संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| उत्तमदशतालविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - उत्तमदशतालविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत उत्तमदशतालविधिपटलः Translation - भाषांतर उत्तमं दशतालादि लक्षणं वक्ष्यतेऽधुना ।मृण्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् ॥१॥शैलजा प्रतिमा चेत्तु शिलाग्रहणं लिंगवत् ।लोहजं सकलं चेत्तु मधूच्छिष्ठेन निर्मितम् ॥२॥स्थण्डिलं शालिभिः कुर्यादालयाग्रे तु मण्टपे ।कुशाशयं तु संकल्प्य दर्भैः पुष्पैः परिस्तरेत् ॥३॥तदूर्ध्वे फलकं न्यस्त्वा दारुजं प्राग्दिशाग्रकम् ।आचार्यः शिल्पकर्ता च शुद्धमानं परिग्रहेत् ॥४॥तन्मान सेवितांगानि त्वथ नैव तु कारयेत् ।प्राक्शिरश्चोर्ध्व वक्त्रं तु फलकायां निधापयेत् ॥५॥गन्धैः पुष्पैश्च धूपैश्च दीपैश्चाभ्यर्च्य देशिकः ।तस्य दक्षिण पार्श्वे तु शिवाग्निं तु प्रकल्पयेत् ॥६॥समिदाज्यैश्च चरुभिः हृदाचाष्टशताहुतिः ।द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥७॥ध्यात्वा बिम्बा कृति त्वग्नि मध्ये मूलमुदाहरेत् ।आत्मना निजतद्रूपं हृदयं मन्त्रमुच्चरन् ॥८॥अंगुष्ठाग्रं तु पार्ष्ण्यन्ततलं सप्तदशांगुलम् ॥९॥हिक्कासूत्रादधो बाहुदीर्घं ऋक्षांगुलं भवेत् ।कोर्परोच्चं द्विमात्रं स्यात् एकविंशत्प्रकोष्ठकम् ॥१०॥सार्धत्रयोदशं तस्मात् मध्यांगुलाग्र सीमयुक् ।ततो वै मुखविस्तारं सार्धभान्वंगुलं भवेत् ॥११॥मुखान्तस्य तु विस्तारं सार्धत्रयोदशांगुलम् ।ग्रिवाग्रं सार्धनन्दांशं ग्रीवामूलं दशांगुलम् ॥१२॥हिक्काधो बाहुसीमान्त चत्वारिंशच्छिवाधिकम् ।सार्धद्वाविंशदंशं तु कक्षयोरन्तरस्ततम् ॥१३॥नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् ।एकविंशति भागं स्यात् स्तनदेशे तु विस्तरम् ॥१४॥हृदयावधिविस्तारं एकोनविंशदंशुलम् ।कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् ॥१५॥एकोन विंशदंशं तु श्रोणी तारमुदाहृतम् ।कटिरग्रविशालं तु त्रिनवांगुलमुच्यते ॥१६॥तदधः कटिपार्श्वान्तं विस्तारार्धांश विंशतिः ।पादोनमनुभागं तु ऊरुमूलविशालकम् ॥१७॥सपाद * * भागं तु ऊरुमध्यविशालकम् ।पादोन धर्मभागं तु जातु व्यासमुदाहृतम् ॥१८॥स पादवसुभागं तु जंघामूलविशालकम् ।पादोन सप्तभागं तु जंघामध्यविशालकम् ॥१९॥तयोर्मध्य ततं विप्रवस्सभागमुदाहृतम् ।पादोन पक्षभागं तु नलकाविस्तृतं भवेत् ॥२०॥त्रियवाधिकपंचांशं गुल्फव्यासमुदाहृते ।अक्षादातवतुंगं तु सार्धवेदांगुलं भवेत् ॥२१॥पार्ष्णितारं चितत्तुल्यं पार्ष्ण्योरुच्चं तदेव हि ।तलमध्यं षडंशं स्यात् यवद्वयसमायुतम् ॥२२॥दलाग्रविस्तृतं सप्तभागमित्यभिधीयते ।द्वियवाधिकवेदांशं पादांगुष्ठायतं भवेत् ॥२३॥यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते ।तारार्धघनविस्तारं पादोनायतवर्तुलम् ॥२४॥त्रयवोपेत वेदांशं तर्जन्यायाममुच्यते ।पादोन वेदभागं तु मध्यांगुलायतं भवेत् ॥२५॥यवोपेताग्निभागं तु अनामिकायाममिष्यते ।सार्धपक्षांशमानं तु कनिष्ठांगुलि दीर्घकम् ॥२६॥प्रादेशिन्यादिक्रमात्तारं नवसप्तार्थ सप्तषट् ।यवमानं स्वतारार्धं नखं पूर्वोक्तवद्विदुः ॥२७॥तत्तदंगुलि विस्तारं वेदांशं विभजेद्बुधः ।त्रिभागमंगुलाग्रोच्चं शेषं स्यात्तु नखोदयम् ॥२८॥त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् ।स पादसप्तभागं तु कोर्परव्यासमुच्यते ॥२९॥पादोन रसभागं तु प्रोकोष्ठं मध्यविस्तृतम् ।पादोन चतुरंशं तु मणिबन्ध विशालकम् ॥३०॥सप्तांशं तु तलायामं सार्धषण्मध्यमांगुलम् ।स पादभूतभागस्यानामिकायामयुच्यते ॥३१॥यवाधिकं तु पंचांशं तर्जन्यायाममुच्यते ।स पादवेदभागं तु दीर्घांगुष्ठ कनिष्ठयोः ॥३२॥अंगुष्ठमूलविस्तारं रुद्रायवमुदाहृतम् ।तर्जन्याष्ट यवा ख्यातं नवयवाख्यमध्यमम् ॥३३॥अनामिकाष्टयवा ख्याता कनिष्ठा सप्तसंख्यया ।अंगुष्ठाद्यंगुलान्तं तु मूलविस्तारमेव हि ॥३४॥तन्मूलं तु कलेशांशं हीनमग्रविशालकम् ।अग्रतारं रसांशे तु पंचांशं नखविस्तृतम् ॥३५॥पार्श्वयोर्मांसलं शेषं वृत्तायतनखाकृतिः ।स पादनखतारं तु नखयाममुदाहृतम् ॥३६॥नखायामद्वयं चाग्रपर्वदीर्घं प्रशस्यते ।अंगुष्ठं मूलपर्वस्य दीर्घं सप्तदशायवम् ॥३७॥तर्जनीमूलपर्वं तु अनामिकोच्चद्वयांगुलम् ।मध्यमामूलपर्वस्य दीर्घमष्टादशा यवाः ॥३८॥कनिष्ठमूलपर्वस्य त्रयोदशयवाः स्मृताः ।मूलाग्रपर्वयोर्मध्य दीर्घमध्यस्थ पर्वसु ॥३९॥अंगुष्ठं तु द्विपर्वस्या शेषा त्रिपर्वसंयुतः ।सार्धभूतांगुलं विप्रतलाग्रं विप्रलंभवेत् ॥४०॥रसांशमध्यविस्तारं हस्तस्यैव तलस्य तु ।तलमूलविशालं तु सार्धषड्भागमुच्यते ॥४१॥अंगुष्ठमूलमारभ्य तर्जनीमूलमन्तकम् ।अंगुष्ठमूलमारभ्य मणिबन्धावसानकम् ॥४२॥दीर्घं वेदांगुलं प्रोक्तं तदर्धांशं घनं भवेत् ।पार्ष्णिहस्तवनाग्न्यंशं अग्रमंगुष्ठवत्क्षयम् ॥४३॥अंगुल्यानामधस्तात्तु सार्धांशं मांसलं ततम् ।द्विभागं पार्ष्णिहस्तस्य शुकोदरविशालकम् ॥४४॥शेषमध्यतलं निम्नं भूतवेदाग्नि वा * *? ।सूक्ष्मरेखां लिखेत्तस्मिन्शंखं वा चक्रशूलकम् ॥४५॥पद्माभं वा तलं रेखां * * * * प्रकल्पयेत् ।यवाकैकर्तुनिम्नं स्यात् रेखानां तु द्विजोत्तम ! ॥४६॥वृत्ता पेक्षितांगेषु व्यासं पंचविभाजिते ।एकांशं तु परिग्राह्य विस्तारं द्विगुणायतम् ॥४७॥यत्ततोहमिदं ख्यातं नाहं तेनैव कल्पितम् ।कर्णोर्ध्वे शिरसा नाहं सास्त्रिंशांगुलं भवेत् ॥४८॥कर्णोर्ध्वे त्वपरे भागे द्वादशं चांगुलं भवेत् ।कर्णोर्ध्वे पूर्वभागं तु द्वाविंशांगुलकं भवेत् ॥४९॥कर्णयोः पृष्ठनाहं तु भान्वंगुलमुदाहृतम् ।तयोर्मध्यस्थ भागं तु कर्णयोरन्तरस्थितिः ॥५०॥शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरंगुलम् ।गुडाग्रकेशान्तं सार्धनवांगुलमुदाहृतम् ॥५१॥तदेव मण्डलात्कण्ठकेशान्तं च नवांगुलम् ।मण्डलात्पृष्ठकेशान्तं सार्धधर्मांगुलं भवेत् ॥५२॥ललाटे तिर्यजानां तु नवांगुल मुदाहृतम् ।केशान्ता दक्षिसूत्रं स्यात् द्वयोर्मध्ये भ्रुवः स्थितिः ॥५३॥भ्रुवाग्रौ तून्नतौ चैव चापाकारं यथा कुरु ।द्व्यन्तरं तु भ्रुवोर्विप्र सार्धवेदयवं भवेत् ॥५४॥पंचांगुलं भ्रुवायामं मध्यतारं यवद्वयम् ।बालचन्द्राग्रवत्क्षीणं भ्रुवाग्रौ तस्य मध्यमम् ॥५५॥कनीनिकायामविस्तारं यवमानमुदाहृतम् ।कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् ॥५६॥सितान्तं तत्समं व्यासं कृष्णमण्डलपार्श्वयोः ।शबराकृतिकं वापि धनुराकृतिरेव वा ॥५७॥अर्धचन्द्राकृतिर्वाथ नेत्राकारं प्रकल्पयेत् ।तदाकारानुकूलोच्चं सितमण्डलयोर्द्विज ! ॥५८॥नेत्रान्तेऽर्धयवं रक्तं मण्डलं तु सितांशकम् ।तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् ।तत्सार्धयवमानं तु ऊर्ध्ववर्मततं भवेत् ॥६०॥अधोवर्म च तत्तुल्यं दीर्घमष्टादशा यवम् ।नेत्रयोरन्तरं विप्र ! स पादद्व्यंगुलं भवेत् ॥६१॥अधोवर्मस्थितिर्विप्र ! नेत्रस्य तु विधीयते ।कर्तुर्नाशमथोदृष्टिः ऊर्ध्वदृष्टिर्विपत्करम् ॥६२॥बन्धुनाशो भवेत्पार्श्व दृष्टिश्चेद् ग्रामवासिनाम् ।तस्मात्सर्व प्रयत्नेन सममेव निरीक्षणम् ॥६३॥नेत्रमेवं समाख्यातं नासिका लक्षणं पुनः ।नासिकापुट बाह्ये तु तारमष्टा दशायवम् ॥६४॥तदर्धमग्रविस्तारं तस्यार्धं मूलविस्तृतम् ।गोजिमूलात्तु नास्यग्रं तुंगं तद्द्व्यंगुलं भवेत् ॥६५॥पुटयोर्मध्यभित्तिस्तु पुष्करं चेति विद्यते ।अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः ॥६६॥सार्धवेदयवं गोजिदीर्घं तस्यार्धविस्तृतम् ।उत्तरोष्ठस्योर्ध्वनिम्न गोजिनाम्ना प्रशंसितम् ॥६७॥यवमानं ततं गोजि कृत्वैव नासिकां द्विज ! ।स पाद चतुरंशं तु आस्यादीर्घं तिर्यग्विदुः ॥६८॥उत्तरोष्ठायतं चास्यादीर्घं तुलमुदाहृतम् ।उत्तरोष्ठस्य मध्ये तु तारं सार्धत्रयं यवम् ॥६९॥आवृष्ठ्या कृतशांतारं आस्य सीमावसानकम् ।यवमानघनं पली उत्तरोष्ठस्य चोपरि ॥७०॥त्रिवक्रे चोत्तरा पाली ततोष्ठ सदृशायताः ।अष्टादशयवा प्रोक्ता अधरोष्ठस्य दीर्घकम् ॥७१॥यवाधिकांगुलं तस्य विस्तारं द्विजसत्तम ! ।अधरं पालिका सार्ध यवमानमथोच्यते ॥७२॥चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते ।किंचित्प्रहसिताकारं आस्य युक्तानुकारयेत् ॥७३॥अधराच्चिबुकालम्बं सार्धपक्षांगुलं भवेत् ।चिबुकात्तु हनोर्वंशं सार्धाष्टयवमुच्यते ॥७४॥सार्धद्व्यंगुलकां तस्य तारमायतवृत्तवत् ।हनोः सन्ध्यैकर्णबन्धान्तं त्वन्तरं द्वादशांगुलम् ॥७५॥हरोर्बाह्यं समारभ्य पादोन युगमात्रकम् ।कर्णवेशमिति ख्यातं ततः कर्णं वदामिते ॥७६॥नेत्रान्तात्कर्णबाह्यान्तं द्व्यन्तरं सप्तमात्रकम् ।कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः ॥७७॥अक्षिसूत्रोर्ध्वतः कर्णतुंगं चाष्टादशं यवम् ।तदर्धं चोर्ध्वबन्धा तु शेषं वृत्तममूर्ध्वतः ॥७८॥नेत्रसूत्रादधः कर्णबन्धं सप्तदशा यवा ।सार्धवेदांगुलं तस्मात् तस्य नालं प्रलम्बयेत् ॥७९॥पूर्वाल ततं व्योमभागं सार्धांशका परम् ।नालयोर्व्यासमाख्यातं घनमर्धांगुलं तयोः ॥८०॥नालान्तरं त्रिपादं च वेदांशं व्रततायतम् ।कर्णतुंगमशेषं तु यवैकोन नवांगुलम् ॥८१॥पिप्पली घनमर्धांशं दिगुणं हिततायतम् ।उत्सेधं सार्धमात्रं स्यात् मूलादग्रं क्षयानुगम् ॥८२॥द्विभागं पिबुषी दीर्घं द्वियवार्धांश विस्तृतम् ।अक्षसूत्रादयः कर्णद्वारमर्धांगुलं भवेत् ॥८३॥कर्णद्वारंतती निम्नं सममेव हि वर्तुलम् ।कर्णपालीघनं सार्धयवनीवं चतुर्यवम् ॥८४॥पृष्ठकर्णस्य विस्तारं अध्यर्धांगुलमुदाहृतम् ।केशान्तात् पृष्ठकर्णं तु द्व्यन्तं द्व्यर्धमात्रकम् ॥८५॥पृष्ठकेशावसाने तु कृकार्धांशकं नतम् ।तस्याधः पृष्ठदीर्घोच्चं युगांशं त्रियवाधिकम् ॥८६॥कृकाटिकादयः पृष्ठग्रिवाग्रं तु नवांगुलम् ।पृष्ठग्रीवस्य मूलस्य तारं सार्धदशांगुलम् ॥८७॥मूलादग्रं क्रमात्क्षीणं ग्रीवं वृत्तांगमुच्यते ।हिक्कासूत्रोपरि स्कन्धसंधीतुंगं युगांगुलम् ॥८८॥कर्णबन्धादयस्सार्ध षण्मात्रं स्कन्धसीमकम् ।सप्तांगुलघनं स्कन्धं हिक्कावधि क्रमात्क्षयम् ॥८९॥पृष्ठग्रीवादधस्तात्तु ककुन्मानं दशांगुलम् ।तस्मादा कटिसंधान्त वशमृक्षांशमायतम् ॥९०॥तद्वशं नत विस्तारं सार्धषोडशकं यवम् ।वंशमानादधस्तात्तु वंशमूलं गुणांगुलम् ॥९१॥अपरे तुंगमेवं स्यात् तस्मिन्व्यासं वदामि ते ।सार्ध ऋक्षांगुलं प्रोक्तं कक्षयोरन्तरं द्विज ! ॥९२॥कक्षाधोहंसफलकातुंगं सप्तांगुलं भवेत् ।कक्षोर्ध्वे बाहुसीमान्तं सप्तांगुलमुदाहृतम् ॥९३॥सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ।नाभिसूत्रे तु विस्तारं सार्धविंशांगुलं भवेत् ॥९४॥कटिसन्धौ तु विस्तारं त्रिषडंशमुदाहृतम् ।पादोन धर्मभागं तु स्फिक् पिण्डं प्रतिविस्तृतम् ॥९५॥सुत्तौ तौ समाख्यातौ तयोर्मध्ये चतुर्यवम् ।अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥९६॥कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।स पादषोडशमात्रं स्यात् स्तन सूत्रे तु विस्तृतम् ॥९७॥स वेदद्वादशांशं तु मध्यपार्श्वघनं भवेत् ।श्रोणी मध्यघनं पार्श्वे सप्तदशांगुलं भवेत् ॥९८॥ततः श्रोण्युदयं विप्र ! सप्तमात्रमुदाहृतम् ।नाभिसूत्रादधश्चोर्ध्वे चतुर्थं त्र्यंगुलं हि तत् ॥९९॥श्रोण्यधस्तात् कटेरुच्चं सार्धभूतांगुलं भवेत् ।तत्कटेस्तु घनं धीमान् सार्धभान्वंगुलं भवेत् ॥१००॥स्फिक् पिण्डं चोरुमूलात्तु नीव्रं सार्धयुगांगुलम् ।तत्पिण्डालम्बनं चार्ध सूत्रान्दाधोगांगुलम् ॥१०१॥श्रोण्यधस्तात्कटे रुच्चं सार्धसूत्रादधोयुगांगुलम् ।कक्षाग्रधरनिम्नं तु सार्धद्व्यंगुलकं भवेत् ॥१०२॥ग्रीवा सुवृत्ति नाहं तु रेखा द्वौ परिवेष्टितम् ।कर्णमूलेन तत्तारं तुंगं चैव चतुर्यवम् ॥१०३॥हिक्काया स्वाक्षमात्रं तु जर्तृसूत्रमुदाहृतम् ।हिक्कामध्यात्तु कक्षान्तं भान्वंशात्पादहीनकम् ॥१०४॥हिक्कादास्तनसूत्रान्तं स्तनान्तरसमं भवेत् ।हृदायस्तनयोर्मध्ये निम्नमध्यर्धमात्रकम् ॥१०५॥तिलं वै कर्णमध्ये तु यवत्रयप्रमाणकम् ।तस्यार्धं वा समावृत्तं कल्पयेत्तु त्रिपुण्ड्यवत् ॥१०६॥कर्णमूले नतं हिक्कासूत्राधस्तात्प्रकल्पयेत् ।हिक्कासूत्रोपरिष्ठात्तु नीलकर्णं प्रकल्पयेत् ॥१०७॥हृदयास्तन पीठोच्चं द्व्यंगुलं समुदाहृतम् ।सप्तादशयवा ख्यातं स्तनमण्डलविस्तृतम् ॥१०८॥तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् ।नाभेस्तु नतविस्तारं व्योमांशं द्वियवाधिकम् ॥१०९॥तन्नाभिदक्षिणावर्तं मूलतारं यवद्वयम् ।तन्नाभ्यवटमध्यस्थं नाभिसूत्रं द्विजोत्तम ! ॥११०॥नाभेरथ पादेन श्रोण्युच्चं पंचमात्रकम् ।तदधस्तात्कटिश्रोणी सार्धत्र्यंगुलकं भवेत् ॥१११॥तस्मादामेढ्रमूलान्तं मेढ्रपीठं युगांगुलम् ।स पादपंचमात्रं तु लिंगदीर्घमुदाहृतम् ॥११२॥लिंगमूलविशालं तु सप्तादशयवा तता ।लिंगायामत्रिभागैकमग्र मण्ड्या यवं भवेत् ॥११३॥तदग्रग्रन्थि(गण्डि ?)मूलं तु यवमानं बृहत्तरम् ।रक्तोत्पलमुकुलाभं अग्रमण्ड्याग्रमुच्यते ॥११४॥मुष्कायामविशालं तु सार्धवेदांगुलं भवेत् ।घनं सार्धगुणांशं तु तन्मूलोर्ध्वोऽग्रबन्धनम् ॥११५॥मेढ्रपीठसमूलस्य व्यासं सप्तार्धमात्रकम् ।मेढ्रपीठस्य मूलान्तं ऊरुमूलस्य मांसलम् ॥११६॥जानुमण्डलविस्तारं स पादं चतुरंगुलम् ।सार्धत्र्यंगुलकं प्रोक्तं जानुमण्डलनीव्रकम् ॥११७॥सार्धद्व्यंगुलकं प्रोक्तं पृष्ठजान्वोन्नतं भवेत् ।मध्ये तु पाश्वयोः शेषं यथा सौन्दर्यमाचरेत् ॥११८॥इत्यंशुमान्काश्यपे उत्तमदशतालविधिपटलः (षट्पंचाशः) ॥५६॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP