संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| शूलस्थापनविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - शूलस्थापनविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत शूलस्थापनविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् ।कर्षणोदितमासे च ऋक्षवारमुहूर्तके ॥१॥निश्चित्य स्थापनं तस्य पूर्वे कृत्वांकुरार्पणम् ।प्रासादस्याग्रतो वैशे मण्टपं च चतुरश्रकम् ॥२॥पंचहस्तकरं वापि नवहस्तमथापि वा ।पंक्तित्रयसमायुक्तं षोडशांघ्रिसमन्वितम् ॥३॥दलमष्टांगुलोत्सेधं पंक्तिव्यासांघ्रितुंगकम् ।यथा लाभं परीणाहं निर्व्रणं दारुणा दृढम् ॥४॥बिले वंशानुवंशाढ्यं नालिकेरदलादिभिः ।छादयेत्तु वितानेन मुक्तास्रग्दर्भमालिकाम् ॥५॥तरंग वेष्टनोपेतं द्वारतोरणसंयुतम् ।चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ॥६॥चतुर्द्वारं विनान्यत्र निश्छिद्रं जालकं तु वा ।मण्टपस्य त्रिभागैकं मध्ये वेदी विशालकम् ॥७॥तत्त्रिभागैकभागं तु वेदिकोदयमिष्यते ।गुणांगुलं विशालोच्चात्तस्याधश्चोपवेदिकाम् ॥८॥दर्पणोदरसंकाशां कृत्वा रक्तमृदा कृताम् ।कृत्वान्यत्राग्नि कुण्डानि त्वनेन विधिना कुरु ॥९॥चतुरश्रं धनुर्वृत्तं पद्मं पूर्वादि दिक्षु च ।शक्रशांकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् ॥१०॥कुण्डमेवं समाख्यातं केवलानां विशेषतः ।गौरी सहितबिम्बं चेत् कोणेष्वश्वत्थ पत्रवत् ॥११॥कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ।कुण्डं लक्षणवत्कृत्वा सर्वकुण्डानि देशिकः ॥१२॥गोमयालेपनं कृत्वा पिष्टचूर्णैरलंकृतम् ।ब्राह्मणान्भोजयेत्तस्मिन् पुण्याहं वाचयेत्ततः ॥१३॥महेन्द्रे तु पदे वास्तु होमं कृत्वा विधानतः ।वेदिकाभ्यग्निकुण्डानि पर्यग्निकरणं कुरु ॥१४॥तद्दिनाद्दिवसात्पूर्वे रात्रौ पूर्वायामधिवासयेत् ।स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः ॥१५॥कर्तव्यं नलिनं तत्र साष्टपत्रं सकर्णिकम् ।तण्डुलैस्तिलदर्भैश्च लाजैः पुष्पैरलंकृतम् ॥१६॥शपंच हितेनैव वस्त्रेणैव तु कल्पयेत् ।धूपदीपसमायुक्तं पुष्पैरर्घैरथार्चयेत् ॥१७॥मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् ।तन्मध्ये दारुपीठं तु न्यस्त्वा तस्योपरि न्यसेत् ॥१८॥प्राङ्मुखं स्थापयेच्छूलं गव्येनैवाभिचेषयेत् ।शुचिवोहव्यमन्त्रेण कृत्वा गन्धोदकैर्हृदा ॥१९॥स्थापयेद्देव देवीं च गन्धपुष्पादिभिर्यजेत् ।कौतुकं बन्धयेद्देवं तयोर्दक्षिणहस्तके ॥२०॥पुष्पैः कार्पाससूत्रैर्वा कवचेनैव बन्धयेत् ।लम्बकूर्चसमायुक्तं नववस्त्रेण वेष्टयेत् ॥२२॥नृत्तगीतसमायुक्तं वेदध्वनिसमायुतम् ।शयने शाययेच्छूलं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥२२॥तस्य वामे ह्युमादेवी शूलं दक्षिणतस्तथा ।तयोः शिरोन्तिके देशे स्थापयेत्तद्घटद्वयम् ॥२३॥ससूत्रं सापिधानं च वरकूर्च सुवेष्टितम् ।द्रोणगन्धाम्बु संपूर्णं शिवकुंभं तदुच्यते ॥२४॥तस्यार्धतोयसंपूर्णं प्राग्वत्सूत्रादिभिर्युतम् ।गौरीशूलसमायुक्ते गौरीकुंभमिदं वरम् ॥२५॥मुलमन्त्रं शिवे कुम्भे न्यस्त्वा गन्धादिभिर्यजेत् ।गौरीकुंभं तथाऽभ्यर्च्य स्वस्वमन्त्रैर्विशेषतः ॥२६॥परितोऽष्टघटं न्यस्त्वा सूत्रवस्त्रादिसंयुतान् ।विद्येशमूलमन्त्रैश्च स्थाप्य गन्धादिभिर्यजेत् ॥२७॥वास्तुहोमाग्निना कुण्डे त्वग्निं संकल्प्य देशिकः ।अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥२८॥अश्वत्थं पूर्वकुण्डे तु वह्निमाग्नेय गोचरे ।याम्ये तु सौन्दरं ख्यातं खादिरं नैर्-ऋतौ द्विजः ॥२९॥बिल्वं पश्चिमदिग्भागे मायूरं वायुगोचरे ।वटं वै सौम्यकुण्डे तु त्वर्कं वै त्वीशगोचरे ॥३०॥प्रधाने ब्रह्म वृक्षस्य समिद्गौरी समन्वितम् ।विना कोणेषु कुण्डानि विना गौरीं द्विजोत्तम ! ॥३१॥समिधो हृदयेनैव पुरुषेण घृताहुतिः ।अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् ॥३२॥सक्तुमीशानमन्त्रेण तिलं वै शिरसा हुनेत् ।सर्षपं कवचेनैव शिखया मुद्गमेव च ॥३३॥गुलमस्त्रेण प्रत्येकं अष्टोत्तरशतं हुनेत् ।द्रव्यान्ते व्याहृतिं हुत्वा देवी देवेशयोस्समम् ॥३४॥जयादिरभ्यातानैश्च राष्ट्रभृद्भिश्च होमयेत् ।दिशास्वध्ययनं वेदान् स्तोत्रं वै विदिशासु च ॥३५॥उच्चार्याध्ययनं तत्र ह्युपांशुर्होममाचरेत् ।देवीदेवेशयोर्मूल मन्त्रमष्टशताहुतिः ॥३६॥घृतेनैव तु हुत्वाऽठ शूलं स्पृष्ट्वा परस्परम् ।नृत्तगीतैश्च वाद्यैश्च रात्रिशेषं व्यपोह्य च ॥३७॥प्रभाते विमले धीमान् आचार्यो मूर्तिपैस्सह ।जलस्नानं च कर्तव्यं भस्मस्नानमनन्तरम् ॥३८॥शुक्लवस्त्रोत्तरीयं च शुक्लयज्ञोपवीतधृत् ।शुक्लमाल्यानुलेपाद्यैः भूष्यपंचांगभूषणैः ॥३९॥पवित्रपाणिनोपेतः सकलीकृतविग्रहः ।आचार्यः सुप्रसन्नात्मा शिवद्विजकुलोद्भवः ॥४०॥प्रविश्य मण्टपं पश्चात् शूलकुंभं हुताशनम् ।गन्धादिभिस्समभ्यर्च्य पूजनं च विशेषतः ॥४१॥जयादिरभ्यातानैश्च राष्ट्रभृच्चापि होमयेत् ।स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिमथाचरेत् ॥४२॥प्रविश्यगर्भगेहं तु एकाशीति पदं कुरु ।मण्डूकाख्यपदे वाथ सप्तसप्तांशमेव वा ॥४३॥गर्भगेहं तु कर्तव्यं ज्ञात्वा ब्रह्मादयं पदम् ।स्थानकं देविकांशे तु आसनं मानुषे पदे ॥४४॥गर्भगेहपरे भागे स्थापयेद्देशिकोत्तमः ।आसनं भद्रपीठे तु स्थानकं वेदिकोपरि ॥४५॥प्रागुक्त विधिना पीठव्यासायामोदया कृतिः ।कर्तव्यं सुन्दरं तस्मिन् आधाराख्य शिलां न्यसेत् ॥४६॥पीठव्यास त्रिपादं तु आधाराख्यशिलां न्यसेत् ।समाश्रं सायतं वापि तदर्धं तद्घनं भवेत् ॥४७॥स्थानकं सकलं चेत्तु पादाधस्ताद्द्विजोत्तम ! ।आधाराख्यशिलायां तु रत्नगर्तं प्रकल्पयेत् ॥४८॥निम्नं षडंगुलं ख्यातं गर्तव्यासं गुणांगुलम् ।मूले तु नवरत्नं वा हेमं वा तत्र निक्षिपेत् ॥४९॥शूलपादतलाधस्तात् स षण्मात्रायतान्वितम् ।प्रागेव कल्पयेद्धीमान् स्थापनार्थं बलान्वितम् ॥५०॥आसने तु चतुर्मात्रं वंशदण्डे निधाय च ।मुहूर्ते समनुप्राप्ते गुरवे संनिवेदयेत् ॥५१॥आचार्यस्तु समुद्धृत्य बाह्यधाम प्रदक्षिणम् ।सर्वातोद्यसमायुक्तं सर्ववाद्यसमन्वितम् ॥५२॥प्रविशेद्गर्भगेहं तु मूलमन्त्रमुदाहरन् ।प्. ३६४) स्थापयेदवटे शूलतलाधस्ताद्दृढं यथा ॥५३॥अष्टबन्धदृढं कृत्वा सुधया वा विशेषतः ।तस्य वामे तु संस्थाप्य गौरीशूलं विशेषतः ॥५४॥आधाराख्य शिलायां तु गर्भभाजनमावटम् ।पंचषट्सप्तमात्रं वा गर्तव्यासं तथा नवम् ॥५५॥गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् ।प्रागुक्त विधिना स्थाप्य गन्धपुष्पादिभिर्यजेत् ॥५६॥स्थापयेत्पूर्ववच्छूलं मूलं वै गर्भभाजनम् ।यत्र शेषं तु यत्कर्मशिल्पिभिस्तु विशेषतः ॥५७॥कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते ।स्थपतिश्चित्रकर्मज्ञो योज्यश्चान्यैर्न कारयेत् ॥५८॥कृतं चेदन्यथा विप्र ! कर्ता चान्यो भविष्यति ।आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः ॥५९॥दक्षिणां दापयेत्तत्र पंचनिष्कहिरण्यकम् ।शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु ॥६०॥इत्यंशुमान्काश्यपे शूलस्थापनविधिपटलः (चतुरशीतितमः) ॥८४॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP