वेङ्कटाचलमाहात्म्यम् - अध्यायः १
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
वेङ्कटाचलमाहात्म्यम्
नारदस्य सुमेरुशिखरस्थयज्ञवराहदर्शनम्
पावने नैमिषारण्ये शौनकाद्या महर्षयः ॥
चक्रिरे लोकरक्षार्थं सत्रं द्वादशवार्षिकम् ॥१॥
तानभ्यगच्छत्कथको व्यासशिष्यो महामतिः ॥
मुनिरुग्रश्रवा नाम रोमहर्षणसम्भवः ॥२॥
सम्यगभ्यर्चितस्त्वेषां सूतः पौराणिकोत्तमः
कथयामास तद्दिव्यं पुराणं स्कन्दनामकम् ॥३॥
सृष्टिसंहारवंशानां वंशानुचरितस्य च
कथां मन्वन्तराणां च विस्तरात्स न्यवेदयत् ॥४॥
कथास्तीर्थप्रभावाणां श्रुत्वा ते मुनिपुङ्गवाः ॥
ऊचिरे वशिनं सूतं कथाश्रवणकाङ्क्षया ॥५॥
॥ऋषय ऊचुः ॥
रोमहर्षण सर्वज्ञ पुराणार्थविशारद ॥
माहात्म्यं श्रोतुमिच्छामो गिरीन्द्राणां महीतले ॥
ब्रूहि त्वं नो महाभाग के प्रधाना महीधराः ॥६॥
॥श्रीसूत उवाच ॥
एतमेव पुरा प्रश्नमपृच्छं जाह्नवीतटे ॥
व्यासं मुनिवरश्रेष्ठं सोऽब्रवीन्मे गुरूत्तमः ॥७॥
॥व्यास उवाच॥
पुरा देवयुगे सूत नारदो मुनिसत्तमः
सुमेरुशिखरं गत्वा नानारत्नसुशोभिनम् ॥८॥
तन्मध्ये विपुलं दीप्तं ब्रह्मणो दिव्यमालयम्
दृष्ट्वा तस्योत्तरे देशे पिप्पलद्रुममुत्तमम् ॥९॥
सहस्रयोजनोच्छ्रायं विस्तीर्णं द्विगुणं तथा
तन्मूले मण्डपं दिव्यं नानारत्नसमन्वितम् ॥१०॥
पद्मरागमणिस्तम्भैः सहस्रैः समलंकृतम् ॥
वैडूर्यमुक्तामणिभिः कृतस्वस्तिकमालिकम् ॥११॥
नवरत्नसमाकीर्णं दिव्यतोरणशोभितम्
मृगपक्षिभिराकीर्णं नवरत्नमयैः शुभैः ॥१२॥
पुष्परागमहाद्वारं सप्तभूमिकगोपुरम् ॥
सन्दीप्तवज्रसुकृतकवाटद्वयशोभितम् ॥१३॥
प्रविश्याऽसौ ददर्शान्तर्दिव्यमौक्तिकमण्डपम् ॥
वैडूर्यवेदिकं तुङ्गमारुरोह महामुनिः ॥१४॥
तन्मध्ये तुङ्गमतुलं वसुपादविराजितम् ॥
ददर्श मुक्तासङ्कीर्णं सिंहासनं महाद्युति ॥१५॥
तन्मध्ये पुष्करं दिव्यं सहस्रदलशोभितम् ॥
श्वेतं चन्द्रसहस्राभं कर्णिकाकेसरोज्ज्वलम् ॥१६॥
तस्य मध्ये समासीनं पूर्णचन्द्रायुतप्रभम्॥
कैलासपर्वताकारं सुन्दरं पुरुषाकृतिम् ॥१७॥
चतुर्बाहुमुदारांगं वराहवदनं शुभम्॥
शंखचक्राभयवरान्बिभ्राणं पुरुषोत्तमम् ॥१८॥
पीताम्बरधरं देवं पुंडरीकायतेक्षणम्॥
पूर्णेंदुसौम्यवदनं धूपगंधिमुखांबुजम् ॥१९॥
सामध्वनिं यज्ञमूर्तिं स्रुक्तुण्डं स्रुवनासिकम्॥
क्षीरसागरसंकाशं किरीटोज्ज्वलिताननम्॥२०॥
श्रीवत्सवक्षसं शुभ्रयज्ञसूत्रविराजितम्॥
कौस्तुभश्रीसमुद्द्योतं समुन्नतमहोरसम् ॥२१॥
जांबूनदमयैर्दिव्यैः सुरत्नाभरणैर्युतम्॥
विद्युन्मालापरिक्षिप्तशरन्मेघमिवोज्ज्वलम् ॥२२॥
वामपादतलाक्रांतपादपीठविराजितम्॥
कटकांगदकेयूरकुण्डलोज्ज्वलितं सदा ॥२३॥
चतुर्मुखवसिष्ठात्रिमार्कण्डेयैर्मुनीश्वरैः॥
भृग्वादिभिरनेकैश्च सेव्यमानमहर्निशम् ॥२४॥
इन्द्रादिलोकपालैश्च गन्धर्वाप्सरसां गणैः ॥
सेवितं देवदेवेशं प्रणिपत्याभिगम्य च ॥२५॥
दिव्यैरुपनिषद्भागैरभिष्टूय धराधरम् ॥
नारदः परमप्रीतः स्थितो देवस्य सन्निधौ ॥२६॥
अथ वराहसन्निधिं प्रति धरण्यागमनम् ॥
एतस्मिन्नंतरे चाभूद्दिव्यदुन्दुभिनिःस्वनः ॥२७॥
ततस्तमागता देवी धरणी सखिसंयुता ॥
सुरत्नसागराकारदिव्यांबरसमुज्ज्वला ॥२८॥
सुमेरुमन्दराकारस्तनभारावनामिता ॥
नवदूर्वादलश्यामा सर्वाभरणभूषिता ॥२९॥
इलया वै पिंगलया सखीभ्यां च समन्विता ॥
ततस्ताभ्यां समानीतं पुष्पाणां निचयं मही ॥३०॥
श्रीमद्वराहदेवस्य पादमूले विकीर्य च ॥
प्रणम्य देवदेवेशं कृताञ्जलिपुटा स्थिता ॥३१॥
तां देवीं श्रीवराहोऽपि ह्यालिंग्यांके निधाय च ॥३२॥
॥ अथ धरणिवराहसंवादः ॥
पप्रच्छ कुशलं पृथ्वीं प्रीतिप्रवणमानसः ॥३३॥
॥ श्रीवराह उवाच ॥
त्वां निवेश्य महीदेवि शेषशीर्षे सुखावहे ॥
लोकं त्वयि निवेश्यैव त्वत्सहायान्धराधरान् ॥
हहागतोऽस्म्यहं देवि किमर्थं त्वमिहागता ॥३४॥
॥ पृथिव्युवाच ॥
मां समुद्धृत्य पातालात्सहस्रफणशोभिते ॥
रत्नपीठ इवोत्तुंगे सरत्नेऽनन्तमूर्धनि ॥
कृत्वा मां सुस्थिरां देव भूधरान्संनिवेश्य च ॥३५॥
मद्धारणक्षमान्पुण्यांस्त्वन्मयान्पुरुषोत्तम ॥
तेषु मुख्यान्महाबाहो मदाधारान्वदस्व मे ॥३६॥
अथ शेषाचलस्यसर्वपर्वतातिशायित्ववर्णनम् ॥
॥ श्रीवराह उवाच ॥
सुमेरुर्हिमवान्विंध्यो मन्दरो गंधमादनः ॥
सालग्रामश्चित्रकूटो माल्यवान्पारियात्रकः ॥३७॥
महेंद्रो मलयः सह्यः सिंहाद्रिरपि रैवतः ॥
मेरुपुत्रोऽञ्जनो नाम शैलः स्वर्णमयो महान् ॥३८॥
एते शैलवराः सर्वे त्वदाधारा वसुन्धरे ॥
ये मया देवसंघैश्च ऋषिसंघैश्च सेविताः ॥३९॥
एतेषु प्रवरान्वक्ष्ये तत्त्वतः शृणु माधवि ॥
सालग्रामश्च सिंहाद्रिश्शैलेंद्रो गन्धमादनः॥४०॥
एते शैलवरा देवि दिशं हैमवतीं श्रिताः ॥
दक्षिणस्यां प्रतीतांस्तु वक्ष्ये शैलान्वसुन्धरे ॥४१॥
अरुणाद्रिर्हस्तिशैलो गृध्राद्रिर्घटिकाचलः ॥
एते शैलवराः सर्वे क्षीरनद्यास्समीपगाः ॥४२॥
हस्तिशैलादुत्तरतः पंचयोजनमात्रतः ॥
सुवर्णमुखरीनाम नदीनां प्रवरा नदी ॥४३॥
तस्या एवोत्तरे तीरे कमलाख्यं सरोवरम् ॥
तत्तीरे भगवानास्ते शुकस्य वरदो हरिः॥४४॥
बलभद्रेण संयुक्तः कृष्णो भक्तार्तिनाशनः॥
वैखानसैर्मुनिगणैर्नित्यमाराधितोऽमलैः ४५॥
कमलाख्यस्य सरस उत्तरे काननोत्तमे ॥
क्रोशद्वयार्धमात्रे तु हरिचंदनशोभिते ॥
श्रीवेंकटाचलोनाम वासुदेवालयो महान् ॥४६॥
सप्तयोजनविस्तीर्णः शैलेन्द्रो योजनोच्छ्रितः ॥
अस्ति स्वर्णमयो देवि रत्नसानुभृदायतः ॥४७॥
इन्द्राद्या दैवतगणा वसिष्ठाद्या मुनीश्वराः॥
सिद्धाः साध्याश्च मरुतो दानवा दैत्यराक्षसाः ॥
रम्भाद्या अप्सरःसंघा वसन्ति नियतं धरे ॥४०॥
तपश्चरंति नागाश्च गरुडाः किन्नरास्तथा ॥
एतैरधिष्ठितास्तत्र सरितः पुण्यदर्शनाः ॥
सरांसि विविधान्यत्र संति दिव्यानि माधवि ॥४९॥
॥ अथ स्वामिपुष्करिण्याः सर्वतीर्थातिशायित्ववर्णनम् ॥
तीर्थानां चैव सर्वेषां शृणुष्व प्रवराणि वै ॥५०॥
चक्रतीर्थं दैवतीर्थं वियद्गंगा तथैव च ॥
कुमारधारिकातीर्थं पापनाशनमेव च ॥
पाण्डवं नाम तीर्थं च स्वामिपुष्करिणी तथा ॥५१॥
सप्तैतानि वराण्याहुर्नारायणगिरौ शुभे ॥
एतेषु प्रवरा देवि स्वामिपुष्करिणी शुभा ॥५२॥
अस्यास्तु पश्चिमे तीरं निवसामि त्वया सह ॥
आस्तेऽस्या दक्षिणे तीरं श्रीनिवासो जगत्पतिः ॥५३॥
गंगाद्यैः सकलैस्तीर्थैः समा सा सागराम्बरे ॥
त्रैलोक्ये यानि तीर्थानि सरांसि सरितस्तथा ॥
तेषां स्वामित्वमापन्नं धरे स्वामिसरोवरे ॥५४॥
स्वामिपुष्करिणीं पुण्यां सेवितुं दिव्यभूधरे ॥
वसन्ति सर्वतीर्थानि तेषां संख्यां वदामि ते ॥५५॥
षट्षष्टिकोटितीर्थानि पुण्येऽस्मिन्भूधरोत्तमे ॥
तेषु चात्यंतमुख्यानि षट् तीर्थानि वसुन्धरे ॥५६॥
पञ्चानां तीर्थराजानां तुम्बो गर्भसमो महान् ॥
गर्भवासभयध्वंसी स्नातानां भूधरोत्तमे ॥५७॥
॥ धरण्युवाच ॥
षट् तीर्थानि महाबाहो त्वयोक्तानि महीधरे ॥
माहात्म्यं वद तेषां मे यथाकालं यथाविधि ॥
फलानि तेषु स्नातानां नराणां वद भूधर ॥५८॥
॥ श्रीवराह उवाच ॥
नारायणाद्रिमाहात्म्यं वदामि शृणु माधवि ॥५९॥
देवाश्च ऋषयश्चैव योगिनः सनकादयः ॥
कृतेंऽजनाद्रिं त्रेतायां नारायणगिरिं तथा ॥६०॥
द्वापरे सिंहशैलं च कलौ श्रीवेङ्कटाचलम् ॥
प्रवदन्तीह विद्वांसः परमात्मालयं गिरिम् ॥६१॥
योजनानां सहस्रान्ते द्वीपांतरगतोऽपि वा ॥
यो नमेद्भूधरेन्द्रं तद्दिशमुद्दिश्य भक्तितः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥६२॥
तस्मिन्षट्तीर्थमाहात्म्यं यथाकालं वदामि ते ॥६३॥
॥ अथ कुमारधारामाहात्म्यम् ॥
शृणुष्वावहिता भद्रे सर्वपापप्रणाशनम् ॥
कुभसंस्थे रवौ माघे पौर्णमास्यां महातिथौ ॥६४॥
मघानक्षत्रयुक्तायां भूधरेन्द्रे वसुन्धरे ॥
कुमारधारिकानाम सरसी लोकपावनी ॥६५॥
यत्रास्ते पार्वतीसूनुः कार्तिकेयोऽग्निसंभवः ॥
देवसेनासमायुक्तः श्रीनिवासार्चकोऽमले ॥६६॥
तस्यां यः स्नाति मध्याह्ने तस्य पुण्यफलं शृणु ॥
गंगादिसर्वतीर्थेषु यः स्नाति नियमाद्धरं ॥
द्वादशाब्दं जगद्धात्रि तत्फलं समवाप्नुयात् ॥६७॥
योऽन्नं ददाति तत्तीर्थे शक्त्या दक्षिणयान्वितम् ॥
स तावत्फलमाप्नोति स्नाने तूक्तं फलं यथा ॥६८॥
॥ अथ तुंबतीर्थमाहात्म्यम् ॥
मानसंस्थे सवितरि पौर्णमासीतिथौ धरे ॥
उत्तराफाल्गुनीयुक्ते चतुर्थे काल उत्तमे ॥६९॥
पंचानामपि तीर्थानां तुंबेऽथ गिरिगह्वरे ॥
यः स्नाति मनुजो देवि पुनर्गर्भे न जायते ॥७०॥
अथ आकाशगंगामाहात्म्यम् ॥
अग्निवाहस्थिते भानौ चित्रानक्षत्रसंयुते ॥
पूर्णिमाख्ये तिथौ पुण्ये प्रातःकाले तथैव च ॥
आकाशगंगासरिति स्नातो मोक्षमवाप्नुयात् ॥७१॥
॥ अथ पाण्डवतीर्थमाहात्म्यम् ॥
वृषभस्थे रवौ राधे द्वादश्यां रविवासरे ॥
शुक्ले वाप्यथ वा कृष्णे पक्षे भौमसमन्विते ॥७२॥
शुक्ले वाप्यथवा कृष्णे भानुवारेण संयुते ॥
पुष्यनक्षत्रसंयुक्त हस्तर्क्षेण युतेऽपि वा ॥७३॥
तीर्थे पांडवनाम्न्यत्र संगवे स्नाति यो नरः ॥
नेह दुःखमवाप्नोति परत्र सुखमश्नुते ॥७४॥
अथ पापनाशनतीर्थमाहात्म्यम् ॥
शुक्ले पक्षेऽथ वा कृष्णे यार्कवारेण सप्तमी ॥
पुष्यनक्षत्रसंयुक्ता हस्तर्क्षेण युतापि वा ॥७५॥
तस्यां तिथौ महाभागे पापनाशनसंज्ञके ॥
तीर्थे यः स्नाति नियमाद्भूधरेन्द्रस्य मस्तके ॥७६॥
कोटिजन्मार्जितैः पापैर्मुच्यते स नरोत्तमः ॥७७॥
॥ अथ देवतीर्थमाहात्म्यम् ॥
शृणु देवि परं गुह्यमनन्ताख्ये महागिरौ ॥
मद्दिव्यालयवायव्ये शिखरे गिरिगह्वरे ॥
देवतीर्थमिति ख्यातं तटाकमतिशोभनम् ॥७८॥
तस्मिन्पुण्यतमे देवि स्नानकालं वदामि ते ॥७९॥
गुरुपुष्ये व्यतीपाते सोमश्रवणके तथा ॥
दिनेष्वेतेषु यः स्नाति तस्य पुण्यफलं शृणु ॥८०॥
यानि कानीह पापानि ज्ञानाज्ञानकृतानि च ॥
तानि सर्वाणि नश्यंति देवतीर्थेऽतिपावने ॥८१॥
पुण्यान्यपि च वर्धंते देवतीर्थनिमज्जनात ॥
दीर्घमायुरवाप्नोति पुत्रपौत्रसमन्वितः ॥
अन्ते स्वर्गं समासाद्य चन्द्रलोके महीयते ॥८२॥
तद्दिनेष्वन्नदो देवि यावज्जीवान्नदो भवेत् ॥
अतिगुह्यतमं देवि प्रोक्तं तुभ्यं वसुन्धरे ॥८३॥
॥ व्यास उवाच ॥
श्रुत्वाथ पृथिवी देवी प्रीतिप्रवणमानसा ॥
इष्टाभिर्वाग्भिरतुलं तुष्टाव धरणीधरम् ॥८४॥
॥ अथ धरणीकृत वराहस्तुतिः ॥
॥ धरण्युवाच ॥
नमस्ते देवदेवेश वराहवदनाच्युत ॥
क्षीरसागरसंकाश वज्रशृंग महाभुज ॥८५॥
