता ये तु तत्साधका नराः ॥
पूजां दृष्ट्वा तु मोदन्ते ते वै भागवतोत्तमाः ॥४३॥
वर्णिनां च यतीनां च परिचर्यापराश्च ये ॥
परनिन्दामकुर्वाणास्ते वै भागवतोत्तमाः ॥४४॥
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ॥
ये गुणग्राहिणो लोके ते वै भागवतोत्तमाः ॥४५॥
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ॥
तुल्याः शत्रुषु मित्रेषु ते वै भागवताः स्मृताः ॥४६॥
धर्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥
तेषां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥४७॥
व्याकुर्वन्ति पुराणानि तानि शृण्वन्ति ये तथा ॥
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥४८॥
ये गोब्राह्मणशुश्रूषां कुर्वन्ति सततं नराः ॥
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥४९॥
अन्येषामुदयं दृष्ट्वा येऽभिनन्दंति मानवाः ॥
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥५०॥
आरामारोपणरतास्तटाकपरिरक्षकाः ॥
कासारकूपकर्तारस्ते वै भागवतोत्तमाः ॥५१॥
ये वै तटाककर्तारो देवसद्मानि कुर्वते ॥
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥५२॥
येऽभिनन्दंति नामानि हरेः श्रुत्वाऽतिहर्षिताः ॥
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥५३॥
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः ॥
तत्काष्ठांकितकर्णा ये ते वै भागवतोत्तमाः ॥५४॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥
तन्मूलमुद्धरा ये च ते वै भागवतोत्तमाः ॥५५॥
स्वाश्रमाचारनिरतास्तथैवातिथिपूजकाः ॥
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥५६॥
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ॥
सर्वत्र गुणभाजो ये ते वै भागवतोत्तमाः ॥५७॥
पानीयदाननिरता ह्यन्नदानरताश्च ये ॥
एकादशीव्रतपरास्ते वै भागवतोत्तमाः ॥५८॥
गोदाननिरता ये च कन्यादानरताश्च ये ॥
मदर्थं कर्मकर्तारस्ते वै भागवतोत्तमाः ॥५९॥
मन्मानसाश्च मद्भक्ता ये मद्भजनलोलुपाः ॥
मन्नामस्मरणासक्तास्ते वै भागवतोत्तमाः ॥६०॥
बहुनात्र किमुक्तेन संक्षेपात्ते ब्रवीम्यहम् ॥
सद्गुणाय प्रवर्तंते ते वै भागवतोत्तमाः ॥६१॥
एते भागवता विप्राः केचिदत्र प्रकीर्तिताः ॥
ममापि गदितुं शक्या नाब्दकोटिशतैरपि ॥६२॥
रामानुज महाभाग मद्भक्तानां च लक्षणम् ॥
मयि भक्ते त्वयि प्रीत्या युक्तं किल महामते ॥६३॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्राः शौनकाद्या महौजसः ॥
वृषाद्रौ च वियद्गंगातीर्थमाहात्म्यमुत्तमम ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये आकाशगंगामाहात्म्य रामानुजविप्रव्रतचर्यादिवर्णनंनामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : August 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP