संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः २५ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः २५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ जाबालितीर्थमाहात्म्यवर्णनम् Translation - भाषांतर ॥ श्रीसूत उवाच ॥भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥१॥ततो जाबालितीर्थस्य माहात्म्यं वर्णयाम्यहम् ॥दुराचाराभिधो यत्र स्नात्वा मुक्तोऽभवद्द्विजाः ॥२॥॥ मुनय ऊचुः ॥दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥किञ्च पापं कृतं तेन दुराचारेण वै मुने ॥३॥कथं वा पातकान्मुक्तस्तीर्थेस्मिन्स्नानवैभवात् ॥एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ॥४॥॥ अथ कावेरीतीरवासिदुराचाराख्यद्विजोदन्तः ॥॥श्रीसूत उवाच ॥मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥जाबालितीर्थस्नानेन यथा मुक्तश्च पातकात्॥ ५॥दुराचाराभिधो विप्रः कावेरीतीरमाश्रितः ॥कश्चिदास्ते द्विजः पापी क्रूरकर्मरतः सदा ॥६॥ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥सदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्द्विजाः ॥७॥महापातकसंसर्गदोषेणास्य द्विजस्य वै ॥ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ॥८॥महापातकिभिः सार्धं दिनमेकं तु यो द्विजः ॥निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ॥९॥ब्राह्मणस्य तु चैकांशो नश्यत्येव न संशयः ॥द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ॥१०॥भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ॥द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः ॥११॥त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥चतुर्दिनाच्चतुर्थांशो विलयं याति हि धुवम् ॥१२॥अतः परं च तैः साकं शयनासनभोजनैः ॥तत्तुल्यपातकी भूयान्महापातकिसंगवान् ॥१३॥तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विज. ॥ग्रस्तोऽभवद्भीषणेन व्यालेनेव बलीयसा ॥१४॥असौ परवशस्तेन वेतालेनातिपीडितः ॥देशाद्देशं भ्रमन्विप्रो वनाच्चैव वनान्तरम् ॥१५॥पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥वेंकटाद्रिं महापुण्यं सर्वपातकनाशनम् ॥१६॥अथ ज्ञाबालितीर्थस्नानाद्दुराचारवेतालयोर्महपातकादिनिवृत्तिः ॥ अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ ॥न्यमज्जयत्स वेतालो महापातकनाशने ॥१७॥जाबालितीर्थे विप्रेन्द्रा महापातकिसंगिनम् ॥उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥१८॥उत्थितोऽसौ द्विजो विप्रास्तस्मात्तीर्थात्तु पावनात् ॥स्वस्थो व्यचिन्तयत्कोऽयं स्वर्णमुख्याः समीपतः ॥१९॥कथं मयागतमहो कावेरीतीरवासिना ॥इति चिन्ताकुलः सोऽयं जाबालेस्तीर्थमुत्तमम् ॥२०॥जाबालिं च महात्मानं योगीन्द्रवरमुत्तमम् ॥समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ॥२१॥न जाने भगवन्विप्र पर्वतोऽयं वदाधुना ॥कावेरीतीरनिलयो दुराचाराभिधो ह्यहम् ॥२२॥कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्॥इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ॥२३॥ध्यात्वा मुहुर्तमवदद्दुराचारं कृपानिधिः ॥२४॥॥ अथ जाबालिवर्णितपार्वणश्राद्धाकरणदोषकथनम् ॥॥ जाबालिरुवाच ॥महापातकिसंसर्गाद्दुराचारस्य ते पुरा ॥ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ॥२५॥तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ॥न्यमज्जयत्त्वां वेतालस्तीर्थेऽस्मिन्नतिपावने ॥२६॥अत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ॥जाबालितीर्थे ये स्नानं पुण्यं कुर्वन्ति मानवाः ॥२७॥तेषां नश्यंति वै सत्यं पञ्चपातकसंचयाः ॥सत्कर्मसाधने पुण्यतीर्थेऽस्मिन्स्नानमात्रतः ॥२८॥महापातकिसंसर्गदोषस्ते विलयं गतः ॥त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ॥२९॥मृतेऽहनि पितृश्राद्धं नाकरोत्पार्वणेन वै ॥तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥३०॥सोऽपि जाबालितीर्थस्य जले स्नानप्रभावतः ॥वेतालत्वं विहायैव विष्णुलोकमवाप्तवान्॥ ३१॥न कुर्याद्यो नरः श्राद्धं मातापित्रोर्मृतेऽहनि ॥वेतालत्वमवाप्याशु पश्चान्नरकमश्नुते ॥३२॥॥ श्रीसूत उवाच ॥दुराचारो महापापी तीर्थेऽस्मित्स्नानमात्रतः ॥प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥३३॥एवं वः कथितं पुण्यं दुराचारविमोक्षणम्॥तस्मात्पुण्यतमं तीर्थं सर्वपापहरं शुभम् ॥३४॥यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥यानि निष्कृतिहीनानि पापान्यपि विनाशयेत् ॥३५॥शूद्रेण पूजितं लिङ्गं विष्णुं वा यो नमेद्द्विजः ॥प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः ॥३६॥नश्येत्तस्यापि तत्पापं तीर्थे जाबालिसंज्ञके ॥विप्रनिन्दाकृतां चैव प्रायश्चित्तं न विद्यते ॥३७॥विश्वासघातुकानां च कृतघ्नानां च निष्कृतिः ॥भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥३८॥तेषां जाबालितीर्थे वै स्नानाच्छुद्धिर्भविष्यति ॥एवं वः कथितं विप्रा जाबालेस्तीर्थवैभवम् ॥३९॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥४०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये जाबालितीर्थमहिमानुवर्णनंनाम पञ्चविंशोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : August 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP