संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| लक्षणोद्धारविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - लक्षणोद्धारविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत लक्षणोद्धारविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण लक्षणोद्धारलक्षणम् ।लिंगस्य मुखनिर्माणं लक्षणोद्धारमिष्यते ॥१॥प्रासादस्याग्रतो वापि शांकरे दक्षिणेऽपि वा ।नवाष्टसप्तहस्तं वा मण्टपं चतुरश्रकम् ॥२॥षोडशस्तंभसंयुक्तं सर्वालंकारसंयुतम् ।मण्टपस्य त्रिभागैकं तन्मध्ये वेदिकां कुरु ॥३॥हस्तमात्रसमुत्सेधां दर्पणोदरसंनिभाम् ।गोमयालेपनं कृत्वा पिष्टचूर्णैरलं कृताम् ॥४॥नानातोरणसंयुक्तां नानापुष्पैरलंकृताम् ।शालिभिस्थण्डिलं कृत्वा वेदिकायां विशेषतः ॥५॥तण्डुलैश्च तिलैर्दर्भैः लाजपुष्पैरलं कृताम् ।अधमत्रयलिंगानां एवं मण्टपमाचरेत् ॥६॥शेषाणां लिंगदीर्घस्य वेदिकाविस्तृतं भवेत् ।तेनैव त्रिगुणैर्व्यासं मण्टपस्य विशालकम् ॥७॥प्. २५७) अन्यत्सर्वमलंकारं प्रागिवैव समाचरेत् ।वेद्यूर्ध्वे शाययेल्लिंगं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥८॥परितोऽष्ट घटान्न्यस्त्वा सकूर्चान्सापिधानकान् ।ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरितान् ॥९॥वासोपिधानान्हेमाढ्यान् लोकपालांश्च देशिकः ।गन्धैः पुष्पैश्च धूपैश्च अर्चयेत्तु स्वनामतः ॥१०॥लिंगमूलस्य वामे तु पिण्डिकां च निधापयेत् ।रक्तेन शालिना वेष्ट्य लिंगपीठौ समर्चयेत् ॥११॥वेदिकायास्ततस्त्वैन्द्रे कुण्डं वा स्थण्डिलं गुरुः ।अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥१२॥ब्रह्मवृक्षसमिद्भिस्तु होमं कृत्वा तु सद्यतः ।आ वो राजेति मंत्रेण इदं विष्ण्विति मंत्रतः ॥१३॥ब्रह्मजज्ञानमंत्रेण पूजाहोमं समाचरेत् ।चरुं हुत्वात्वघोरेण प्रत्येकाष्टशताहुतिः ॥१४॥रात्रौ प्रतिसरं बध्वा लिंगपीठौ द्विजोत्तम ! ।स्वर्णरजतकार्पास सूत्रैर्वा हृदयेन तु ॥१५॥प्राग्वदग्निं समभ्यर्च्य स्विष्टं पूर्णाहुतिं चरेत् ।एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके ॥१६॥देशिकश्च शुचिर्भूत्वा सकलीकृत विग्रहः ।सितवस्त्रोत्तरीयाढ्यः सितमाल्यानुलेपनः ॥१७॥प्. २५८) सितयज्ञोपवीताढ्यः शिवद्विजकुलोद्भवः ।स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रपवित्रधृत् ॥१८॥प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् ।पायसं घृतसंयुक्तं शिरः स्थाने बलिं हरेत् ॥१९॥रक्तशालिं परित्यज्य गन्धाद्यैरर्चयेद्धृदा ।रत्नेन तं लिखेल्लिंगं मध्ये सूत्रं तु पातयेत् ॥२०॥मुखभागे तु मध्ये तु नालं कुर्यात्सलक्षणम् ।लिंगमानेन मतिमान् सूत्रविस्तारमुच्यते ॥२१॥रुद्रभागोदयं ग्राह्य शिरसो वर्तनान्वितम् ।वेदविंशच्छतांशं च कृत्वैकांशांगुलं स्तृतम् ॥२२॥तदंशं वसुधा भज्यं तदेकयव मुच्यते ।उत्तमोत्तमलिंगानां सूत्रं पंचयवंतती ॥२३॥शेषाणामपि लिंगानां वर्धयेन्न तु ह्रासयेत् ।अधमत्रयलिंगानां सूत्रतारं यवं भवेत् ॥२४॥सूत्रविस्तारमेवं स्याद् खातं चैव तु तत्समम् ।लक्षणं शिरसि व्याधिः ललाटे मरणं भवेत् ॥२५॥नेत्रसूत्रे त्वपस्मारं आस्ये चान्नविनाशनम् ।चिबुके बन्धुनाशं स्यात् कर्णे स्कन्धविनाशनम् ॥२६॥स्तनदेशे सुतं हन्ति तस्मादेशाद्विवर्जयेत् ।शिरसा सहरुद्रांशं गुणभागविभाजिते ॥२७॥प्. २५९) एकांशमूर्ध्वके * * स्थानादूर्ध्वतदंशके ।तदधस्थांशके विप्र लक्षणोद्धारमाचरेत् ॥२८॥पद्मस्य मुकुलाकारं यथायुक्ति यथाकृतिः ।द्विजानामभिवृद्ध्यर्थं नृपाणां च जयावहम् ॥२९॥खड्गौ प्रत्यान्विताकारं कुञ्जराक्षमिवाकृतिः ।शंखं चांकुशयोर्भेदान्नृपाणामभिवृद्धये ॥३०॥कराञ्जलि समाकारं गोकर्णाकृति वर्तुलम् ।वैश्यानां तत्त्रिकोणं च शूलवृत्तायतं तथा ॥३१॥शूद्रस्य वृद्धिकरं त्रीणि वैश्यानां तस्य लक्षणम् ।लक्षणोद्धारणोक्तांशं रुद्रभागविभाजिते ॥३२॥मुकुलोदयमेकांशं तद्व्यासं चापि तत्समम् ।तन्मूलनालदीर्घं तु नवभागमुदाहृतम् ॥३३॥तन्नालमेकसूत्रं वा सूत्रद्वित्रियुतं तु वा ।सूत्रद्वित्रियुतं चेत्तु सूत्रान्तरं यवत्रयम् ॥३४॥यवद्वयान्तरं वाथ नालतारं द्विजोत्तम ! ।नालमूले च तस्याग्रे सीमासूत्रं समालिखेत् ॥३५॥तन्नालं चैकसूत्रं चेत् लिंगमध्ये विशेषतः ।सूत्रोक्त व्यासखातं च नालयामे तु कल्पयेत् ॥३६॥नालाधस्तात्तु व्योमांशं त्यज्य विष्णुशिरोपरि ।मणिरेखां ततः कुर्यान्मुकुलादास्फिगन्तकम् ॥३७॥मणिरेखयोन्तरं पद्ममूले पद्मसमं तु वा ।पद्मतार त्रिधैकं वा वेदांशेऽग्न्यंशमेव वा ॥३८॥पंचांशे तु युगांशे वा पद्मतारार्धमेव वा ।मुकुलमूलेन्तरं ह्येवं नालमूलेन्तरं शृणु ॥३९॥नालायामसमं वार्धं त्रिपादं वा युगांशके ।त्रिभागं पंचभागे तु वेदभागमथोपरि ॥४०॥नालमूले समे वेशमणिरेखाद्वयोन्तरम् ।मूलादग्रं क्रमात्क्षीणं मणिरेखां ततः कुरु ॥४१॥नालमूले समे तिर्यक् द्वा पृष्ठे तु सबन्धयेत् ।मणिरेखाव्यासखातं लिंगस्योचितसूत्रवत् ॥४२॥मणिरेखालम्बनालदीर्घ तुंगसमेव वा ।तस्मात्तन्मूलपर्यन्तं वसुभागविभाजिते ॥४३॥मणिरेखालम्बनं विप्र नवधा परिकीर्तितम् ।सर्वेषु लक्षणोद्धारेष्वेवं वै मणिरेखके ॥४४॥प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ।लक्षणोद्धारणांशं तु दशभागविभाजिते ॥४५॥मुकुलोदयमेकांशं वस्वंशं नालदीर्घकम् ।नालाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत् ॥४६॥द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु ।लक्षणोद्धारभागं तु धर्मभागविभाजिते ॥४७॥प्. २६१) एकांशं मुकुलोत्तुंगं नवांशं नालदीर्घकम् ।शेषं पूर्ववदुद्दिष्टं चतुर्थं लक्षणं शृणु ॥४८॥लक्षणांशं तु नवधा भज्यैकांशं तु कुड्मलम् ।सप्तांशं नालदीर्घं तु शेषं पूर्ववदेव हि ॥४९॥चतुर्थं लक्षणं प्रोक्तं पंचमं लक्षणं शृणु ।लक्षणांशं वसुधा भज्य व्योमांशं मुकुलोदयम् ॥५०॥षडंशं नालदीर्घं तु नालाधस्ताच्छिवांशकम् ।तदेव सप्तभागं तु नालदीर्घमुदाहृतम् ॥५१॥शेषं प्रागिव कर्तव्यं * * * * * * * * ।लक्षणांशे तु सप्तांशे शश्यंशं मुकुलोदयम् ।भूतांशं नालदीर्घं तु शेषं पूर्ववदेव हि ॥५३॥षडंशं नालदीर्घं तु शेषं प्रागिव संख्यया ।एवमष्टविधं ख्यातं नालायामं द्विजोत्तम ! ॥५४॥अग्राकारेब्जमुकुलात् भानुसंख्यात्सुसुव्रतम् ।यथेष्टनालकर्तव्यं वसुसंख्यासु मे द्विज ॥५५॥अग्राकारे दृढसूत्रं प्रकर्तव्यं लिंगेषूक्त प्रमाणतः ।स्थापयेत्तु ततो लिंगं प्रागुदग्रंदुरष्टके ॥५६॥लक्षयेत्पिण्डिकावक्त्रं लिंगसौम्ये निधापयेत् ।स्थापितैः कलशैः स्नाप्य लिंगपीठौ हृदा गुरुः ॥५७॥प्. २६२) गव्यैर्गन्धोदकैः स्नाप्य गन्धपुष्पादिभिर्यजेत् ।लम्बकूर्चसमायुक्तं सर्वालंकारशोभितम् ॥५८॥रथे वा शिबिकायां वा ग्रामं कृत्वा प्रदक्षिणम् ।आचार्यं शिल्पिनं पूज्य वस्त्र हेमांगुलीयकैः ॥५९॥ततो जलाशयं प्राप्य जलाधीवासनं कुरु ।लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु ॥६०॥इत्यंशुमान्काश्यपे लक्षणोद्धारविधिपटलः (चतुः पंचाशः) ॥५४॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP