संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ धरण्युवाच ॥
उक्तं भगवता तस्य वियत्पुत्रस्य नाम च ॥
अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत्॥१॥
॥ श्रीसूत उवाच ॥
इति पृष्टः पुनः प्राह श्रीवराहो जगत्पतिः ॥२॥
॥ श्रीवराह उवाच ॥
आकाशराजो मतिमांस्तां दृष्ट्वा कमलेशयाम् ॥३॥
पद्मिनीति च नाम्ना वै चकार वसुधासुताम् ॥
तां तु यौवनसम्पन्नां सखीभिः परिवारिताम् ॥४॥
आरामे विहरंतीं च शुककोकिलनादिते ॥
यदृच्छयाऽऽगतस्तत्र नारदो मुनिसत्तमः ॥५॥
वनलक्ष्मीमिवालोक्य विस्मयादिदमब्रवीत् ॥६॥
॥ नारद उवाच ॥
कासि कस्य सुता भीरु हस्तं दर्शय मे तव ॥
इत्युक्ता सा सुचार्वंगी स्वात्मानं मुनयेऽब्रवीत्॥ ७॥
वियद्राजसुता ब्रह्मँल्लक्षणानि वदस्व मे ॥
इत्युक्तः स तदा प्राह नारदो मुनिसत्तमः ॥८॥
॥ अथ नारदोदीरित पद्मावतीशरीरलक्षणानि ॥
॥ नारदउवाच ॥
शृणु त्वं चारुवदने लक्षणानि वदामि ते ॥
पादौ प्रतिष्ठितौ सुभ्रु रक्तपद्मदलान्वितौ ॥९॥
पादांगुल्यः समा रक्ता रक्ततुंगनखान्विताः ॥
गुल्फौ गूढौ समावेतौ जंघे चारोमशे शुभे ॥१०॥
जानुनी समसुस्निग्धे समावूरू क्रमादुरू ॥
नितंबौ पृथुलौ पीनौ जघनं चिंत्यमेव हि ॥११॥
नाभिर्मंडलवान्निम्नः पार्श्वौ ते मेदुरावुभौ ॥
त्रिवलीललितं मध्यं रोमराजिविराजितम् ॥१२॥
स्तनौ पीनौ घनौ स्निग्धाबुन्नतौ मग्नचूचुकौ ॥
करौ ते रक्तपद्माभौ पद्मरेखासमन्वितौ ॥
सुसूक्ष्मौ रक्तसत्पर्व निरन्तरसमांगुली ॥१३॥
शुकतुंडसमाकारनखपंक्तिविराजितौ ॥
दीर्घौ च कोमलौ भद्रे भुजौ ते पुष्पदंडवत् ॥१४॥
पृष्ठं ते वेदिवद्भाति विलग्नमृजु मध्यमम् ॥
कंठस्तु रक्तो दीर्घश्च स्कन्धौ चावनतौ शुभे ॥१५॥
मुखं प्रसन्नं सततमकलंकशशिप्रभम् ॥
कपोलौ कनकादर्शसदृशौ कुंडलोज्ज्वलौ ॥१६॥
तिलपुष्पसमाकारा नासिका ते शुभानने ॥
अकलंकाष्टमीचंद्रसदृशोऽतिमनोहरः ॥१७॥
दृश्यतेऽयं ललाटस्ते नीलालकसुशोभितः ॥
मूर्धा ते समवृत्तश्च स्निग्धायतकचान्वितः ॥१८॥
स्मितसंशोभिदशनं बिंबाधरसमन्वितम् ॥
मुखं ते विष्णुयोग्यं स्यादिति मे निश्चिता मतिः ॥१९॥
नाभिस्ते दक्षिणावर्त आवर्त इव गांगजः ॥
त्वं हि क्षीराब्धिसम्भूता लक्ष्मीरिव हि दृश्यसे ॥२०॥
॥ श्रीवराह उवाच ॥
इत्युक्त्वा पूजितस्ताभिर्नारदोऽन्तर्दधे तदा ॥
एतच्छ्रुत्वाऽथ तत्सख्यस्तामूचुः पद्मिनीं सखीम् ॥२१॥
अथ पद्मावत्याः स्वसखीभिः साकं पुष्पाटवी गमनम् ॥
वनं गच्छाम पुष्पार्थं वसन्तः समुपागतः ॥
कर्णिकाराश्च चूताश्च चंपकाः पारिभद्रकाः ॥२२॥
पलाशाः पाटलाः कुन्दा रक्ताशोकाश्च पुष्पिताः॥
पद्मिन्यः सिन्धुवाराश्च मालत्यो यूथिकालताः॥२३॥
कह्लारकरवीराश्च संघर्षादिव पुष्पिताः ॥
पुष्पावचयनं कुर्मो वनेऽस्मिन्सुमनोहरे ॥२४॥
इत्युक्त्वा ता वनं जग्मुराकाशतनयायुताः ॥
पुष्पाण्याहरमाणास्तु विचरन्त्यस्ततस्ततः ॥२५॥
कंचिद्गजेंद्रं ददृशुः शुभ्रदन्तद्वयोज्ज्वलम् ॥
गण्डभित्तितलोद्भूतमदधाराद्वयोज्ज्वलम्॥२६॥
उन्नतं करिणीयूथैः समुपेतं रजोज्ज्वलम् ॥
फूत्कारिपुष्करप्रोद्यच्छीकरापूरिताननम् ॥२७॥
दृष्ट्वा चोद्विग्नहृदया वनस्पतिमुपाश्रिताः ॥
एतस्मिन्नंतरे चाशु ददृशुर्हयमुत्तमम्॥२८॥
अथ मृगयार्थं पुष्पाटवीं प्रति श्रीनिवासागमनम्॥
अकलंकेन्दुधवलं जाम्बूनदपरिष्कृतम् ॥
स्फुरद्विद्युल्लतायुक्तशरन्मेघमिवोन्नतम् ॥२९॥
तस्मिंस्तु पुरुषं कृष्णं मदनाकारवर्चसम्॥
पुंडरीकदलाकारकर्णान्तायतलोचनम् ॥३०॥
सुसूक्ष्मक्षौमसंवीतनीलचूलिकयोज्ज्वलम् ॥
पद्मरागमणिद्योतिस्फुरत्कुंडलमण्डितम् ॥३१॥
सुवर्णरत्नखचितशार्ङ्गदिव्यधनुर्धरम् ॥
अपरेण करेणैव वहन्तं काञ्चनं शरम् ॥३२॥
पीतकक्षोमसंवीतकटिदेशं सुमध्यमम् ॥
रत्नकंकणकेयूरकटिसूत्रविराजितम॥३३॥
विशालवक्षः संशोभिदक्षिणावर्तसंयुतम् ॥
स्वर्णयज्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम्॥३४॥
ईहामृगं समुद्दिश्य महावेगादनुद्रुतम् ॥
तं दृष्ट्वा विस्मिता नार्यः सस्मितास्तस्थुरत्र वै ॥३५॥
तं दृष्ट्वा हयमारूढं गजेन्द्रो नम्रमस्तकः ॥
तुण्डमुद्धृत्य गर्जन्वै विनिर्वृत्य ययौ वनम् ॥३६॥
तस्मिन्गते गजे तत्र हयारूढः समाययौ ॥
ईहामृगं विचिन्वानः पुष्पलावीसमीपतः॥३७॥
॥ अथ भगवतः कन्यकानां चान्योन्यसंवादः॥
ताः समेत्य स चोवाच तुरगोपरि संस्थितः॥
अत्रागतो मृगः कश्चिदीहामृग इतीरितः ॥३८॥
दृष्टो वा भवतीभिः स ब्रूत मे कन्यका इति ॥३९
॥ श्रीवराह उवाच ॥
प्रत्यूचुस्तास्तु तं कन्या दृष्टोस्माभिर्न कश्चन ॥४०॥
किमर्थमागतोस्माकं वनं वरधनुर्धरः ॥
अत्रावध्या मृगाः सर्वे वर्तमाना निषादप ॥४१॥
आशु गच्छ वनादस्मादाकाशनृपपालितात् ॥
इति तासां वचः श्रुत्वा हयादवरुरोह सः ॥४२॥
कास्तु यूयमियं चापि कन्यकांबुजसन्निभा ॥
सुभगा चारुसर्वांगी पीनोन्नतपयोधरा ॥
ब्रूत मेऽहं गमिष्यामि श्रुत्वा स्वस्यालयं गिरिम् ॥४३॥
इति तस्या वचः श्रुत्वा धरण्यात्मजयेरिता ॥
सखी पद्मावती प्राह निषादं पर्वतालयम् ॥४४॥
आकाशराजतनया वसुधातलसंभवा ॥
अस्माकं नायिका शूर पद्मिनीनाम नामतः ॥४५॥
ब्रूहि त्वं सुभगाकार किन्नामा कस्य वा सुतः ॥
जातिः का कुत्र ते वासः किमर्थं त्वमिहागतः ॥
इति पृष्टः स ताः प्राह मन्दस्मितमुखांबुजः ॥४६॥
दिवाकरकुलं प्राहुरस्माकं तु पुराविदः ॥
यस्य नामान्यनंतानि पावनानि मनीषिणाम् ॥४७॥
वर्णतो नामतश्चापि कृष्णं प्राहुस्तपस्विनः ॥
ब्रह्मद्विषां सुरारीणां यस्य चक्रं भयावहम् ॥४८॥
यस्य शंखध्वनिं श्रुत्वा मोहमीयुर्हि वैरिणः ॥
यस्य वै धनुषस्तुल्यं धनुर्नैवामरेष्वपि ॥४९॥
तं मां वीरपतिं प्राहुर्वेंकटाद्रिनिवासिनम् ॥
तस्मादद्रितटात्सोऽहं निषादैरनुगैर्वृतः ॥५०॥
मृगयार्थं हयारूढो युष्माकं वनमागतः ॥
मयाप्यनुद्रुतः कश्चिन्मृगो वायुगतिर्ययौ ॥५१॥
तमदृष्ट्वा वनं पश्यन्दृष्टवान्सुभगामिमाम् ॥
कामादिहागतोऽहं वो मया किं लभ्यते न्वियम् ॥५२॥
इति कृष्णवचः श्रुत्वा कुद्धास्ताः पुनरब्रुवन् ॥
आकाशराजो दृष्ट्वा त्वां कृत्वा निगडबन्धनम् ॥
यावन्नयति तावत्त्वं गच्छ शीघ्रं स्वमालयम् ॥५३॥
तर्जितस्ताभिरेवं स हयमारुह्य शीघ्रगम् ॥
युक्तः स्वानुचरैः सर्वैर्ययौ द्रुततरं गिरिम् ॥५४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवाद उद्यानवासिन्याः पद्मावत्यास्समीपे नारदागमन श्रीनिवासमृगयादिवर्णनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : August 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP