संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| पिण्डिकालक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - पिण्डिकालक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत पिण्डिकालक्षणपटलः Translation - भाषांतर अथातो नागरादीनां लिंगानां पीठलक्षणम् ।आदौ तु वक्ष्यते विप्र सकलानां ततो विदुः ॥१॥शैलजे तु शिलापीठं सुधयेष्टकयापि वा ।दारुजे दारुजं वाथ इष्टकामयमेव वा ॥२॥रत्नलोहादि लिंगानां स्वयोनिं लोहजं तु वा ।लिंगोत्सेधसमं पीठ विस्तारं चोत्तमं भवेत् ॥३॥पूजांशोच्च समं पीठं तारं कन्यसमुच्यते ।तयोर्मध्येऽष्टभागे तु उत्तमादि त्रयं त्रयम् ॥४॥पीठव्यासं त्रिधाभज्य द्विभागं चोत्तमोन्नतम् ।व्यासार्धमधमोत्तुंगं तयोर्मध्येष्टभाजिते ॥५॥नवधापीठतुंगं तु उत्तमादि त्रयं त्रयम् ।क्रमेण कथिता विप्र नागरा ह्येव मुच्यते ॥६॥लिंगस्योच्च समं व्यासं श्रेष्ठं तन्नवभाजिते ।सप्तांशं कन्यसं व्यासं तयोर्मध्येऽष्टभाजिते ॥७॥नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि ।उदयं वसुधा भज्य द्विभागं वानलांशके ॥८॥एकांशं वा विशेषेण स्थलांशे तु निवेशयेत् ।शेषं पीठोदयं ख्यातं एवं द्राविडमाचरेत् ॥९॥पूजांशपरिणाहेन समं श्रेष्ठविशालकम् ।परिणाहे कलांशे तु भान्वंशमधमंततीः ॥१०॥तयोर्मध्येष्टभागे तु नवधा पीठविस्तृतम् ।विष्णुभागसमोच्चं तु पीठं कन्यसमुच्यते ॥११॥सपादं श्रेष्ठमाख्यातं तयोर्मध्येऽष्टभाजिते ।नवधा पिण्डिकोत्तुंगं वेसरे ह्येवमाचरेत् ॥१२॥अथवा लिंगविष्कंभं त्रिगुणं पीठविस्तृतम् ।अथवा लिंगविष्कंभं चतुरश्रीकृते सती ॥१३॥तत्कर्णद्विगुणं वाथ सार्धद्विगुणमेव वा ।त्रिगुणं वा विशालं तु पीठानां तु विशेषतः ॥१४॥गर्भगेह त्रिभागैकं चतुर्भागैकमेव वा ।पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम् ॥१५॥सामान्यं नागरादीनां लिंगानां पिण्डिका इमाः ।उपानबाह्यविस्तारं सर्वेषां तु विशेषतः ॥१६॥तदष्टा नवदशांशेन हीनमग्रविशालकम् ।विष्णुभागसमोत्तुंगं सपादं सार्धमेव वा ॥१७॥सामान्यपिण्डिकानां तु नागरादि समुन्नतम् ।लिंगानां सकलानां च सामान्यं पीठलक्षणम् ॥१८॥सकलोदये नवांशे तु व्योमांशं कन्यसोदयम् ।गुणांशं श्रेष्ठमानं तु तयोर्मध्येऽष्टभाजिते ॥१९॥नवधा पीठतुंगं तु तस्य विस्तारमुच्यते ।पीठतुंगसमव्यासं अधमं पीठमुच्यते ॥२०॥द्विगुणांशोत्तमव्यासं तयोर्मध्येऽष्टभाजिते ।नवधा विस्तृतं ख्यातं सकलानां विशेषतः ॥२१॥पिण्डिका गोमुखोपेता लिंगानां तु विधीयते ।गोमुखारहितं पीठं सकलानां विशेषतः ॥२२॥समाश्रं समवृत्तं वा लिंगानां तु विधीयते ।सायताश्राय वृत्तं वा प्रतिमानासनं तु वा ॥२३॥पद्मपीठं भद्रपीठं वेदिका परिमण्डलम् ।पीठं चतुर्विधं ख्यातं अलंकारं द्विजोत्तम ! ॥२४॥कलांशं विभजेत्तुंगं उपानोच्चं द्विभागया ।भूतांशोच्चमधः पद्मं कण्ठं पादुकसादृशम् ॥२५॥ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् ।शिवांशं घृतवार्युच्चं षोडशं दलसंयुतम् ॥२६॥क्षुद्रं दलं तयोर्मध्येऽप्यष्टौ वाथ महादलम् ।अर्धांगुलं दलाग्रोच्चं मानांगुलेन सुव्रत ! ॥२७॥लिंगभेदांगुलार्धं वा दलाग्रस्य समुच्छ्रयम् ।पीठतार त्रिभागैकं गोमुखादीर्घमुच्यते ॥२८॥तद्दीर्घसदृशं तस्य मूलव्यासमुदाहृतम् ।मूलतारत्रिभागैकं तस्याग्रं विस्तृतं भवेत् ॥२९॥मूलादग्रं क्रमात्क्षीणं तद्घनं व्याससादृशम् ।त्रिपादं वार्धवा नीव्र त्रिभागैकांशमेव वा ॥३०॥व्यासत्रिभागभागं तु जलमार्गविशालकम् ।पट्टिकोर्ध्वसमं निम्नं तस्यादीषं ततं तु वा ॥३१॥उपानाद्यंगवेशं च नीव्रं सौन्दर्यमाचरेत् ।अधिष्ठानांगवद्वेश नीव्रं वा परिकल्पयेत् ॥३२॥पद्मपीठं समाख्यातं भद्रपीठमथोच्यते ।कृत्वा तु षोडशोत्सेधं भागेनोपानमुच्यते ॥३३॥जगत्युच्चं तु वेदांशं गुणांशं कुमुदोदयम् ।शिवांशं पट्टिकामानं कण्ठमानं गुणांशकम् ॥३४॥तदूर्ध्वकंपमेकांशं द्विभागा पट्टिका भवेत् ।शश्यंशं घृतवारि स्यात् एतत्तु भद्रमुच्यते ॥३५॥पीठोच्चे तु कलांशे तु द्विभागं पादुकोदयम् ।गुणांशं जगती मानं कुमुदोच्चं तु तत्समम् ॥३६॥व्योमांशं कंपमानं तु कण्ठमानं द्विभागया ।तस्योर्ध्वकंपमेकांशं गुणांशा पट्टिका भवेत् ॥३७॥एकांशं घृतवारि स्याद् एतद्भद्रकमुच्यते ।भद्रमेव तथा ख्यातं वेदिपीठमथोपरि ॥३८॥त्रयोदशांशे पीठोच्चं द्विभागं पादुकोदयम् ।तदूर्ध्वपद्मतत्तुल्यं कंपमंशेन कारयेत् ॥३९॥द्विभागं कण्ठमानं तु ऊर्ध्वकंपं शिवांशकम् ।तदूर्ध्वे पद्ममक्षांशं पट्टिका चैव तत्समम् ॥४०॥घृतवार्युदयं व्योमभागेन परिकल्पयेत् ।अथवोदयं तु वस्वंशे उपानोच्चं शिवांशकम् ॥४१॥एकांशं घृतवारि स्यात् शेषं वेदीयुगाश्रकम् ।वेदिका पीठमाख्यातं तदेवाक्षांशपट्टिका ॥४२॥कर्तव्यं च त्रिधैकं हि वेदिका पीठमुच्यते ।पद्मं वा भद्रपीठं वा वृत्तं तत्परिमण्डलम् ॥४३॥अधिष्ठानांगवद्वाथ पीठांगं परिकल्पयेत् ।उपपीठांगवद्वाथ तत्तन्नाम्ना प्रकीर्तिताः ॥४४॥जयदं चतुरश्रं स्यात् योन्याकारं प्रकल्पयेत् ।शान्तिः स्याद्धनुषाकारं गुणाश्रं रिपुनाशनम् ॥४५॥वर्धनाहे तु वृत्तं स्यात् पंचाश्रं पुष्टिदं भवेत् ।रोगनाशकरं चाष्टकोणमेवं क्रमाद्विदुः ॥४६॥एष्वाकारेषु पीठांगान् प्रागुक्त विधिना कुरु ।द्रव्योत्कृष्टैर्नवा वाथ जीर्णोद्धारे द्विजोत्तम ! ॥४७॥पूर्वाकृतिर्यथा कार्यं तथा कुर्यात्पुनः पुनः ।पश्चादन्या कृतिर्विप्र गुणं वा गदायतम् ॥४८॥आर्जवं मुखभद्रं वा भद्रं चेत्समभद्रवत् ।लिंगानां सायतं पीठं न कुर्यात्तु कदाचन ॥४९॥समाश्रं समवृत्तं वा सायताश्रं तथान्यकम् ।सर्वं च सकलानां तु कर्तव्यं संपदां पदम् ॥५०॥पिण्डिका लक्षणं प्रोक्तं पादशैलादिकं शृणु ।इत्यंशुमान्काश्यपे पिण्डिकालक्षणपटलः (द्विपंचाशः) ॥५२॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP