अंशुमत्काश्यपागमः - मृत्संस्कारविधिपटलः
वास्तुशास्त्रावरील एक असामान्य ग्रंथ.
मृत्संस्कारमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! ।
जांगलं चानुरूपं च समंशं मृत्त्रिधा भवेत् ॥१॥
अशक्त्या खननेत्यन्तं सुदृढं जांगजं भवेत् ।
तनुबालुकसंयुक्तं क्लेशात्खननमक्षमम् ॥२॥
गर्ते मनोरमांगस्तु दृष्टं यत्सानुरूपकम् ।
तयोर्मिश्रमिवाकारं मिश्रभूस्तमुदाहृतम् ॥३॥
तेष्वशोष्यमलोपेते शुद्धभूमौ मनोरमे ।
नदीदीर्घतटाके वा श्वेता सृक् पीतकृष्ण वा ॥४॥
पंकं संग्राह्य पात्रेषु स्रावयेन्नव वाससा ।
पात्रे संशोषयेत्पंकं यावदालद्रवान्वितम् ॥५॥
तावद्रक्ष्य चतुःक्षीरवृक्षमोद्भववद्गलैः ।
खादिनार्जुनतोयैश्च पात्रे पाकं तु मर्दयेत् ॥६॥
पिण्डक्षमं तु यावत् तावच्छोष्य ततो विदा ।
त्रिफलोषिताम्भसा चैव शोषयेच्च पुनः पुनः ॥७॥
इष्टद्रवसमायुक्तं पिण्डं कृत्वा तु तं मृदा ।
पिण्डे हस्ते ततो रेखा दृशेत्पिण्डं ततः कुरु ॥८॥
यवताराष्टके नैव कल्प्यं मानांगुलेन तु ।
रुद्रांगुलपरीणाहं प्रशस्तमृदुदाहृतम् ॥९॥
सिकतं च शिखा चूर्णि * * * * * * * * ।
सादृशं चोत्कृतैकांशं योजयेत्तु मृदा सह ॥१०॥
त्रिफलाम्भसोभिर्दिशाभ्योष्ट सप्तमेव गोधुमापि च ।
मृदेषांशं समायोज्य नालिकेरफलोदकैः ॥११॥
पात्रे तु मर्दयेत्सम्यक् दशाहाति क्रमे ततः ।
श्रीवेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च ॥१२॥
तथा सर्जरसं चूर्णं मृत्कलांशे शिवांशकम् ।
पात्रे मृत्तिं समायोज्य दधिचामर्दयेत्सुधीः ॥१३॥
शुण्ठी च पिप्पली चैव मरीचि रजनी तथा ।
समचूर्णं तु कर्तव्यं मृद्दशांशेन संयुतम् ॥१४॥
मधुक्षीरघृतेनैव मृदं पात्रे तु मर्दयेत् ।
कपित्थ बिल्वनिर्यास चूर्णौ द्वौ समतां कुरु ॥१५॥
मृदः पंचदशांशेन चूर्णतैलसमायुतम् ।
मर्दयेत्तु क्रमात्सम्यक् कुष्ठं च हरितालकम् ॥१६॥
चन्दनागरुकर्पूर रोचनादि च तत्समम् ।
संग्राह्य चूर्णं कर्तव्यं मृद्दशांससमन्वितम् ॥१७॥
अतसी स्नेहसंयुक्तं मर्दयेद्देशिकोत्तमः ।
स्वर्णं रजतचूर्णं च वल्मीक कुलिरावटे ॥१८॥
दीर्घिके नदि सस्यादि सागरे च हलस्थले ।
गजदन्ते वृषशृंगे मृदं चैव विशेषतः ॥१९॥
यथा लाभं तु संग्राह्य नानागन्धसमन्वितम् ।
कपित्थनिर्यासतोयैः मधु वा मर्दयेद्बुधः ॥२०॥
पंचरात्रिमतिक्रम्य नालिकेरफले ततः ।
त्वक्सारं तु परिग्राह्य एकं सार्धद्वयांगुलम् ॥२१॥
सारद्वयंगुलं वाथ मानेन च्छेदयेद्बुधः ।
मृच्चतुर्थ्या समायुक्तं मध्यलेपनमारभेत् ॥२२॥
तदूर्ध्वे तु मृदं लिप्य ततो वैरज्जुवेष्टनम् ।
तद्रज्जु व्यन्तरं विप्र एकद्वित्र्यंगुलं तु वा ॥२३॥
ततोऽपि मृत्समालिप्य यावदा शोषणं द्विज ! ।
तावन्निरीक्ष्य कर्तव्यं मृल्लेपं तु शनैः शनैः ॥२४॥
शूलबाह्यगत व्यासचतुर्भागविभाजिते ।
एकांशावधिकं लिप्य अनुरूपमुदाहृतम् ॥२५॥
द्व्यंशावसानमिश्रं स्याज्जांगलं त्वनलं विधि ।
तत्तद्देशमृदेनैव तत्र वेद्यांशमालिपेत् ॥२६॥
शेषं कल्के समापूर्य वेदांशेशसवत्कलम् ।
शेषं कार्पास तैलेन युक्तं कल्कं तु लेपयेत् ॥२७॥
मृत्संस्कारमिदं ख्यातं कल्कसंस्कारमुच्यते ।
इत्यंशुमान्काश्यपे मृत्संस्कारविधिपटलः (षष्ट्यशीतितमः) ॥८६॥
N/A
References : N/A
Last Updated : November 06, 2022
TOP