वेङ्कटाचलमाहात्म्यम् - अध्यायः ३०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
तथा सर्वाणि तीर्थानि समालोक्यागतस्य च ॥
मुदं प्रगुणयाञ्चके सा पार्थस्य महापगा ॥१॥
यस्यास्तटनिकुञ्जेषु मोदन्ते वनिताः सुखाः ॥
सिद्धाः संसेविता वातैः शीकरासारशीतलैः ॥२॥
या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ॥
आलिंगितुं समुत्तुंगैः कल्लोलैरभ्रसंगिभिः ॥३॥
धूमैराहुतिसंभूतैस्तरुशाखोपलंभिभिः ॥
वल्कलैश्च विराजन्ते यत्तटाश्रमभूमयः ॥४॥
मुनीन्द्रैः सुरवर्यैश्च स्थापितानि समन्ततः ॥
यत्तटद्वितये भांति दिव्यलिंगानि शूलिनः ॥५॥
यदीयसैकतावासविश्रान्ता मानसं सरः ॥
न स्मरंति निजावासं मराला विहगोत्तमाः ॥६॥
शमितावग्रहातंकैः कुल्यामुखविनिर्गतैः ॥
पुष्णाति तोयैः सस्यानि लोकरक्षाक्षमाणि या ॥७॥
चक्रवाककुचोत्तुंगवीचिवल्लीविभूषिता ॥
आवर्तनाभिविलसत्सैकतश्रोणि मण्डला ॥८॥
प्रफुल्लपद्मवदना चलन्मीनयुगेक्षणा ॥
विलसत्फेनवसना हंसयानमनोहरा ॥९॥
जलपक्षिरवालापा नयनानन्दकारिणी ॥
अपूर्वकामिनीरूपा या विभात्यम्बुधिप्रिया ॥१०॥
रोधस्यन्तरवाहिन्या नद्याः प्राच्यां धनञ्जयः ॥
ददर्श शैलमुत्तुंगं कालहस्तिसमाहयम् ॥११॥
उदग्रशिखराभोगोल्लिखिताकाशमण्डलम् ॥
सप्तपातालमूलाधोरूढमूलोपलांचितम् ॥१२॥
॥ अथ अर्जुनस्य स्वर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः ॥
स्नात्वा तस्यां महानद्यां तस्मिञ्छैले सुरार्चितम् ॥
अपश्यदर्जुनो देवं कालहस्तीशनामकम् ॥१३॥
संपूज्य च महादेवं नगेन्द्रतनयासखम् ॥
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ॥१४॥
ततो महागिरौ तस्मिन्नद्भुतैकनिकेतने ॥
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ॥१५॥
सिद्धानालोकयामास वसतो गिरिसानुषु ॥
गायतो देवदेवस्य चरित्राण्यबलायुतान् ॥१६॥
अप्सरोललनाजुष्टान्पुष्पासवमदाकुलान् ॥
निकुञ्जेषु समासीनान्गंधर्वानैक्षतादरात् ॥१७॥
विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ॥
अपश्यद्योगिनो दिव्यानादरानन्दशालिनः ॥१८॥
प्रशान्तान्याश्रमपदान्यवैक्षत समंततः ॥
बलिनीवारविलसद्द्वारभूमीश्च पाण्डवः ॥१९॥
निराहारान्वायुभुजः पर्णादानातपाशनान् ॥
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ॥२०॥
मुदं वितेनिरे तस्य नेत्रयोः कमलाकराः॥
फुल्लसौगन्धिकामोदसंवासितदिगन्तराः ॥२१॥
मृगयासंभृतधियश्चरतोऽधिज्यकार्मुकान् ॥२२॥
॥ अथाऽर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् ॥
ददर्शान्वेषितमृगान्किरातान्वनितायुतान् ॥
ततो दक्षिणदिग्भागे चरन्नद्रेर्मनोहरे ॥२३॥
पुण्यमाश्रममद्राक्षीद्भरद्वाजस्य कौरवः ॥
कदलीनारिकेलाम्रकोलचंपकचंदनैः ॥२४॥
तक्कोलाशोकहिन्तालतालकेतकिदाडिमैः ॥
जंबूकदम्वकतकखदिरार्जुनपाटलैः ॥२५॥
नागपुन्नागसरलदेवदारुकरञ्जकैः ॥
लवंगलुंगलवलीप्रियंगुतिलकैरपि ॥२६॥
बिभीतश्रीफलाश्वत्थमधूकप्लक्षकेसरैः ॥
पूगजम्बीरनारंगनिम्बामलककौशिकैः ॥२७॥
अन्यैश्च फलपुष्पाढ्यैः शोभितं धरणीरुहैः ॥
वासन्तीकुन्दजात्यादिलताभिः परिवेष्टितम् ॥२८॥
अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ॥
चक्रवाकबकक्रौञ्चहंसकारण्डवाश्रयैः ॥२९॥
सौगन्धिकोत्पलांभोजकैरवौघविराजितैः ॥
सरोभिरमृतस्यंदिमधुरस्फारवारिभिः ॥३०॥
समापादितलक्ष्मीकं कौतुकैकनिकेतनम् ॥
सिंहदन्तावलव्याघ्रतरक्षुरुरुरङ्कुभिः ॥३१॥
मृगैरन्यैः समाकीर्णमन्योऽन्यहितकारिभिः ॥
जितचैत्ररथोद्यानमधरीकृतनन्दनम् ॥३२॥
अतिवाङ्मनसोदारं परमानन्दकारणम् ॥
शिवागमानां दिव्यानामर्थजातमनुत्तमम् ॥३३॥
प्रकाशयन्ति शावानां यत्र मञ्जुगिरः शुकाः ॥
यस्मिन्हुताशनो दारधूमश्यामलितं नभः ॥३४॥
अकालजलदभ्रांतिमातनोति शिखण्डिनाम् ॥
यस्मिन्विहारश्रान्तानां सिंहानां स्वेच्छयागताः ॥३५॥
निर्वापयन्ति गात्राणि करिणः करशीकरैः ॥
तदाश्रमपदं पश्यन्विस्मयाक्रांतमानसः ॥३६॥
प्रभावं पाण्डुतनयः प्रशशंस तपस्विनाम् ॥
निवार्य तत्र तत्रैव सकलाननुजीविनः ॥३७॥
॥ अथार्जुनकृतभरद्वाजसेवाक्रमः ॥
मित्रैर्विप्रवरैः सार्धं प्रविवेश तमाश्रमम् ॥
अग्रे ददर्श कौन्तेयः स्फुरत्पावकतेजसम् ॥३८॥
भरद्वाजं मुनिवरैरनेकैः परिवारितम् ॥
भस्मानुलिप्तसर्वांगं मृगचर्मोत्तरीयकम् ॥३९॥
नववारिदसंवीतं कैलासमिव भास्वरम् ॥
जटाभिर्लम्बमानाभिर्भास्वन्तं स्वर्णकांतिभिः ॥४०॥
स्थिरविद्युल्लताकीर्णमिव शारदनीरदम् ॥
श्रुतिस्मृति पुराणार्थैरेकीभूय समागतैः ॥४१॥
अङ्गीकृतमिवाकारं दिव्यज्ञानशुभास्पदम् ॥
धृतिक्षांतिदयातुष्टिशांतिभिर्नित्यसेवितम् ॥४२॥
प्रियाभिरिव रक्ताभिरखंडब्रह्मवर्चसम् ॥
उपगम्य शनैः पार्थस्तत्पादांबुजयोः पुरः ॥४३॥
चक्रे प्रणामं साष्टांगं समालिंगितभूतलम् ॥४४॥
॥ अथार्जुनं प्रति भरद्वाजकृतातिथ्यप्रकारः॥
तमागतं पृथापुत्रमुत्थाप्य मुनिपुङ्गवः॥
आशीर्भिरेधयाञ्चक्रे प्रहर्षोत्फुल्लमानसः ॥४५॥
संपूज्य च यथान्यायं तमर्घ्याद्यैः प्रियातिथिम्॥
विनिर्दिष्टासनासीनं समपृच्छदनामयम्॥४६॥
संमाननमवाप्यास्मान्मुनेः पाण्डवमध्यमः॥
प्रियैर्वाक्यैर्मुनिपतेरकरोन्मनसो मुदम् ॥४७॥
सस्माराथ भरद्वाजः स्वर्धेनुं कामदोहिनीम् ॥
सा वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ॥४८॥
भुक्त्वा पार्थः सानुचरस्तमुपास्य तपोनिधिम् ॥
दिनशेषं कथालापकौतुकेनात्यवाहयत् ॥४९॥
ततः सायन्तनीं संध्यामुपास्य हुतपावकः ॥
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ॥५०॥
तत्रासीनो मुनिपतेराशीर्भिरभिनन्दितः ॥
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ॥५१॥
संप्रापिता केन भुवः प्रभूता कस्मान्महीध्रादधिकप्रभावा ॥
इति प्रभावं परिपृच्छ्य नद्याः श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां भरद्वाजाश्रमवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : August 25, 2024
TOP