उद्धृतास्मि त्वया देव कल्पादौ सागरांभसः ॥
सहस्रबाहुना विष्णो धारयामि जगन्त्यहम् ॥८६॥
अनेकदिव्याभरणयज्ञसूत्रविराजित ॥
अरुणारुणांबरधर दिव्यरत्नविभूषित ॥८७॥
उद्यद्भानुप्रतीकाशपादपद्म नमोनमः ॥
बालचंद्राभदंष्ट्राग्रमहाबलपराक्रम ॥८८॥
दिव्यचन्दनलिप्तांग तप्तकांचनकुण्डल ॥
इन्द्रनीलमणिद्योतिहेमांगदविभूषित ॥८९॥
वज्रदंष्ट्राग्रनिर्भिन्नहिणयाक्ष महाबल ॥
पुण्डरीकाभिरामाक्ष सामस्वनमनोहर ॥९०॥
श्रुतिसीमन्तभूषात्मन्सर्वात्मश्चारुविक्रम ॥
चतुराननशंभुभ्यां वन्दिताऽऽयतलोचन ॥९१॥
सर्वविद्यामयाकार शब्दातीत नमो नमः ॥
आनंदविग्रहाऽनन्त कालकाल नमोनमः ॥९२॥
इति स्तुत्वाऽचला देवी ववन्दे पादयोर्विभुम् ॥
वन्दमाना समुद्वीक्ष्य देवः फुल्लविलोचनः ॥९३॥
उद्धृत्य धरणीं देवीमालिलिंगेऽथ बाहुभिः ॥
आघ्राय धरणीवक्त्रं वामांके सन्निवेश्य च ॥९४॥
अथ वराहस्य भगवतो धरण्या साकं शेषाचलागमनम् ॥
आरुह्य गरुडेशानं जगाम वृषभाचलम् ॥
मुनींद्रैर्नारदाद्यैश्च स्तूयमानो महीपतिः ॥९५॥
स्वामिपुष्करिणीतीरे पश्चिमे लोकपूजिते ॥
आस्ते वराहवदनो मुनीन्द्रैस्तत्र पूजितः ॥
वैखानसैर्महाभागैर्ब्रह्मतुल्यैर्महात्मभिः ॥९६॥
॥ अथ वेंकटाचलमाहात्म्यश्रवणावसरः ॥
॥ व्यास उवाच ॥
तं दृष्ट्वा नारदः सूत मुनीनामुक्तवान्पुरा ॥
तदेतदहमश्रौषं तत्र वै मुनिसंसदि ॥९७॥
यत्पृष्टोऽहं त्वया सूत माहात्म्यं धरणीभृताम् ॥
मया तूक्तं यथावद्धि नारदाच्च पुरा श्रुतम् ॥९८॥
॥ अथाध्यायफलश्रुतिः ॥
य इदं धर्मसंवादमावयोः सूत पावनम् ॥
पठेद्वा देवपुरतो ब्राह्मणानां पुरस्तथा ॥९९॥
सर्वेषामपि वर्णानां शृण्वतां भक्तिपूर्वकम् ॥
स प्रतिष्ठामवाप्नोति पुत्रपौत्रैः समन्वितः ॥१००॥
शृण्वतामपि सर्वेषां यदिष्टं तद्भविष्यति ॥१०१॥
॥ सूत उवाच ॥
इति मे भगवान्व्यासः प्रोवाच मुनिसेवितः ॥
यथाश्रुतं मया पूर्वं कृष्णद्वैपायनाद्गुरोः ॥१०२॥
तत्तथा सर्वमेवात्र मयाप्युक्तं मुनीश्वराः ॥
श्रुत्वा सूतवचस्त्वित्थं ते प्रीतमनसोऽभवन् ॥१०३॥
॥ ऋषय ऊचुः ॥
सूत त्वयोक्तं भुवि पर्वतेषु पुण्येषु पुण्यस्य महीधरस्य ॥
माहात्म्यमस्माकमहीन्द्रनाम्नः पापापहं मोक्षफलप्रदायकम् ॥१०४॥
ततो वृषाद्रिं संप्राप्य वराहो धरणीयुतः ॥
किमुक्तवान्धरण्यै स तन्नो ब्रूहि महामते ॥१०५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे नारदस्य सुमेरुशिखरस्थ यज्ञवराहदर्शनप्राप्त्यादिवर्णनंनाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : August 05, 2024
TOP