संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
नवभूमिविधानपटलः

अंशुमत्काश्यपागमः - नवभूमिविधानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण नवभूमिविधिं परम् ।
प्रासादमानवत्कार्यं गेहव्यासं तदुन्नतम् ॥१॥

पंचादश भजेत्तारं गुणांशं गर्भगेहकम् ।
द्विभागा गृहपिण्डी स्यात् अलिन्दं चैक भागया ॥२॥

व्योमांशं कुड्यविस्तारं अलिन्दं तत्समं भवेत् ।
हाराव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः ॥३॥

अथवा षोडशांशं तु प्रासादं विभजेत्ततः ।
युगांशं गर्भगेहं तु द्विभागं ग्रहपिण्डिकाः ॥४॥

अलिन्दं व्योमभागेन हारा चैव तु तत्समम् ।
विन्याससूत्ररन्तं वा कलांशं विभजेत्समम् ॥५॥

एकांशं सौष्टिकव्यासं कोष्ठं तद्द्विगुणायतम् ।
पंजरव्यासमेकांशं कर्णकूटशिवाकृतिः ॥६॥

हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ।
चतुष्कूटाच्चतुश्शाला कलापंजर संयुतम् ॥७॥

हारान्तरं च द्वात्रिंशत्कल्पयेदादि भूतले ।
एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् ॥८॥

तृतीयभूतलव्यासं मुनिभागविभाजिते ।
अर्धांशं पंजर व्यासं शेषं पूर्ववदाचरेत् ॥९॥

तद्वच्चतुस्तलं चैव कल्पयेत्कल्पवित्तमः ।
पंचभूमिविशालं च भानुभागविभाजिते ॥१०॥

एकांशं कूटविस्तारं शाला तद्द्विगुणायतम् ।
अर्धांशं पंजरव्यासं स्यादर्धं हारयोन्तरम् ॥११॥

भानुशाला चतुष्कूटं पंजरं षोडशैव तु ।
हारान्तरं तु द्वात्रिंशत् कल्पयेत्कल्पवित्तमः ॥१२॥

दशांशं षट्तलव्यासं कृत्वैकांशं तु सौष्टिकम् ।
कोष्ठं तद्द्विगुणायामं अर्धांशं हारयोन्तरम् ॥१३॥

लम्बपंजरसंयुक्तं हारान्तरं प्रकल्पयेत् ।
तदूर्ध्वभूविशालं तु रसभाग विभाजिते ॥१४॥

एकांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् ।
पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥१५॥

तदूर्ध्व भूविशालं तु गुणभागविभाजिते ।
मध्येंशं दण्डमानेन निर्गमं परिकल्पयेत् ॥१६॥

साष्टाशीति द्विभागं तु कृत्वा हर्म्योदयं बुधः ।
पादोनचतुरंशं तु धरातलमुदाहृतम् ॥१७॥

पादोच्चं सार्धसप्तांशं सार्धाग्न्यंशं तु प्रस्तरम् ।
सप्तांशं चरणोच्चं तु सपादाग्न्यंश मंचकम् ॥१८॥

सार्धषट्कांघ्रि तुंगं तु गुणांशं मंचमानकम् ।
षड्भागं पादमानं तु पादोनाग्न्यंशमंचकम् ॥१९॥

पादोच्चं सार्धभूतांशं सार्धपक्षांशमंचकम् ।
सपादं पंचभागं तु पादस्योत्सेधमुच्यते ॥२०॥

प्रस्तरं सार्ध पक्षांशं भूतांशं चरणोदयम् ।
पादाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ॥२१॥

पादोनपंचकं पादं प्रस्तरोच्चं द्विभागया ।
सार्धवेदांशकं पादं पादोनद्व्यंशमंचकम् ॥२२॥

शिवांशं वेदिकोत्सेधं कर्णं चाध्यर्ध भागया ।
शीर्षकं सार्धवेदांशं पादोन द्व्यंशकुड्मलम् ॥२३॥

पादं प्रत्यल्पनासाढ्यं शीर्षके वेदनासिका ।
समंचोन्नतकूटाढ्यं कूटाग्रं चतुरश्रकम् ॥२४॥

होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।
अशेषमध्यशालास्तु पार्श्वकोष्ठस्तु निर्गतिः ॥२५॥

दण्डं वाऽध्यर्धदण्डं वा नाम्ना लम्बितभद्रकम् ।
तदेवोन्नतकोष्ठाः स्युः मंचोन्नतकूटकम् ॥२६॥

ब्रह्मकान्तमिदं नाम्ना सर्वदेव प्रियावहम् ।
समंचं वा विमंचं वा कूटकोष्ठौ समुन्नतौ ॥२७॥

प्रादेशमिति विख्यातं देवानां तु हितं परम् ।
तदेव शिखरं कण्ठं वस्वश्रं चाष्टनासिकाः ॥२८॥

युगाश्रं वसुकोष्ठं च वृत्तं सौष्टि पुनः पुनः ।
सौष्ट्यंशेन युगाश्रं वा श्रीवर्धनमिदं परम् ॥२९॥

समंचौ कूटकोष्ठौ द्वौ विमंचौ वाथ सादृशौ ।
वृत्तग्रीवाशिरोपेतं चतुर्दिग्भद्रनासिकाः ॥३०॥

विदिक्षु भद्रनासाढ्य युग्मं वाऽयुग्ममेव वा ।
युग्मपंजरसंयुक्तं सुपद्ममिति विद्यते ॥३१॥

तदेव प्रतिसौष्ट्यग्रं क्रतुवर्धनमुच्यते ।
तदेवगर्भगेहं तु वृत्तं वृत्त गृहं भवेत् ॥३२॥

एवं नवतलं ख्यातं दशभूमिमथोपरि ॥३२॥

इत्यंशुमान्काश्यपे नवभूमिविधानपटलः (पंचत्रिंशः) ॥३५॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP