संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः २६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
अत्राहं संप्रवक्ष्यामि शौनकाद्या महौजसः ॥
घोणतीर्थस्य माहात्म्यं सर्वपातकनाशनम् ॥१॥
तत्र स्नानं जनानां तु जन्मान्तरतपःफलम् ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥२॥
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्ने समायान्ति गंगादीनि जगत्त्रये ॥३॥
॥ ऋषय ऊचुः ॥भगवन्सूत सर्वज्ञ सर्वशास्त्रार्थपारग ॥
गंगायाः सरितः सर्वा घोणतीर्थेऽतिपावने ॥४॥
किमर्थं स्नांति वै तत्र मीनसंस्थे प्रभाकरे ॥५॥
॥श्रीसूत उवाच ॥
पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः ॥
विसृज्य पापजालानि कृतार्था यांति वै जनाः ॥६॥
अस्माकं पापजालं तत्कथं नश्यति सर्वतः ॥
एवमालोच्य तीर्थानि गंगादीनि प्रयत्नतः ॥७॥
संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ॥
वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम् ॥८॥
गत्वा श्रीवेंकटं शैलं ब्रह्महत्यादिशोषकम् ॥
तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले ॥९॥
अनन्तरं ततो विप्रा घोणतीर्थेऽतिपावने ॥
उत्तराफल्गुनीयुक्तशुक्त्यपक्षीयपर्वणि ॥१०॥
स्नांति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ॥
तस्य तीर्थस्य माहात्म्यं को वेत्ति भुवनत्रये ॥११॥
॥ अथ घोणतीर्थस्नानविमुखानां महादोषवर्णनम् ॥
तस्मात्पुण्यतमं तीर्थं घोणतीर्थं द्विजोत्तमाः ॥१२॥
आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम्॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥१३॥
देवद्रव्यापहन्तारं तथा दत्तापहारकम् ॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥१४॥
तटाकसेतुभेत्तारं परस्त्रीसंगलोलुपम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१५॥
ददामीति द्विजायोक्त्वा पश्चाद्यो नास्तिकोऽधमः ॥
घोणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः ॥१६॥
गुरुविप्रजनद्वेष्यमात्मस्तुतिपरायणम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१७॥
असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः ॥१८॥
पितृशेषान्नदातारं मातापितृविरोधिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१९॥
परस्त्रीसंगनिरतं भ्रातृभार्यारतिप्रियम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम् ॥२०॥
चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥२१॥
रजस्वलाश्वचण्डालध्वनि श्रुत्वान्नभोजिनम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥२२॥
पुराणोद्वाहमौंज्यादिधर्माणां विघ्नकारकम् ॥
घोणस्नानपरित्यक्तं तमाहुः पशुघातुकम् ॥२३॥
शरणागतहन्तारं सर्वतीर्थपराङ्मुखम्॥
घोणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः ॥२४॥
पितृयज्ञ परित्यक्तं त्यक्तभार्यं कुलाधमम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गोविघातुकम् ॥२५॥
महापापसमानानि क्षुद्रपापानि यानि च ॥
घोणस्नानपरित्यक्तमाश्रयन्ति द्विजोत्तमाः ॥२६॥
॥ अथ घोणस्नानस्यसर्वपापापनोदकत्ववर्णनम् ॥
महापापरतं विप्राः श्वपचं वा कुलाधमम् ॥
क्रूरं कुलान्तकं कष्टमदत्तं कर्मवर्जितम् ॥२७॥
पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा ॥
असत्यभाषिणं दम्भपरदाररतं तथा ॥२८॥
मित्रद्रोहं कृतघ्नं च भ्रूणह चातिपातकम् ॥
परदाररतं पापं पराणामर्थसूचकम् ॥२९॥
अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम् ॥
सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम् ॥३०॥
आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम् ॥
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥३१॥
सुपल्लवफलोपेतवृक्षविच्छेदकारकम्॥
विश्वासघातुकं चैव वीरहत्यापरायणम् ॥३२॥
अनग्निकमपुत्रं च विषकर्मप्रयोगिणम् ॥
गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम् ॥३३॥
ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च ॥
भृतकख्यापकं विप्रं कूरकर्मपरायणम् ॥३४॥
प्रकृतीकृत पापौघं गुह्याघौघपरायणम् ॥
अज्ञानादघकर्तारं ज्ञानाद्दुष्कर्मकारकम् ॥३५॥
एतान्सर्वांश्च विप्रेंद्रा घोणतीर्थं मनोहरम्॥
पुनाति स्नानपानाद्यैरहो तीर्थस्य वैभवम् ॥३६॥
॥ अथ तुम्बुर्वाख्यगंधर्वचरितम् ॥
॥ श्रीसूत उवाच ॥
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥
सर्वपापप्रशमनमपवर्गफलप्रदम् ॥३७॥
पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः ॥
सर्वज्ञो नीतिमान्विप्रः प्राह चेत्थं जितेन्द्रियः ॥३८॥
देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः ॥
कथयस्व महाभाग मयि कारुणिको भव ॥
घोणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम् ॥३९॥
॥ देवल उवाच ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम् ॥
अत्र स्नात्वा समभ्यर्च्य वेंकटेशं दयानिधिम् ॥४०॥
प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥४१॥
॥ गार्ग्य उवाच ॥
किमर्थं देवल ऋषे भार्यां रूपवतीं स्त्रियम् ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥४२॥
शप्तवान्केन दोषेण भार्यां सर्वगुणान्विताम् ॥
तद्वदस्व महाभाग श्रोतुं कौतूहलं हि मे ॥४३॥
॥ अथ स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह ॥
माघत्रये मया साकं स्नानं कुरु मलापहम् ॥४४॥
माघमास्युदिते सूर्ये सर्वकल्मषनाशने ॥
तीरेऽस्मिन्विष्णुपूजार्थं गोमयालेपनं कुरु ॥४५॥
रंगवल्ल्यादिभिः शुभ्रपद्मस्वस्तिक धातुभिः ॥
शुश्रूषां कुरु मे विष्णोर्मासेऽस्मिन्मंगलप्रदे ॥४६॥
माघेऽस्मिन्माधवस्यास्य कुरु त्वं दीपवर्तिकाम् ॥
सधूपं पावकं भक्त्या समर्पय हरेः पुरः ॥४७॥
कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने ॥
प्रदक्षिणानमस्कारैर्भक्त्या माघे मया सह ॥४८॥
कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम् ॥
पुराणश्रवणं विष्णोः कुरु नित्यमतंद्रिता ॥४९॥
नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः ॥
कृष्ण विष्णो मुकुन्देति नारायण जनार्दन ॥५०॥
अच्युतानन्त विश्वात्मन्निति कीर्तय सन्ततम् ॥
क्रोधमात्सर्यलोभादींस्त्यक्त्वा त्वं व्रतमाचर ॥५१॥
तेन ते जायते मुक्तिर्विष्णुलोकश्च शाश्वतः ॥
॥ अथ भार्यां प्रति तुम्बुरुदत्तशापतद्विमुक्तिप्रकारौ ॥
इत्थं सा भर्तृगदितं श्रुत्वा गंधर्ववल्लभा ॥
भर्तारमब्रवीत्कोपादसह्यं दुर्गतिप्रदम् ॥५२॥
माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ ॥
कथं निमज्जयेदस्मिन्माघे शीतार्तिकेऽनघ ॥५३॥
यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत्॥
न करोमि पते स्नानं प्रातःकाले त्वया सह ॥५४॥
मृतौ शीतातिपातेन न च मे रक्षको भवान् ॥
इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः ॥५५॥
सशान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम् ॥
पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम् ॥५६॥
अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत् ॥
इति न्यायं विचिंत्यासौ शशापेत्थं सतीं तदा ॥५७॥
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥
घोणतीर्थसमीपे च पिप्पलद्रुमकोटरे ॥५८॥
तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ॥
इत्येवं भर्तृवाक्यं तच्छ्रुत्वा गंधर्ववल्लभा ॥५९॥
पतित्वा पादयोस्तस्य तुम्बरुं प्रार्थयत्सती ॥
विशापमवदत्पश्चाद्भर्ता वै तुम्बुरुस्तदा ॥६०॥
अगस्त्यो वै महाभागस्तपस्वी विजितेन्द्रियः ॥
घोणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ ॥६१॥
शिष्येभ्यो वै यदा तस्मिन्नश्वत्थद्रुमसंनिधौ ॥
घोणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः ॥६२॥
तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता ॥
श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥६३॥
विधूय सर्वपापानि मया साकं रमिष्यसि ॥
इत्युक्ता विररामाथ धर्मपत्नी पतिव्रता ॥६४॥
भर्तृशापान्महाघोरां मंडूकतनुमाश्रिता ॥
शेषाद्रिशिखरे तस्मिन्घोणतीर्थस्य दक्षिणे ॥६५॥
शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ॥
अब्दायुतं गतं तस्या अश्वत्थद्रुमकोटरे ॥६६॥
ततः कालांतरेऽगस्त्यो वेंकटाद्रिं मनोहरम् ॥
गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम् ॥६७॥
वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे ॥
वेंकटेशालयं गत्वा श्रीनिवासं कृपानिधिम्॥ ६८॥
वेदवेद्यं विशालाक्षं देवदेवं सनातनम् ॥
नत्वाऽगस्त्यो महाभागो घोणतीर्थं ततो ययौ ॥६९॥
तत्र स्नात्वा तीर्थवर्ये स्वशिष्यै योगिनां वरः ॥
पिप्पलद्रुमच्छायायां शिष्येभ्यो भक्तिपूर्वकम् ॥७०॥
घोणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम् ॥
सर्वमंगलदं पुण्यं सर्वसम्पत्प्रदायकम्॥ ७१॥
उक्तवान्योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः ॥७२॥
॥ अथ घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्न्या वर्षाभूत्व निवृत्तिः ॥
तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः ॥
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥७३॥
पूर्वरूपं समासाद्य नारी रूपं मनोहरम् ॥
अगस्त्य योगिनां श्रेष्ठ रक्षरक्ष दयानिधे ॥७४॥
मां रक्ष दयया ब्रह्मन्पतिवाक्यविरोधिनीम् ॥
इत्युक्त्वा तं विक्षालाक्षी विरराम ततः परम् ॥७५॥
॥ अगस्त्य उवाच ॥
का त्वं सुश्रोणि भद्रं ते भेकजन्मप्रदायकम् ॥
पापं पूर्वभवे चासीत्तद्वदस्व च मा चिरम् ॥७६॥
॥नार्युवाच ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥
तस्य भार्यास्म्यहं विप्र ह्यगस्त्य मुनिसेवित ॥७७॥
भर्ता मे सर्वधर्मज्ञस्तुम्बुरुर्मुनिसत्तमः ॥
सर्वधर्मान्मनोज्ञा त्वं कुरु नित्यं मया सह ॥७८॥
पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम् ॥
असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि ॥७९॥
मया चोक्तं हि दुर्बुद्ध्या हे तात मुनिसत्तम ॥८०॥
॥ अथागस्त्यकथितपतिव्रताधर्माः ॥
॥ अगस्त्य उवाच ॥
कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषान्वितः ॥
एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥८१॥
पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ॥
सा नारी निरये घोरे पतत्याचन्द्रतारकम् ॥८२॥
न स्वातन्त्र्यं तु नारीणां नोल्लंघ्यं पतिभाषणम् ॥
पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ॥८३॥
स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥
पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ॥८४॥
पतिर्गुरुः पतिस्तीर्थमिति स्त्रीणां विदुर्बुधाः ॥
पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः ॥८५॥
सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ॥
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥८६॥
सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम् ॥
पतिना प्रेरिता सैव पतिबुद्धिपरायणा ॥८७॥
पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ॥
सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥८८॥
तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम् ॥
भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या घोणतीर्थस्य वैभवम् ॥८९॥
मुक्तिरासीच्छुभांगं तन्नारीरूपं पुनर्यथा ॥
तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै ॥९०॥
लोके प्रसिद्धिरभवदहो तीर्थस्य वैभवम् ॥९१॥
अथ घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः ॥
॥ श्रीसूत उवाच ॥
घोणतीर्थे महापुण्ये सर्वपापविनाशिनि ॥
स्नान्ति ये पौर्णमास्यां वै शौनकाद्या महौजसः ॥९२॥
तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत् ॥
कपिलागोसहस्रं तु यो ददाति दिनेदिने ॥९३॥
तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके ॥
रत्नकोटिसहस्राणि यो ददाति दिनेदिने ॥९४॥
मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि ॥
तत्फलं समवाप्नोति घोणतीर्थावगाहनात् ॥९५॥
कन्याकोटिप्रदानेन यत्फलं चर्षिभिः स्मृतम् ॥
तत्फलं समवाप्नोति घोणतीर्थाच्च पावनात् ॥९६॥
हेमांबरसहस्रं यः कुरुक्षेत्रे प्रयच्छति ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥९७॥
गुर्वर्थे ब्राह्मणार्थे च स्वाम्यर्थे यस्त्यजेत्तनुम् ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥९८॥
आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ॥
सत्यव्रतानां यत्पुण्यं घोणतीर्थाच्च तद्भवेत् ॥९९॥
यत्फलं श्राद्धकर्तॄणां पितृणामिन्दुसंक्षये ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥१००॥
गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ॥
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥१०१॥
तस्मात्पुण्यतमं तीर्थं घोणतीर्थं विदुर्बुधाः ॥१०२॥
य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ॥
वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥१०३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : August 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP