वेङ्कटाचलमाहात्म्यम् - अध्यायः ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ धरण्युवाच ॥
कैषा बत वरा कन्या युष्माभिः संगता कुतः ॥
किमर्थमागता चेह पूज्यैषा प्रतिभाति मे ॥१॥
॥ कन्यका ऊचुः ॥
एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता ॥
देवालये सङ्गतेयमस्माभिः शिवसन्निधौ ॥२॥
पृष्टावदच्च भवतीं द्रष्टुमेवागतेति वै ॥
शक्या द्रष्टुं राजगृहे मया राज्ञी सुखेन वा ॥३॥
एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम्॥
वयं तु धरणीदास्यो गमिष्यामो नृपालयम् ॥४॥
इत्युक्तास्माभिरायाता त्वत्समीपं वसुन्धरे॥
भवत्या पृच्छयतामेषा किमित्यागमनं तव ॥५॥
श्रीवराह उवाच ॥
इति तासां वचः श्रुत्वा तामपृच्छद्वसुन्धरा ॥६॥
॥ धरण्युवाच ॥
कुतस्त्वमागता देवि किं वा कार्यं मया तव ॥
ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम् ॥७॥
बकुलमालिकोवाच ॥
वेङ्कटाद्रेः समायाता नाम्ना बकुलमालिका ॥८॥
स्वामी नारायणोऽस्माकमास्ते श्रीवेंकटाचले ॥
कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम् ॥९॥
मृगयार्थं गतो राज्ञो वेंकटाद्रेः समीपतः ॥
वनानि विचरन्काले शोभने कुसुमाकरे ॥१०॥
पश्यन्मृगान्गजान्सिंहान्गवयाञ्छरभान्रुरून् ॥
शुकान्पारावतान्हंसान्पत्रिणोऽन्यान्वनान्तरे ॥११॥
गजराजं तत्र कञ्चिद्यूथपं मदवर्षिणम् ॥
करेणुसहितं तुंगमन्वगच्छत्सुरोत्तमः ॥१२॥
अथ श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम् ॥
वनाद्वनान्तरं गत्वा नृपं शंखमुपागमत् ॥
तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम् ॥१३॥
श्रीभूमिसहितं नित्यमर्चयन्तं च भक्तितः ॥
शंखनागबिलंनाम सरः पावनमुत्तमम् ॥१४॥
तत्सरस्तीरमासाद्य तुरंगादवरुह्य च ॥
राजवेषं समासाद्य तमपृच्छन्नृपोत्तमम् ॥१५॥
क्रियते किं नृपश्रेष्ठ पादेऽस्मिच्छेषभूभृतः ॥१६॥
॥ शंख उवाच ॥
अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः ॥
महाविष्णोः प्रीतयेऽत्र कृतवानखिलान्क्रतून् ॥१७॥
अदर्शनान्महाविष्णोर्निर्विण्णोहं नृपात्मज ॥
तदानीमवदद्दिव्या वाणी सर्वार्त्तिनाशिनी ॥१८॥
राजन्नात्र भविष्यामि प्रत्यक्षस्ते वचः शृणु ॥
गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम् ॥१९॥
ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम्॥
अत्र देवं नृपाचिंत्यं प्रतिष्ठाप्य श्रियः पतिम् ॥२०॥
अगस्त्यानुग्रहान्नित्यमर्चयामि विधानतः ॥
इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः॥२१॥
गच्छ नारायणाद्रिं त्वमस्य पादे किमास्यते ॥
आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम् ॥२२॥
प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः ॥
स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे ॥२३॥
अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन ॥
तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत् ॥२४॥
कश्चिच्छ्वेतो वराहोऽस्मिन्वल्मीके चरति धुवम् ॥
स तु पुण्यवतामेव दर्शनं याति भूपते ॥२५॥
॥श्रीवराह उवाच ॥
इत्यादिश्य हयारूढो जगाम मृगयां विभुः ॥
चरन्वनाद्वनं सुभ्रूः समासाद्यारणीं नदीम् ॥२६॥
अवरुह्य हयात्तत्र विचचार तटे शुभे ॥
वनान्तादागतो वायुः पद्मकह्लारशीतलः ॥
श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम् ॥२७॥
तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे ॥
एवं स विचरन्देवः पुष्पभारानतांस्तरून् ॥२८॥
विचिन्वन्गजराजं तं पुष्पलावीर्ददर्श ह ॥
कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रदाः ॥२९॥
तासां मध्यगतां तन्वीं ददर्शातिमनोहराम् ॥
लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत् ॥३०॥
तां गृध्नुराह ताः कन्याः केयमित्येव पूरुषः ॥
उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबल ॥३१॥
इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान् ॥
आजगामाशु भगवान्स्वालयं रुचिरं गिरिम्॥ ३२॥
तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे ॥
मामाहूयावदद्देवो हला बकुलमालिके ॥३३॥
वियद्राजपुरं गत्वा प्रविश्यान्तःपुरं सखि ॥
तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च ॥३४॥
याचस्व तनयां तस्या रुचिरां कमलालयाम् ॥
राज्ञोभिमतमाज्ञाय शीघ्रमागच्छ भामिनि ॥३५॥
इत्थं दैवेन चाज्ञप्ता देवि त्वद्गृहमागता ॥
यथोचितं कुरुष्वेह राज्ञा मंत्रियुतेन च ॥३६॥
अथ बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः ॥
कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः ॥३७॥
॥ श्रीवराह उवाच ॥
अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह ॥
आहूयाकाशराजं तमुपेत्य कमलालयाम् ॥३८॥
मंत्रिमध्येऽवदद्देवी वचनं बकुलस्रजः ॥श्रु
त्वा प्रीतोऽवदद्राजा मंत्रिणः सपुरोहितान् ॥३९॥
॥ आकाशराज उवाच ॥
कन्या त्वयोनिजा दिव्या सुभगा कमलालया ॥
अर्थिता देवदेवेन वेंकटाद्रिनिवासिना ॥४०॥
पूर्णो मनोरथो मेऽद्य ब्रूत किं संमतं तु वः ॥
श्रुत्वा मंत्रिगणाः सर्वे राज्ञो वचनमुत्तमम् ॥४१॥
प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् ॥
वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत् ॥४२॥
भवत्कन्येयमतुला श्रिया सह रमिष्यति ॥
दीयतां देवदेवाय शार्ङ्गिणे परमात्मने ॥४३॥
अयं वसन्तः श्रीमांश्च शुभं शीघ्रं विधीयताम् ॥४४॥
अथ बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम् ॥
आहूय धिषणं लग्नं विवाहार्थं विधीयताम् ॥४५॥
तथास्त्वित्याह्वयामास सुरलोकाद्बृहस्पतिम् ॥
पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः ॥४६॥
॥ राजोवाच ॥
कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम् ॥
देवस्य श्रवणर्क्षन्तु तयोर्योगो विचार्यताम् ॥४७॥
श्रुत्वाऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी ॥
संमता सुखवृद्ध्यर्थं प्रोच्यते दैवचिंतकैः ॥४८॥
तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति ॥
वैशाखमासे विधिवत्क्रियतामिति सोऽब्रवीत् ॥४९॥
॥ श्रीवराह उवाच ॥
राजा तु धिषणं तत्र संपूज्याथ विसृज्य च ॥
देवस्य दूतिकामाह गच्छ देवालयं शुभे ॥५०॥
वैशाखे देवदेवाय कल्याणं वद सुव्रते ॥
वैवाहिकविधानं तु कृत्वा चागम्यतामिति ॥५१॥
ततो देव्याः प्रियकरं शुकं दूतं तया सह ॥
विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत् ॥५२॥
॥ अथ विश्वकर्मादिकृतपुरालंकारादिक्रमः ॥
आहूय विश्वकर्माणं पुरालंकारकर्मणि ॥
नियोजयामास सोऽपि निर्ममे निमिषांतरात् ॥५३॥
इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ॥
धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ॥५४॥
यमस्तु रोगरहितांश्चकार मनुजान्भुवि ॥
वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत् ॥५५॥
एवं संपाद्य सर्वाणि ययुर्देवा वृषाचलम् ॥५६॥
॥ अथ शुकेन सह बकुलायाः श्रीनिवाससमीपे गमनम् ॥
॥ श्रीवराह उवाच ॥
ततः सा हयमारुह्य शुकेन सहिता ययौ ॥
श्रीवेंकटाद्रिमासाद्य देवालयसमीपतः ॥५७॥
अवरुह्य तुरंगात्सा सशुकाऽभ्यन्तरं ययौ ॥
दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम् ॥५८॥
प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो ॥
मांगल्यवार्तां वक्तुं वै शुक एष समागतः ॥५९॥
॥ अथ श्रीनिवासाय शुकावेदित पद्मावतीपरिणयवृत्तान्तः ॥
वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत् ॥
॥ शुक उवाच ॥
त्वां प्रत्याह सुता भूमेर्मामंगीकुरु माधव ॥६०॥
वदामि तव नामानि स्मरामि त्वद्वपुस्सदा ॥
ध्रियन्ते तव चिह्नानि भुजाद्यंगै रमापते ॥६१॥
त्वद्भक्तानर्चयामीह पंचसंस्कारसंयुतान् ॥
त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन ॥६२॥
एवं सदैवाचरंत्याः पित्रोरनुमते मम ॥
कुरु प्रसादं देवेश मामंगीकुरु माधव ॥६३॥
इति विज्ञापयामास कमलस्था धरासुता ॥
शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः ॥६४॥
॥ अथ पद्मावत्याः शुकदत्तश्रीनिवासमालाधारणम्॥
॥ श्रीभगवानुवाच ॥
कर्तुं कल्याणमुद्वाहमागमिष्यामि चाऽमरैः ॥
शुक गच्छ वदैवं तामित्थं देवोऽब्रवीदिति ॥६५॥
शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम्॥
देवदत्तां ययौ शीघ्रं वियद्राजसुतां प्रति ॥६६॥
तुलसीमालिकां दत्त्वा मृगनाभिसुगंधिनीम् ॥
प्रणम्य देवीमवदच्छुको देववचः शुभम् ॥६७॥
श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ ॥
चक्रेऽलंकारमुचितं देवागमनकांक्षिणी ॥६८॥
वियद्राजोऽपि सानन्दमिन्दुमाहूय सादरम्॥
अन्नं विधीयतां राजन्विविधं रससंयुतम् ॥६९॥
विष्णोर्नैवेद्ययोग्यं यत्परमान्नं विधीयताम् ॥
देवानां च ऋषीणां च नराणामपि संमतम् ॥७०॥
चतुर्विधं सुगन्धाढ्यममृतांशैः सुधाकर ॥
एवं कृत्वा संविधानं प्रतीक्ष्यागमनं विभोः ॥७१॥
सभायां मंत्रिसहितः समास्त प्रीतमानसः ॥
पुत्रीमलंकृतां कृत्वा धरणीसहितो नृपः ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे धरणीदेव्यै बकुलमालिकानिवेदित श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तांतवर्णनंनाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : August 11, 2024
TOP